16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/10---prashnAH-uttarANi-ca/16---rUpalakShaNasmaraNe-gurutvasya-nivAraNam
Jump to navigation Jump to search

ध्वनिमुद्रणम्‌ -

१) audAsiinyam_+_rUpalakShaNe-gurutvasya-nivAraNam_dravatva-paricayaH_2018-05-05


गुरुत्वलक्षणदलप्रयोजनावसरे विद्याधर्यां रूपलक्षणदलप्रयोजनं पुनस्स्मृतम्‌ | उक्तं च—'इदं च गुरुत्वं न रूपादिवत्‌ इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते | तदेव चादाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्क्षणे अस्माभिः क्रमेण चक्षुग्राह्यत्वत्वगिन्द्रियग्राह्यत्वयोः सार्थक्यं चिन्तितम' |


चक्षुर्मात्रग्राह्यत्वे सति गुणत्वम्‌ इति रूपस्य लक्षणम्‌ | रूपं चक्षुर्मात्रग्राह्यं; पुनः गुणः | मात्रपदस्य इतरव्यावर्तकत्वम्‌ | अस्य बोधार्थं चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वे सति गुणत्वम्‌ इति रूपलक्षणम्‌ | लक्षणसमन्वयोऽस्ति— रूपं चक्षुर्भिन्नेन्द्रियेण त्वगादिभिः अग्राह्यम्‌ | तर्हि चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वम्‌ अस्ति रूपे | चक्षुर्ग्राह्यत्वमपि अस्ति रूपे; तथैव गुणत्वमपि अस्ति | तर्हि दलत्रयस्य रूपे समन्वयः जायते | 'लक्षणस्य लक्ष्ये विद्यमानत्वं यत्‌ वर्ण्यते सः समन्वयः' इति विद्याधर्यां (पृ०स० ४०) पूर्वम्‌ उक्तम्‌ |


अधुना दलप्रयोजनचिन्तनावसरे अन्तिमं दलं गुणत्वं त्यजाम | चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्‌ इति स्वीकृतं चेत्‌ इदं लक्षणं रूपत्वे गच्छति इत्यतः अतिव्याप्तिः | अतः गुणत्वदलं सार्थकम्‌ | सम्प्रति प्रथमं दलं चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वं त्यज्यताम्‌ | अवशिष्यते चक्षुर्ग्राह्यत्वे सति गुणत्वम्‌; इदं लक्षणं संख्यायां गच्छति |


इह चक्षुर्ग्राह्यत्वं त्यज्यताम्‌ | अवशिष्यते चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्‌ | इदं लक्षणं रूपे गच्छति न वा ? रूपं चक्षुर्भिन्नेन्द्रियैः अग्राह्यम्‌ | गुणत्वमपि रूपे अस्ति | अतः समन्वयः जायते | सङ्ख्यादौ अपि अतिव्याप्तिर्नास्ति | सङ्ख्या चक्षुर्भिन्नेन्द्रियैः गृह्यते; त्वगिन्द्रियेण ग्राह्यत्वं सङ्ख्यायां वर्तते | तर्हि इदं चक्षुर्ग्राह्यत्व-दलं नावश्यकमिति शङ्का | चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वे सति गुणत्वम्‌ इत्येव पर्याप्तम्‌ इति संशयः |


उत्तरत्वेन चक्षुर्ग्राह्यत्वम्‌ आवश्यकं किमर्थम्‌ ? गुरुत्वे अतिव्याप्तिः | कुतः ? गुरुत्वस्य अतीन्द्रियत्वात्‌ | गुरुत्वादृष्टभावनाः अतीन्द्रियाः | गुरुत्वं, धर्माधर्मौ, भावनाख्यसंस्कारः इति गुणाः अतीन्द्रियाः केनापि इन्द्रियेण न गृह्यन्ते | अतः चक्षुर्भिन्नेन्द्रिय-अग्राह्यत्वं वर्तते अतीन्द्रियगुरुत्वादिषु गुणेषु | गुणत्वमपि तेषु तु अस्ति | तदर्थम्‌ अतीन्द्रियगुरुत्वादिषु इदं लक्षणं गच्छति इति कृत्वा अतिव्याप्तिः | अतीन्द्रियगुरुत्वादिवारणाय इदं दलमावश्यकम्‌ | ग्रन्थकारेण पृ०स० ७४ इत्यस्मिन्‌ लिखितमपि—'अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः' | तस्य निवारनार्थं चक्षुर्ग्राह्यत्वं योजितम्‌ | तथैव च स्पर्शलक्षणेऽपि त्वगिन्द्रियग्राह्यत्वं योजितं, गुरुत्वादीनां वारणार्थम्‌ |


एतदर्थं विद्याधर्यां गुरुत्वलक्षणदलप्रयोजनावसरे रूपलक्षणदलप्रयोजनं पुनस्स्मृतं— 'गुरुत्वं न रूपादिवत्‌ इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते' | अतः रूपलक्षणे स्पर्शलक्षणे च चक्षुग्राह्यत्वत्वगिन्द्रियग्राह्यत्वयोः राहित्ये सति अतिव्याप्तिः | एतदर्थं अनयोः सार्थक्ये सति लक्षणवाक्ये योजनम्‌ |



Swarup April 2018

16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌.pdf