18 - स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च

From Samskrita Vyakaranam
10---nyAyashAstram/10---prashnAH-uttarANi-ca/18---snehasya-pratyakSa-grAhyatvam
Jump to navigation Jump to search

ध्वनिमुद्रणानि -

१) snehasya-pratyakSha-grAhyatvam_2018-06-02

२) snehasya-pratyakSha-grAhyatvam-2_2018-06-09

३) cvi-pratyaya_+_tingantAnAM-kriyAbodhakatvaM-guNabodhakatvaM-ca_2018-06-16

४) piNDIbhAve-bhAva-shabdArthaH_+_naiyAyikAnAM-vaiyAkaraNAnAM-matabhedaH_2018-06-23

५) piNDIbhAva-kriyAvAcako-vA_+_vAkye-kriyApadam-AvashyakaM-vA_+_sneha-piNDIbhAva-sambandha-nirUpaNam_+_shabda-paricayaH_2018-06-30


प्रश्नः उदेति यत्‌ स्नेहनामकगुणो गृह्यते इन्द्रियैः ? यद्यपि विद्याधर्यां लिखितम्‌ अस्ति, 'स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः ... चक्षुषा त्वचा वा अवधानविशेषेऽपि ऐकाग्र्येऽपि न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषेण सः अनुमातव्यः भवति'—यद्यपि विद्याधर्याम्‌ एवं लिखितम्‌ अस्ति तथापि न्यायशास्त्रसम्बद्धप्रमुखग्रन्थेषु स्नेहस्य अतीन्द्रियत्वं नास्ति; ग्रन्थेषु स्नेहः इन्द्रियग्राह्यः इति उक्तं सर्वत्र |


'सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च |

एते तु द्वीन्द्रियग्राह्याः ... || ९२ कारिकावली


सङ्ख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः, परत्वम्‌, अपरत्वं इति यावत्‌, तदा द्रवत्वं स्नेहः च— एते गुणाः द्वीन्द्रियग्राह्याः | एते गृह्यन्ते चक्षुषा त्वचा च | दिनकरी इति टीकायां च दत्तम्‌ अस्ति यत्‌ 'सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च' इति मूले 'स्नेहपदं वेगस्यापि उपलक्षकम्‌' | स्नेह-शब्देन वेगो‍ऽपि उपलक्षणीयः | तर्हि अनेन स्पष्टं भवति यत्‌ प्रमुखग्रन्थेषु स्नेहः इति गुणः द्वीन्द्रियग्राह्यः; प्राचीनग्रन्थेषु नवीनग्रन्थेषु च अयमेव सिद्धान्तः | अतः विद्याधर्यां स्नेहस्य अतीन्द्रियत्वं ग्रन्थकारस्य स्वकीयमतम्‌ इति भाति | नाम अत्र विद्याधर्यां मतभेदः प्रकटः अस्ति |


सिद्धान्ती— सामान्यन्यायशास्त्रे स्नेहः चक्षुषा दृश्यते, त्वचा च स्पृश्यते | अयं स्नेहश्च जलमात्रवृत्तिः |


प्रतिपक्षी— अत्र स्वाभाविकप्रश्नः उदेति यत्‌ जले किं दृश्यते यत्‌ स्नेहनामकं स्यात्‌ |


