14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?

From Samskrita Vyakaranam
10---nyAyashAstram/10---prashnAH-uttarANi-ca/14---uttaradesha-sanyogaM-prati-vibhAga-karaNaM-va
Jump to navigation Jump to search

प्रश्नः— उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?


उत्तरं— सामान्यक्रमः अयं—


पूर्वदेशसंयोगः (यथा वृक्ष-फलयोः) → आद्यपतनक्रिया → विभागः → पूर्वसंयोगनाशः → उत्तरदेशसंयोगः → प्रथमक्रियानाशः → द्वितीयपतनक्रियोत्पत्तिः


विभागः पूर्वसंयोगनाशं जनयति, तदा उत्तरदेशसंयोगो भवति | अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम्‌ उत्पादयति | एतत्‌ अवश्यं भवितुम्‌ अर्हति; विभागलक्षणविरोधी विचारो नास्ति | विभागः संयोगस्य नाशकः अपि जनकः अपि भवितुम्‌ अर्हति | यतोहि यं संयोगं नाशयति, तमेव संयोगं जनयति इति नास्ति | यं संयोगं नाशयति, सः संयोगः भिन्नः; यं संयोगं जनयति, सः संयोगः भिन्नः | अतः विभागे संयोगनाशकत्वं संयोगजनकत्वं चोभयमविरुद्धम् | यथा वक्ष्यमाणे शब्दे शब्दजनकत्वं शब्दनाशकत्वं च | यस्य जनकत्वं तस्यैव नाशकत्वम्‌ इति नोच्यते | क्रियायामपि पूर्वसंयोगनाशकत्वम्‌ उत्तरसंयोगजनकत्वं चोभयं वर्तते | लक्षणं तु संयोगासमवायिकारणत्वमिति |


उत्तरदेशसंयोगं प्रति विभाग एव अन्यथासिद्धो यदि भवेत्तर्हि विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत | अतः उत्तरदेशसंयोगं प्रति विभागः कारणं भवत्येव |


प्रश्नः— क्रिया विभागं जनयति | विभागः पूर्वदेशसंयोगनाशं जनयति | पूर्वदेशसंयोगनाशः अपि च क्रिया उत्तरदेशसंयोगं जनयति | अतः विभागः परम्परया उत्तरदेशसंयोगं प्रति कारणं इति स्वीकार्यं इति चेत्, कुलालस्य पितुः अपि परम्परया घटं प्रति कारणं भवतु | किन्तु, तन्नाङ्गीकृतम् | अतः एतदपि नाङ्गीकार्यम् |


उत्तरं— क्रिया-विभागः-संयोगनाशः-संयोगोत्पत्तिः | अत्र क्रमे संयोगोत्पत्तौ क्रिया कारणम् | क्रिया विभागोत्पत्तिं विना संयोगं न जनयति | अतः क्रियया संयोगजनने विभागस्य व्यापारत्वम् | यथा इन्द्रियद्वारा प्रत्यक्षजनने सन्निकर्षस्य व्यापारत्वम् | व्यापारश्च नान्यथासिद्धः कारणमेव | कुलालपितुः कथमत्र दृष्टान्तरूपेण ग्रहणम् ? कुलालपिता कारणस्य जनकः न तु कारणजन्यः | (कार्यकारणयोः मध्यवर्तिनाम् अन्यथासिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा ?)


अत्र बोध्यं यत्‌ 'व्यापारः' इति 'क्रिया' इत्यर्थे न अपि तु 'तज्जन्यत्वे सति तज्जन्यजनकत्वम्‌' इति व्यापारस्य लक्षणाम्‌ | व्यापारः, लोके माध्यमम्‌ इति वदामः |


प्रश्नः— किन्तु एवं चेत्‌, लक्षणे एतादृशीम्‌ एकां सीमां कृत्वा निर्दिशन्ति स्म यत् 'पूर्वदेशसंयोगनाशको गुणः विभागः' इति, यथा 'आद्यपतनासमवायिकारणं गुरुत्वम्' इति सीमितं तद्वत् |


उत्तरं— 'संयोगनाशको गुणो विभागः' इत्यत्र विभागेन सर्वदाऽपि संयोगः नश्यति | इति तावदेव तेषां तात्पर्यम्‌ | इत्युक्ते पूर्वसंयोगः नश्यति अथवा कः संयोगः नश्यति इति तैः नोक्तम्‌ | नोक्तं चेदपि समस्या नास्ति; तत्र दोषः कोऽपि नास्ति |


'संयोगनाशको गुणो विभागः' इति कथनेन, कस्यापि च लक्षणस्य कथनेन तत्र लक्षणदोषोऽस्ति वा इति चिन्तनीयम्‌ | अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा असम्भवदोषो वा इति चिन्तनीयम्‌ | अतः 'संयोगनाशको गुणो विभागः' इति उक्तं चेत्‌, विभागे अव्याप्तिः कुत्रचित्‌ अस्ति वा इति द्रष्टव्यम्‌ | अस्य लक्षणास्य विभागे यदि कुत्रचित्‌ अव्याप्तिर्भवति, तर्हि लक्षणं परिवर्तनीयम्‌ | किन्तु तथा तु कुत्रापि नास्ति | सर्वेऽपि विभागाः संयोगनाशकाः एव | अतः कुत्रापि 'संयोगनाशक्त्वे सति गुणत्वम्' इति लक्षणेन, विभागे अव्याप्तिः नास्ति |


