10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌

From Samskrita Vyakaranam
Revision as of 23:24, 18 July 2021 by Vidhya (talk | contribs) (Protected "10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

10---nyAyashAstram/10---prashnAH-uttarANi-ca/10---janakanAshAjanyaguNanAshasya-ekadeshadRuShTAnTAH-ca-pAkaviShaye-vAdadvayam
Jump to navigation Jump to search


ध्वनिमुद्रणाणि -

१) asamavAyikAraNanAshena-guNanAshaH_+_janakanAshAjanyaguNanAshasya-ekadeshadRuShTAnTAH_+_pAkaviShaye-vAdadvayam_2017-09-16

२) piilupAkavAdinaM-mate-ghaTe-vidyamAna-rUpa-nAsha-prakriyA_2017-09-23

३) piilupAkavAde-piTharapAkavAde-ca-rUpAdiinAM-kArya-kAraNa-bhAvaH_+_janakanAshAjanyaguNanAshasya-ekadeshadRuShTAnTAH_2017-09-30


जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌


"एतद्भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गूणान्तरेणैव भवति | यथा घटादिषु रूपादीनां नाशः पिठरपाकवादिनैयायिकमते तेजःसंयोगात्‌ जायते | यथा च द्रवत्वनाशः तेजःसंयोगेन | एवम्‌ आत्मसमवेतज्ञानादीनामपि नाशः |” अत्र जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः दीयन्ते— १) घटादिषु रूपादीनां नाशः तेजःसंयोगात्‌; २) तेजःसंयोगेन द्रवत्वनाशः; ३) आत्मसमवेतज्ञानादीनाम्‌ नाशः | क्रमेण अवलोकयाम |


घटादिषु तेजःसंयोगात्‌ रूपादीनां नाशप्रसङ्गे परिचयः पूर्वं जातः; अत्र किन्तु 'पिठरपाकवादिनैयायिकमते' इत्युक्तम्‌ अतः अस्मिन्‌ प्रसङ्गे किञ्चित्‌ पश्येम | पाकविषये वादद्वयमस्ति | यथा जानीमः, पाकः इत्युक्ते तेजःसंयोगः | तेजसः संयोगेन पूर्वं विद्यमानं रूपं नश्यति, नूतनरूपं च उत्पद्यते | एवमेव रीत्या च पूर्वं विद्यमानः रसः नश्यति, रसान्तरञ्च उत्पद्यते | पूर्वं विद्यमानः गन्धः नश्यति, गन्धान्तरञ्च उत्पद्यते | पूर्वं विद्यमानः स्पर्शः नश्यति, स्पर्शान्तरञ्च उत्पद्यते | तेजसः संयोगेन एतत्सर्वं भवति | कथं भवति इत्यस्मिन्‌ विषये वादद्वयं विद्यते |


प्रथमवादः पीलुपाकवादः | पीलुः इत्युक्ते परमाणुः | वादः इत्युक्ते सिद्धान्तः | 'तत्‌ वदति' इत्यस्मिन्‌ अर्थे वादः— 'तस्य कथनम्‌ एवम्‌' इति | वद्‌-धातुः + घञ्‌-प्रत्ययः → वादः | पीलुपाकवादिनां मतेन परमाणौ तेजःसंयोगः भवति | तदा परमाणौ विद्यमानं रूपं नश्यति; तेन द्व्यणुके विद्यमानं रूपं नश्यति; तेन च त्र्यणुके विद्यमानं रूपं नश्यति; तेन चतुर्णुके विद्यमानं रूपं नश्यति; एवं रीत्या अन्ततो गत्वा घटे विद्यमानं रूपं नश्यति | अनन्तरं परमाणौ अन्यद्रूपम्‌ उत्पद्यते | तच्च परमाणौ रूपं द्व्यणुके विद्यमाणं रूपं प्रति कारणं; तच्च क्रमेण त्र्यणुके विद्यमाणं रूपं प्रति कारणं भवति; अन्ततो गत्वा घटे विद्यमानं रूपं प्रति कारणं भवति | अयं वादः वैशेषिकाणाम्‌ |