सिद्धान्ती— यथा घटे घटत्वं दृश्यते | घटत्वं अस्माभिः अनुभूयते | यदि घटे घटत्वं न गृह्यते, तर्हि घटान्तरं दृष्टे सति कथं वा ज्ञायते 'अयं घटः' इति ? अनेन प्रमाणमस्ति यत्‌ घटत्वं इन्द्रियैः गृह्यते | तथैव च द्रवत्वं; द्रवत्वं चक्षुषा दृश्यते | किञ्चन जलं न स्रवति चेदपि तस्य दर्शनेन ज्ञायते यत्‌ इदं जलं द्रवम्‌ | सम्यक्‌ परीक्षणं भवति पशूनां द्वारा | यतोहि पशुः परिशीलनशाली नास्ति; पशुः किमपि जानाति चेत्‌, आधिक्येन इन्द्रियैः जानाति न तु अनुमानेन | कुक्कुरः सरोवरं दृष्ट्वा जानाति यत्‌ स्वस्य पादं सरोवरे स्थितस्य जलस्य उपरि स्थापयितुं न शक्यते | किमर्थमिति चेत्‌, सरोवरं दृष्ट्वा जानाति यत्‌ सरोवरे यत्‌ जलम्‌ अस्ति, तत्‌ द्रवम्‌ | भाषाज्ञानं नास्ति तस्य, किन्तु 'इदं जलं घनरूपं नास्ति, मम पादाः तस्य उपरि स्थपयितुं न शक्नोमि' इति जानाति सः | कुक्कुरः नावगच्छति यत्‌ जले द्रवत्वनामकगुणः अस्ति; साधारणजनाः अपि न जानन्ति | किन्तु यथा साधारणजनः, कुक्कुरः अपि अवगच्छति यत्‌ इदं जलं द्रवम्‌ | 'द्रवे द्रवत्वम्‌' इति केवलं शास्त्रीयशैली; विचारः किन्तु सः एव समानः | अतः द्रवं प्रत्यक्षं, द्रवत्वमपि तथैव प्रत्यक्षम्‌ |


अन्यच्च अनुभवस्य बलेन अपि कुक्कुरः जानाति | एकवारं पादं जले संस्थाप्य अनुभवति यत्‌ पादः जलस्य उपरि न तिष्ठति | तदाधारेण अग्रे गत्वा अग्रिमवारं यदा सरोवरस्य पार्श्वे आगच्छति, सः स्मरति किमभवत्‌ पूर्वम्‌ | पूर्वतनसंस्कारद्वारा अपि प्रत्यक्षज्ञानम्‌ उत्पद्यते |


घटान्तरं दृष्टे सति अभिज्ञानं भवति अयं घटः, यतोहि अस्मिन्‌ विद्यमानं घटत्वम्‌ अनुभूयते | 'अयं मनुष्यः', 'इदं पुस्तकं', कथं जानीमः एतत्‌ सर्वम्‌ ? नवीनं पुस्तकं दृष्ट्वा जानीमः इदं पुस्तकमिति | कथं ज्ञायते ? पुस्तकत्वं गृहीतम्‌ अस्ति अस्माभिः | स्रवत्‌ जलं दृष्ट्वा ज्ञायते इदं जलं द्रवम्‌ | जलं न सरति चेदपि दर्शनेन ज्ञायते 'अस्मिन्‌ द्रवत्वम्‌ अस्ति' | अत्र प्रश्नः उदेति इदं द्रवत्वम्‌ अनुमितं वा प्रत्यक्षं वा ? उत्तरं भवति, अनुमानमपि भवति, किन्तु प्रत्यक्षमपि भवति |


एवमेव पिण्डीभावं दृष्ट्वा 'अस्मिन्‌ जले स्नेहः स्यात्‌' इति अनुमानं तु भवति, किन्तु स्नेहस्य साक्षात्‌ प्रत्यक्षम्‌ अपि भवति | अनुमानं तु सर्वथा एव प्राप्तं वर्तते | यस्य प्रत्यक्षं भवति, तत्र अनुमानं न भवति इति नास्ति | रूपस्यापि अनुमानं कर्तुं शक्यते | अत्र रूपमस्ति इत्यस्य किं प्रमाणाम्‌ ? 'अहं पश्यामि' इति प्रमाणम् | 'अतः एव पश्यामि यतोहि तत्र रूपमस्ति' इति अनुमानम्‌ | 'पिण्डीभावः वर्तते अतः अनेन ज्ञायते प्रत्यक्षेण यत्‌ स्नेहः अस्ति' इति अनुमानं न तु स्नेहस्य प्रत्यक्षम्‌ | वस्तुतस्तु जलं दृष्ट्वा 'अत्र स्नेहः अस्ति' इति जानीमः | यया रीत्या रूपं दृश्यते, द्रवत्वं दृश्यते च, अनया एव रीत्या स्नेहः अपि दृश्यते | द्रवीभूते जले एव स्नेहः भवति इति प्रत्यक्षम्‌ |