एवमेव, विभागात्‌ अन्यत्र कुत्रापि अतिव्याप्तिर्न भवति | इत्युक्ते विभागम्‌ अतिरिच्य अन्यः कोऽपि गुणः संयोगं न नाशयति | क्रिया संयोगं नाशयति; किन्तु क्रिया तु क्रिया एव, गुणः न | कोऽपि गुणः सन्‌ संयोगं नाशयति चेत्‌, सः विभाग एव | तेन कारणेन 'संयोगनाशक्त्वे सति गुणत्वम्' इति लक्षणस्य विभागात्‌ अन्यत्र कुत्रापि अतिव्याप्तिर्न भवति |


'संयोगनाशको गुणो विभागः' इत्यस्मिन्‌ विभागे अव्याप्तिः यदि स्यात्‌, अथवा विभागात्‌ अन्यत्र कुत्रचित्‌ अतिव्याप्तिः यदि स्यादेव लक्षणवाक्ये किमपि योजनीयम्; अन्यथा न योजनीयम्‌ | अत्र न अव्याप्तिः न वा अतिव्याप्तिः | अतः लक्षणं परिवर्तनीयं नास्ति |


अन्यथा किं भवति इत्युक्तौ लक्षणे तस्य योजितदलस्य वैयर्थ्यं भवति | लक्षणे यत्किमपि दलं योजनीयं चेत्‌, अव्याप्तिवारणाय व्याप्तिवारणाय एव योजनीयम्‌; अन्यथा न योजनीयम्‌ | इदानीं यत्र 'आद्यपतनासमवायिकारणं गुरुत्वम्' इत्युच्यते, तत्र आद्यम्‌ इति वक्तव्यम्‌ अस्ति | किमर्थम्‌ इत्युक्ते, केवलं 'पतनासमवायिकारणं गुरुत्वम्' इति वदामश्चेत्‌, पतनस्य असमवायिकारणं वेगः अपि भवति | कस्य पतनस्य कारणम्‌ ? द्वितीयपतनस्य | अतः 'पतनासमवायिकारणं' केवलं गुरुत्वं न; वेगः अपि भवति, अतः वेगे अतिव्याप्तिः | तदर्थम्‌ 'आद्यम्‌' इति गुरुत्वलक्षणे योजनीयम्‌ | तर्हि आद्यं किमर्थं योजितम्‌ ? अतिव्याप्तिवारणाय |


अत्र प्रकृतौ तु विभागः पूर्वसंयोगं नाशयति | अपरं संयोगं जनयति चेदपि 'संयोगनाशकः गुणः विभागः' इति यदा उच्यते, तदानीं कुत्रापि अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा न भवति | अतः तत्र 'पूर्वसंयोगनाशकः गुणः' इति योजनीयं नास्ति | धेयं यत्‌ 'पूर्वसंयोगनाशकः गुणः' इत्युक्तं चेत्‌ कोऽपि तादृशदोषः नास्ति, किन्तु व्यर्थता भवति | लक्षणे पूर्वसंयोगनाशकत्वं वदामश्चेत्‌ 'पूर्व'-पदं व्यर्थम् | अतः नैव योजनीयम्‌ | यथोक्तञ्च गुरुत्वलक्षणे आद्यपदाभावे वेगेऽतिव्याप्तिः— तदर्थमेव 'आद्य'-पदं योजितम्‌ |


इत्थञ्च अन्ततो गत्वा तात्पर्यमेवं यत्‌ लक्षणे किमपि योजनीयं वा न वा इत्याशये, “लक्षणं स्पष्टं भवतु' वा 'लक्षणस्य सम्यक्‌ अवगमनं भवतु', 'लक्षणं सम्यक्‌ अवगन्तव्यं जनैः' इति कारणेन दलं न योजयन्ति नैयायिकाः | लक्षणे तावदेव वक्तव्यं यावदावश्यकम् | स्पष्टप्रतिपत्यर्थं लक्षणे व्यर्थविशेषणानां प्रयोगो न भवति | तदानीं किमपि योज्यते यदा लक्षणे दोषः अस्ति, नो चेत्‌ न |


प्रश्नः— विभागः उतरदेशसंयोगं प्रति कारणम्‌ इति चेत्‌, तदेव उतरदेशसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात्‌ (पूर्वदेशनाशकत्वस्य स्थाने) ?


उत्तरम्‌— एकस्य वस्तुनः एकमेव लक्षणमिति नास्ति | यथा पृथिव्याः गन्धवत्त्वं, पाकजरूपवत्त्वं, नानारूपवत्त्वं, नानारसवत्त्वम्‌ इत्यादिकम्‌ | अव्याप्त्यादिदोषाः न सन्ति चेत् किमपि लक्षणं भवितुम्‌ अर्हति | एकं लक्षणम् अपरस्य दूषकं न भवति |


Swarup – April 2018


14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा.pdf