पिठरपाकवादः इति द्वीतीयं मतम्‌ | अत्र च पिठर-शब्दः स्वीकृतः; पिठर-शब्दस्य घटः इत्यर्थः | वस्तुतः घटे एव कार्यं भवति इति न; 'पिठरपाकः' इति पारिभाषिकनामकरणं कृतं, तावदेव | पिठर-शब्देन पार्थिवद्रव्यं यत्किमपि भवति | पिठरपाकवादिनां मतानुसारं साक्षात्‌ घटे एकं रूपम्‌ अस्ति | तेजःसंयोगः च साक्षात्‌ घटे भवति; न तु परमाणौ | तर्हि घटे तेजःसंयोगः जायते; तेन कारणेन घटे विद्यमानं रूपं नश्यति, रूपान्तरं च उत्पद्यते | अयं वादः नैयायिकानाम्‌ |


अत्र बोध्यं यत्‌ एते चत्वारः अपि—रूपं, रसः, गन्धः, स्पर्शः—एते चत्वारः अपि गुणाः साक्षात्‌ परमाणौ, अतः प्रथमतया अवयविनि, जायन्ते इति पीलुपाकवादिनः प्रतिपादयन्ति | किन्तु पिठरपाकवादिनः कथयन्ति यत्‌, यत्‌ महद्द्रव्यम्‌ अस्ति घटः, तस्मिन्‌ साक्षात्‌ एते चत्वारः गुणाः जायन्ते | अस्य अर्थो नास्ति यत्‌ पिठरपाकवादिनां मतानुसारं परमाणुस्तरे रूपं नास्ति; रूपम्‌ अस्ति इति तेऽपि वदन्ति | किन्तु अत्र रूपं परमाणौ प्रथमं जायते इति न; साक्षात्‌ घटे जायते | उभयमते तेजःसंयोगेन रूपं जायते द्रव्ये; कथं जायते इत्येतावान्नेव मतभेदः | उभयत्र च परमाणुस्तरे रूपं, रसः, गन्धः, स्पर्शः इति गुणाः सन्ति, मतद्वयेऽपि |


आहत्य तर्हि भेदः एवम्‌—पीलुपाकवादिभिः उच्यते यत्‌ परमाणौ विद्यमानं कृष्णरूपं नश्यति; तस्मात्‌ कारणात्‌ द्व्यणुके विद्यमानं कृष्णरूपं नश्यति; तस्माच्च त्र्यणुके विद्यमानं कृष्णरूपं नश्यति; एवं क्रमेण घटे विद्यमानं रूपं नश्यति | यदा परमाणौ विद्यमानं कृष्णरूपं नश्यति, तदा तदग्रिमक्षणे अन्यद्रूपं, श्वेतरूपम्‌ उत्पद्यते | तदा क्रमेण तदेव रूपम्‌ उत्पद्यते द्व्यणुके, त्र्यणुके, चतुर्णके, घटे च इति प्रक्रिया | पिठरपाकवादिभिः उच्यते यत्‌ साक्षात्‌ घटे जायते; घटे जायते इत्युक्ते तदधिकरणे अवयवेष्वपि | अतः इदं रूपपरिवर्तनं परमाणुष्वपि भवति इति ते अङ्गीकुर्वन्ति | किन्तु आदौ परमाणुषु अनन्तरं द्व्यणुके इत्यादिकम्‌ एषः क्रमः नास्ति; साक्षात्‌ घटे जायते | भिन्नसमये घटे, भिन्नसमये परमाणौ इति न | घटस्य यावन्तः अवयवाः सन्ति तेषु सर्वेषु युगपदेव पूर्वं रूपं नश्यति, तेषु सर्वेषु च युगपदेव नूतनं रूपं जायते | समग्रे घटे, तस्य सर्वेषु अवयवेषु च एकवारमेव नूतनरूपं जायते |