कोऽपि मनुष्यः एकं लघुबालकं सूचयति यत्‌ 'इदं शुक्लरूपम्‌, इदं नीलरूपम्‌' इत्यादिकम्‌; अनेन बालकः अवगच्छति यत्‌ कस्य कस्य रूपस्य नामकरणं किमिति | आरम्भे तथा भवति; तदा अग्रे गत्वा यत्र यत्र शुक्लरूपं वर्तते, तत्र तत्र चक्षुषा दृष्ट्वा ज्ञायते यत्‌ इदं शुक्लरूपमिति | तथैव जले स्नेहः भवति, तस्य च इदंं कार्यमस्ति इति को‍ऽपि अस्मान्‌ बाल्यकाले सूचयति | एकवारम्‌ अन्यद्वारा ज्ञात्वा, प्रतिवारं जलं दृष्ट्वा वयं वक्तुं शक्नुमः 'अत्र स्नेहः अस्ति' इति |


प्रतिपक्षी— जलीयपरमाणुषु द्रवत्वं वर्तते; तैः च यदा जलीयपरमाणुभिः करका भवति, तदा द्रवत्वं नानुभूयते इति कृत्वा प्रश्नः उदेति किमर्थं किञ्चन 'अदृष्टं' प्रतिबन्धकमस्ति इति वक्तव्यम्‌ ? यया रीत्या जले स्नेहः इति कोऽपि अस्मान्‌ सूचितवान्‌, तया रीत्या अस्यां करकायां द्रवत्वं प्रति किञ्चन प्रतिबन्धकमस्ति इति कोऽपि अस्मान्‌ सूचितवान्‌; तद्‌ ज्ञात्वा किन्तु तन्नदृश्यते चक्षुषा इति कृत्वा 'अदृष्टम्‌'; इति उच्यते | तर्हि तत्र 'अदृष्टम्‌' इति उच्यते किन्तु अत्र 'स्नेहः' इत्यस्य साक्षात्‌ नामकरणं जातम्‌; अत्र अदृष्टमिति नोच्यते |


सिद्धान्ती— उत्तरमस्ति यत्‌ करकास्थले कारणमस्ति, किन्तु कार्यं न जायते | तर्हि किमपि प्रतिबन्धकम्‌ अस्ति इति अस्माभिः ज्ञायते | तद्दृष्टप्रतिबन्धकं नास्ति इति कृत्वा अदृष्टप्रतिबन्धकम्‌ | किन्तु स्नेहः तथा नास्ति; स्नेहः इति साक्षात्‌ प्रत्यक्षमस्ति | चक्षुषा च त्वचा च गृह्यते |


अन्यच्च करकायाः द्रवत्वाभावप्रसङ्गे विद्याधर्यां 'प्रतिबन्धात्‌ अदृष्टविशेषात्‌' इत्युक्तम्‌ | अदृष्टविशेषात्‌ नाम धर्मविशेषात्‌ अधर्मविशेषात्‌ वा | अदृष्टं नाम 'यत्किमपि न दृश्यते' इति न | करका-द्वारा कस्यचित्‌ हानिः जायते, दुःखम्‌ उत्पद्यते, तर्हि अधर्मविशेषः इति तत्र कारणम्‌ | करका-द्वारा कस्यचित्‌ सूखम्‌ उत्पद्यते, तर्हि धर्मविशेषः इति तत्र कारणम्‌ |


किन्तु स्नेहप्रसङ्गे विद्याधर्यां यतोहि उच्यते यत्‌ इन्द्रियैः न गृह्यते, अनुमातव्यमस्ति, अतः वक्तव्यं भवति यत्‌ जले कश्चन गुणः अस्ति स्नेहनाम्ना, यश्च गुणः पिण्डीभावं प्रति कारणं, किन्तु स च स्नेहनाम्ना गुणः इन्द्रियैः न गृह्यते | कार्यं दृष्ट्वा कारणस्य अनुमानम्‌ अस्माभिः क्रियते | अत्र नामकरणं स्नेहः; करकायाम्‌ अदृष्टप्रतिबन्धकस्य नामकरणं धर्मः अधर्मः वा |


किन्तु तत्तु विद्याधर्यामेव | वस्तुतस्तु यया रीत्या 'जले द्रवत्वं वर्तते' इति दर्शनेन ज्ञायते, तया एव रीत्या जलस्य दर्शनेन ज्ञायते यत्‌ अस्मिन्‌ स्नेहो वर्तते | अतः विद्याधर्यां यल्लिखितमस्ति, तत्तु न्याये सामान्यशास्त्रस्य विरुद्धविचारः |