अद्यत्वे 'वैशेषिकं' 'न्यायः' इतीमौ द्वौ विषयौ मिलित्वा पठ्यते; पृथक्‌-पृथक्‌ पाठः इति साधारणतया न भवति | किमर्थं द्वयं मिलित्वा पठामः इति चेत्‌, अनयोः नवनवतिप्रतिशतं मतं समानमेव | अनयोः नवनवतिप्रतिशतं सिद्धान्ताः समानाः; कुत्रचिदेव एकप्रतिशतं भिन्नम्‌ | अस्मिन्‌ लघुभेदक्षेत्रे एतादृशाः केचन विषयाः सन्ति | वैशेषिकाणां मतानुसारं परमाणौ पाकः जायते अतः ते 'पीलुपाकवादिनः' इत्युच्यते | नैयायिकानां मतानुसारं घटे साक्षात् पाकः जायते अतः ते 'पिठरपाकवादिनः' इत्युच्यते |


प्रकृतौ जनकनाशाजन्यगुणनाशः, तादृशजनकनाशात्भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गूणान्तरेण हि भवति | यथा घटादिषु द्रव्येषु रूपं, रसः, गन्धः, स्पर्शः इत्येषां नाशः तेजःसंयोगात्‌ | एते चत्वारः एकदेश-अन्वयदृष्टान्ताः | इदं मतं पिठरपाकवादिनाम्‌ इत्युक्तम्‌ | पीलुपाकवादिनां मतम्‌ अत्र किमित्यस्य बोधनार्थं किञ्चित्‌ इतोऽपि गभीररीत्या स्थितिः परिशीलनीया भवति |


एतावता परिचयत्वेन उक्तम्‌; अधुना अग्रे वस्तुस्थितिः द्रष्टव्या | वैशेषिकाणां मतानुसारं परमाणौ पाकः जायते अतः ते 'पीलुपाकवादिनः' इत्युक्तम्‌ | आरम्भे अपक्वं घटं स्वीकुर्मः | तस्मिन्‌ मृदुत्वं वर्तते; मृदुत्वं किमर्थम्‌ इति चेत्‌, घटस्य अवयवसंयोगेषु शैथिल्यम्‌ अस्ति | अधुना अपक्वघटः अग्निसंयुक्तस्थले स्थाप्यते | तस्मात्‌ घटस्य परमाणुषु पाकः जायते; परमाणवः नित्याः अतः तेजःसंयोगेनापि तेषां नाशो न भवति | किन्तु अनेन पाकेन द्वयोः परमाण्वोः यः शिथिलसंयोगः, सः संयोगः नश्यति | द्वयोः परमाण्वोः यः संयोगः आसीत्‌ सः नष्टः; स च संयोगः द्व्यणुकस्य असमवायिकारणम्‌ आसीत्‌ | अधुना असमवायिकारणनाशात्‌ तच्च द्व्यणुकं स्वयं नष्टम्‌ | परमाणुः नित्यः, किन्तु द्व्यणुकं नित्यं न; यदा पाकेन परमाणुद्वयस्य संयोगः नष्टः, तदा तस्मात्‌ द्व्यणुकं नष्टम्‌ | तर्हि परमाणुद्वयसंयोगनाशे सति द्व्यणुकनाशः | अधुना द्व्यणुकं त्र्यणुकस्य अवयवः अतः तच्च द्व्यणुकं त्र्यणुकस्य समवायिकारणं; यदा द्व्यणुकं नष्टं तदा समवायिकारणनाशात्‌ त्र्यणुकमपि नष्टम्‌ | ततः अग्रे च संयोगनाशेन अवयवनाशः इति न अपि तु साक्षात्‌ द्रव्यभूतावयवस्य नाशात्‌ तस्मिन्‌ समवेतस्य नाशः | अतः त्र्यणुकनाशात्‌ चतुर्णकनाशः, एवं च क्रमेण कपालिकानशः, कपालिकानशात्‌ कपालनाशः, अन्ततो गत्वा घटनाशोऽपि जायते |


तर्हि पुरातनघटः नष्टः | द्वयणुकेऽपि रूपम्‌ आसीत्, एवमेव सर्वेषु अवयवेषु रूपम्‌ आसीत् | किन्तु यदा तेजःसंयोगः कृतः घटे, तदा परमाणुद्वयसंयोगनाशक्रमेण कपालनाशः, घटनाशश्च अभवत्‌ | अनेन परमाणून्‌ अतिरिच्य सर्वे अवयवाः नष्टाः; तेषु आश्रितरूपम्‌ अपि नष्टम्‌ | परमाणवः किन्तु तस्मिन् क्रमे न नष्टाः; ते अधुनापि सन्ति, तेषु च रूपम्‌ अस्ति | तदानीं परमाणवः स्वतन्त्राः— ते तु न कस्यापि अवयवाः | तेषु स्वतन्त्रेषु परमाणुषु सम्प्रति तेजःसंयोगेन पूर्वतनश्यामरूपं नश्यति, नूतनतया च नवीनरक्तरूपम्‌ उत्पद्यते | तदा परमाणुसंयोगात्‌ द्व्यणुकोत्पत्तिः, द्व्यणुकसंयोगात्‌ त्र्यणुकतोत्पत्तिः इत्येवं क्रमेण घटोत्पत्तिः | अपि च यद्रक्तरूपं निष्पन्नं परमाणुषु, तदेव रक्तरूपं नूतनावयवेषु घटे च वर्तते | अवयवाः रक्तरूपवन्तः, कपालः रक्तरूपवान्‌, एवं रीत्या च घटोऽपि रक्तरूपवान्‌ | इत्थञ्च श्यामरूपवद्घटः नष्टः, स्वत्रन्तेषु परमाणुषु श्यामरूपञ्च नष्टं; तत्र च रक्तरूपम्‌ उत्पन्नम्‌ | अनन्तरं द्व्यणुकादिक्रमेण रक्तघटस्य उत्पत्तिः भवति |


अयं घटोत्पत्तिक्रमः पाकानन्तरम्‌ एव भवति; तस्मिन्‌ च क्रमे येन परमाणुद्वयसंयोगेन द्व्यणुकम्‌ उत्पद्यते, सः संयोगः निबिडः न तु शिथिलः | आरम्भे अपक्वघटे अवयवसंयोगेषु शैथिल्यं, तत्र मृदुत्वम् अनुभूयते घटे | पाकेन च एते शिथिलसंयोगाः नश्यन्ति; तदा पाकानन्तरं ये नूतनावयवसंयोगाः जायन्ते, तेषु नैबिड्यं वर्तते | अनेन च घटः नितरां नूतनः | तदा कठिनत्वम्‌ अनुभूयते घटे |


अयं घटनाशः अस्माभिः न दृश्यते; अस्माकं पुरतः घटः तु तदानीमपि अस्ति | किन्तु सूक्ष्मस्तरे स च घटः नष्टः | स एव घटः तदानीमपि अस्ति इति अस्माकं भ्रान्तिः इति वैशेषिकाभिप्रायः | यथा ग्रीष्मकाले आयसस्य आकृतिः विकसति, वर्धते | यदा अधिकाधिकातपः आपतति, तदा विद्युत्तन्तुः दीर्घो भवति | शैत्यकाले स च विद्युत्तन्तुः किञ्चित्‌ लघ्वीभवति | एतादृशपरिवर्तनात्‌ विद्युत्तन्तुः नितरां भिन्नः इति तेषां मतम्‌ | एवं रीत्या यदा घटस्य तेजःसंयोगः भवति, तदा पूर्वतनावयवसंयोगाः नश्यन्ति | अपक्वघटस्य शिथिलाः अवयवसंयोगाः, तेजःसंयोगानन्तरम्‌ अवयवसंयोगाः निबिडाः | तदा घटे कठिनत्वम्‌ अनुभूयते; तस्य कारणञ्च इदं यत्‌ पूर्वतनावयवसंयोगाः नष्टाः, नूतनतया निबिडसंयोगाः व्युत्पन्नाः |