प्रतिपक्षी— एतावता यदुक्तं भवता तदाधारेण स्नेहः चक्षुषा च त्वचा गृह्यते इति किमपि स्पष्टं नास्ति | प्रत्यक्षमस्ति इति मम तु न भाति एव | इदानीमपि नोक्तं यत्‌ जले किं दृश्यते यत्‌ स्नेहनामकं स्यात्‌ |


सिद्धान्ती— स्नेहः इति न्यूनातिन्यूनं त्वचा गृह्यते इति अङ्गीकर्तुं शक्यते | यतोहि यदा जलं स्पृशामः तदा हस्तस्य जलेन लेपनं भवति | पुनः यदा चूर्णजलयोः मिश्रणं कुर्मः, तदा हस्ते अपि लेपनं भवति | अतः त्वगिन्द्रियेण अनुभूयते इति वक्तुं शक्यते |


प्रतिपक्षी— अस्तु, जलस्य स्पर्शेन हस्ते लिप्यते | किन्तु लेपनं च स्नेहश्च द्वौ समानौ न स्तः किल | स्नेहः तादृशगुणः यः पिण्डीभावं प्रति कारणम्‌ | स्पर्शेन केवलं ज्ञायते यत्‌ हस्तः जलेन लिप्यते | किन्तु स्नेहः तस्मात्‌ भिन्नः | लेपनं कथं स्नेहस्य प्रमाणाम्‌ ?


सिद्धान्ती— स्नेहस्य विद्यमानत्वात्‌ किल लेपनं भवति |


प्रतिपक्षी— यत्किमपि भवतु नाम, किन्तु अधुना 'स्नेहस्य विद्यमानत्वात्‌ लेपनं' इति तर्कः प्रवर्तमानः न तु प्रत्यक्षम्‌ | प्रत्यक्षग्रहणमिति न प्रदर्शितम्‌ | अतः स्नेहनामकगुणस्य प्रत्यक्षं कुत्र भवति ? न चक्षुषा न वा त्वचा |


सिद्धान्ती— प्रतिनियतग्राह्यगुणाः ते एव ये एकेन एव इन्द्रियेण गृह्यन्ते | यथा रूपं चक्षुषा एव गृह्यते; अन्येन इन्द्रियेण न गृह्यते | एवं च रूपं, रसः, गन्धः स्पर्शः, शब्दः, तदा बुद्धिः, सुखं, दुःखं, इच्छा, द्वेषः, प्रयत्नः इति एते सर्वे प्रतिनियतग्राह्यगुणाः | ततः अग्रे 'सङ्ख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च | एते तु द्वीन्द्रियग्राह्याः …' |


प्रतिपक्षी— किन्तु स्नेहः साक्षात्‌ न दृश्यते; तस्य कार्यं पिण्डीभावं दृष्ट्वा अनुमीयते | चूर्णस्य पिण्डीभावः अस्माभिः दृश्यते | तादृशं पिण्डीभावं प्रति अनुकूलः यः गुणः अस्ति, स च गुणः किन्तु न दृश्यते | इति अस्माकम्‌ अनुभवः |


चूर्णस्य पिण्डीभावः अस्माभिः दृश्यते; सा काचित्‌ क्रिया | किन्तु चूर्णस्य पिण्डीभावं प्रति कारणीभूतः गुणः, अस्माभिः वस्तुतः न दृश्यते |


श्रोता— अधुना मम नितरां भ्रमः व्युत्पन्नः | एतावता मया चिन्तितम्‌ आसीत्‌ यत्‌ पिण्डीभावः विलक्षणसंयोगः, गुणीभूतः | किन्तु इदानीं श्रूयते यत्‌ पिण्डीभावः क्रिया इति वा ?