मूलपर्पटनिर्माणसमये पर्पटः बृहान्‌ अस्ति | आतपे पर्पटः बहिः स्थाप्यते दिनपञ्चकं यावत्‌, अनन्तरम् आपणं प्रति पर्पटः आनीयते | दिनपञ्चकानन्तरं तेजःसंयोगवशात्‌ आदिमदिने यः आकारः आसीत्‌ स च आकारः अन्तिमदिने तदपेक्षया नितरां भिन्नः | आदिमदिने जलसंयोगात्‌ बृहान्‌ आसीत्‌; तेजःसंयोगानन्तरम्‌ अन्तिमे दिने यदा आपणं प्रति प्रेष्यते, तदा पर्पटः लघुः जातः | तेजःसंयोगात्‌ आकृतेः वैपरीत्यं दृश्यते | अनेन पुरातनः अवयवी नष्टः, नूतनावयवी व्युत्पन्नः इति वैशेषिकाणाम्‌ आशयः | परमाणवः ते एव, किन्तु नूतनसंयोगेन द्व्यणुकात्‌ आरभ्य सर्वे अवयवाः भिन्नाः | एवं कृत्वा पूर्वतनपर्पटः अन्यः, इदनींतनपर्पटः अन्यः |


प्रकृतौ यथा पाषाणावयवसंयोगेषु नैबिड्यं वर्तते, तथैव घटे तेजःसंयोगानन्तरं घटावयवसंयोगेषु नैबिड्यम्‌ अस्ति | तत्र च घटस्य असमवायिकारणं कपालसंयोगः; स च संयोगः पूर्वम्‌ अन्यविधः आसीत्‌ अधुना अन्यविधः जातः | अपि च असमवायिकारणनाशात्‌ द्रव्यनाशः इति तु भवत्येव | एवमेव परमाणुद्वयसंयोगरूप-असमवायिकारणनाशात्‌ द्व्यणुकनाशः इत्यस्ति | इति रीत्या घटस्तरे अवयवसंयोगाः सर्वे नष्टाः, नूतनाः अवयवसंयोगाः उत्पन्नाः इति चेत्‌, वैशेषिकाः घटनाशम्‌ अङ्गीकुर्वन्ति | घटः नष्टः चेत्‌, तस्मिन्‌ विद्यमानं रूपं तु नष्टमेव | किन्तु घटगतरूपनाशस्य अत्र कारणं समवायिकारणनाशः न तु समानाधिकरणगुणः तेजःसंयोगः | वैशेषिकमते यस्मिन्‌ काले तेजःसंयोगेन घटे रूपान्तरं भवति, तद्रूपान्तरं केवलं रूपान्तरं न; घटान्तरमपि अस्ति | तस्मिन्‌ घटे गन्धः अन्यः, स्पर्शः अन्यः, रूपमपि अन्यत्‌, सर्वं परिवर्तितं; पूर्वं शिथिलसंयोगः अधुना निबिडसंयोगः, पूर्वं मृदुत्वम्‌ अधुना कठिनत्वम्‌; अतः पूर्वतनघटः नास्ति, नूतनघटः निष्पन्नः |


तत्र च पीलुपाकवादिनां मतेन, घटे विद्यमानरक्तरूपं प्रति समवायिकारणं किम्‌ ? घटः एव | अपि च घटे विद्यमानरक्तरूपं प्रति असमवायिकारणं किम्‌ ? कपाले विद्यमानरक्तरूपम्‌ | कपाले विद्यमानरक्तरूपं प्रति असमवायिकारणं किम्‌ ? कपालिकायां विद्यमानरक्तरूपम्‌ | एवं रीत्या चतुर्णके विद्यमानरक्तरूपं प्रति त्र्यणुके विद्यमानरक्तरूपम्‌ असमवायिकारणम्‌ | त्र्यणुके विद्यमानरक्तरूपं प्रति द्व्यणुके विद्यमानरक्तरूपम्‌ असमवायिकारणम्‌ | द्व्यणुके विद्यमानरक्तरूपं प्रति परमणौ विद्यमानरक्तरूपम्‌ असमवायिकारणम्‌ | परमणौ विद्यमानरक्तरूपं प्रति असमवायिकारणं किम्‌ ? समवायिकारणं किम्‌ ?


घटात्‌ सर्वक्रमः समानः, किन्तु परमाणुस्तरे विद्यमानरक्तरूपं प्रति असमवायिकारणं तेभ्यः भिन्नम्‌ | अत्र तु तेजःसंयोगः एव परमाणौ विद्यमानरक्तरूपं प्रति असमवायिकारणम्‌ | इत्थञ्च पीलुपाकवादमते घटरूपं प्रति कपालगतरक्तरूपम्‌ असमवायिकारणम्‌ | पिठरपाकवादिनां मते घटरूपं प्रति पाकः असमवायिकारणम्‌ | पीलुपाकवादिनां मते कुत्र पाकः असमवायिकारणम्‌ ? परमाणौ विद्यमानरक्तरूपं प्रत्येव तेजःसंयोगः असमवायिकारणम्‌ | पिठरपाकवादिनां मते घटीयपरमाणुतः आरभ्य घटपर्यन्तं विद्यमानरक्तरूपं प्रति तेजःसंयोगः एव असमवायिकारणम्‌ | परमाण्वारभ्य घटपर्यन्तम्‌ इत्येषु सर्वेषु स्तरेषु युगपदेव रक्तरूपम्‌ उत्पद्यते | तर्हि तत्र परमाणुगतरक्तरूपं वा भवतु, घटगतरक्तरूपं वा भवतु, असमवायिकारणं पाकः एव | पीलुपाकवादिनां मते च घटगतरक्तरूपं प्रति तेजःसंयोगः अन्यथासिद्धः | उभयत्र रक्तरूपस्य समवायिकारणं समानं; केवलम्‌ असमवायिकारणं भिद्यते |


आहत्य पीलुपाकवादिनां मतेन तेजःसंयोगेन घटे विद्यमानश्यामरूपं तु नश्यति; किन्तु नश्यति यतोहि घटः एव नष्टः | समवायिकारणं नश्यति इति कृत्वा एव घटगतरूपं नश्यति | ते तु वदन्ति यत्‌ अपक्वघटावयवसंयोगे शैथिल्यम्‌ अस्ति | तेजःसंयोगानन्तरं घटस्य अवयवसंयोगे नैबिड्यम्‌ अस्ति; अनेन च पूर्वतनघटः एव नश्यति नूतनघटः चोत्पद्यते | तस्मात्‌ 'जनकनाशाजन्यगुणनाशः' इत्येव नास्ति, न सम्भवति यतोहि तेजःसंयोगेन रूपनाशप्रक्रियायां समवायिकारणम्‌ असमवायिकारणं च उभौ नश्यतः | रूपनाशक्रमे घटः एव नश्यति नूतनघटश्च उत्पद्यते | अतः "घटादिषु रूपादीनां नाशः तेजःसंयोगात्‌ जायते" इति पिठरपाकवादिनैयायिकमते एव, न तु वैशेषिकमते | वैशेषिकमते परमाणौ रूपनाशः तेजःसंयोगात्‌; घटे रूपनाशः जनकनाशात्‌ एव— घटनाशात्‌ एव घटगतरूपनाशः | घटनाशं विना घटे विद्यमानं रूपं न नश्यति, न वा उत्पद्यते |


अग्रे, घृते द्रवत्वनाशः तेजःसंयोगेन इति अन्यः एकदेशः अन्वयदृष्टान्तः | किमर्थं अन्यः, चतुर्भ्यः भिन्नः ? यतोहि रूपं, रसः, गन्धः, स्पर्शः इत्येते चत्वारः गुणाः यदा नश्यन्ति, तदा तदग्रिमे क्षणे नूतनरूपं, रसः, गन्धः, स्पर्शः च उत्पद्यन्ते | किन्तु द्रवत्वं न तथा; यदा नश्यति, तत्स्थाने नूतनद्रवत्वं नोत्पद्यते | अतः दृष्टान्तान्तरम्‌ |


'जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः' इत्यस्य तृतीयम्‌ उदाहरणम्‌ आत्मसमवेतज्ञानादीनामपि नाशः | ज्ञानम्‌ इति गुणः आत्मनि | तच्च ज्ञानं क्षणिकं, यतोहि नश्यति तदुत्तरवर्तिज्ञानेन | यथा आत्मनि एकं ज्ञानम्‌ अस्ति; अग्रिमक्षणे उत्पन्नं यत्‌ ज्ञानं, तेन नूतनज्ञानेन पूर्वक्षणे विद्यमानं ज्ञानं नश्यति | आत्मनि पूर्वं विद्यमानं ज्ञानम्‌ इति कश्चन गुणः; अग्रिमे क्षणे यत्‌ ज्ञानम्‌ उत्पद्यते सोऽपि गुणः | अतः जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्यत्रापि अस्ति | इति कृत्वा अन्यः एकदेशः अन्वयदृष्टान्तः |


अग्रे च 'आत्मसमवेतज्ञानादीनाम्‌' इत्युक्तं, नाम सुखं, दुःखं, इच्छा, द्वेशः, प्रयत्नः इत्येते गुणाः अपि क्षणिकाः; उत्तरक्षणोत्पन्नगुणेन नश्यन्ति | आत्मनि विद्यमानं सुखं नश्यति तदुत्तरवर्तिसुखेन दुःखेन च | दृष्टान्ते मित्रस्य मृत्युः जातः | मित्रस्य मरणम्‌ इति ज्ञानं यदा आत्मनि जायते, तदा तद्ज्ञानं पूर्ववर्तिसुखस्य नाशकम्‌ | एवमेव पूर्वतनसुखम्‌ अग्रिमसुखं नाशयति; अग्रे च एवं रीत्या क्रमेण परस्परनाश्यनाशकभावो भवति | भिन्नभिन्नदुःखानि भवन्ति गच्छता कालेन; तेषां क्रमेण परस्परनाश्यनाशकभावः वर्तते | तथैव च इच्छा, द्वेशः, प्रयत्नः इत्येषामपि प्रसङ्गे |


ज्ञानं, सुखं, दुःखं, इच्छा, द्वेशः, प्रयत्नः इत्येते योग्यविभुविशेषगुणाः | एषां योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नविशेषगुणनाश्यत्वम्‌ इति नियमः | योग्यः इत्यनेन प्रत्यक्षयोग्यः | योग्याः ये विभुविशेषगुणाः | 'अहं सुखी', 'अहं दुःखी' इत्यनयोः प्रत्यक्षं जायते अस्माकम्‌ | 'अहं जाने' इत्यस्यापि प्रत्यक्षं जायते | आत्मा विभुद्रव्यं, सर्वमूर्तद्रव्यसंयोगी इति | तस्य च विशेषगुणाः ये योग्याः सन्ति, तादृशयोग्याः ये विभुविशेषगुणाः भवन्ति, तेषां योग्यानां विशेषगुणानां स्वोत्तरोत्पन्नविशेषगुणेन नाश्यत्वम्‌ इति भवति |


तर्हि एते सर्वे जनकनाशाजन्यगुणनाशः इति सामान्यपक्षस्य एकदेशदृष्टान्ताः | रूपं, रसः, गन्धः, स्पर्शः इत्येषां नाशानां समानाधिकरणगुणः तेजःसंयोगः नाशकः; द्रवत्वनाशस्यापि समानाधिकरणगुणः नाशकः; आत्मसमवेतज्ञानादीनामपि नाशः अपि तथा | इति कृत्वा जनकनाशाजन्यगुणनाशः इत्यस्य अनेके एकदेशदृष्टान्ताः | अस्य आधारेण अग्रे 'तथाविधः खलु जनकनाशाजन्यः संयोगनाशः समानाधिकरणगुणजन्यः | सः गुणः एव विभागः |'


Swarup – Sept 2017

10 - जनकनाशाजन्यगुणना ... कविषये वादद्वयम्‌.pdf