प्रतिपक्षी— सत्यम्‌ | वस्तुतः पिण्डीभावः इति क्रिया एव | पृथक्‌-पृथक्‌ विद्यमानचूर्णस्य कणाः, एकत्रीभवन्ति किल | इत्युक्ते एकः कणः अन्येन कणेन सह दृढं संयुज्य तिष्ठति | स एव पिण्डीभावः | चूर्णस्य कणाः एकत्रीभूय संयुज्य तिष्ठति इति एका क्रिया |


श्रोता— एतावता मया चिन्तितं यत्‌ उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि इति तादृश्यः एव क्रियाः भवन्ति |


प्रतिपक्षी— ताः क्रियाः तु प्रक्रिया रीत्या उक्ताः, केवलम्‌ उदाहरणानि | अत्र पूर्वं कणाः पृथक्‌-पृथक्‌ आसन्‌, इदानीम्‌ एकत्रीभूय संयुज्य तिष्ठन्ति | पिण्डीभावः एषः क्रिया न वा इति खलु सन्देहः |


श्रोता— सत्यम्‌ | पिण्डीभावः इति कश्चन भावः खलु | 'पिण्डीभावः' इति कथनेन भावः इति अस्ति न तु क्रिया | भावः क्रिया अस्ति ?


प्रतिपक्षी— पिण्डीभावः इत्यनेन पिण्डीभवनम्‌ इत्यर्थः | पिण्डीभवनम्‌ इत्युक्ते पूर्वं पिण्डं नासीत्‌, इदानीं पिण्डं सञ्जातम्‌ | लड्डुकम्‌ इति स्वीकुर्मः चेत्‌, पूर्वं तस्य कणाः पृथक्‌-पृथक् आसन्‌, इदानीं लड्डुकस्य कणाः सर्वे मिलित्वा तिष्ठन्ति | स एव पिण्डीभावः | एवं कृत्वा पिण्डीभवनम्‌ एका क्रिया |


श्रोता— अहो ! अत्र च्वि-प्रत्ययः इति वा ?


प्रतिपक्षी— सत्यम्‌ | च्वि-प्रत्ययः यत्र भवति, तत्र सर्वत्र काचित्‌ क्रिया अनेन व्यक्तीकृता | का क्रिया इति चेत्‌, 'पूर्वं तथा नासीत्‌, इदानीं तथा सम्पद्यते' इति | सा काचित्‌ क्रिया भवत्येव | तां पिण्डीभावक्रियाञ्च द्रष्टुं शक्नुमः | किन्तु तस्य कारणीभूतः गुणः यः जले अस्ति, सः तु न दृश्यते | पिण्डीभवनं चूर्णस्य न तु जलस्य | पिण्डीभवनस्य कारणीभूतगुणः जले | चूर्णजलयोः मिश्रणं यदा कुर्मः, इयं क्रिया पिण्डीभावस्य | चूर्णस्य पिण्डीभवनक्रियां ज्ञातुं शक्नुमः, द्रष्टुं शक्नुमः | किन्तु तस्य अनुकूलः यः गुणः भवति जले, तं गुणं वयं कथं द्रष्टुं शक्नुमः इति प्रश्नः अस्त्येव | न्यायशास्त्रे स्नेहः प्रत्यक्षम्‌ इति वदन्ति, किन्तु लोके तादृशः अनुभवः अस्माकं नास्ति |


च्वि-विधायकसूत्रम्‌ अस्ति कृभ्वस्ति योगे सम्पद्यकर्तरि च्विः (५.४.५०) | अभूततद्भावः इत्यस्मात्‌ वार्तिकात्‌ अस्य आशयः गम्यते | नाम यत्‌ नासीत्‌, तत्‌ जातम्‌ | अशुक्लं शुक्लं कृत्वा → शुक्लीकृत्य इति च्वि-प्रत्ययस्य सिद्धं रूपम्‌ | विग्रहवाक्यं तु अशुक्लं शुक्लं कृत्वा इति | यत्‌ शुक्लं नासीत्‌, तत्‌ शुक्लं कृतम्‌ इति | अथवा शुक्लं वस्त्रम्‌ अस्ति, तत्‌ अहं कृष्णवर्णं रञ्जयामि | तर्हि अहं शुक्लवस्त्रं कृष्णीकरोमि | तेन वस्त्रं कृष्णं जातम्‌ | च्वि-प्रत्ययेन सह कृ-धातुः, भू-धातुः, अस्‌-धातुः च भवन्ति |


कृ-धातुः— कृष्णीकरोति, कृष्णीकरिष्यति, कृष्णीकृतं, कृष्णीकृत्य इत्यादीनि रूपाणि |

भू-धातुः— कृष्णीभवति, कृष्णीभविष्यति, कृष्णीभूतं, कृष्णीभूय इत्यादीनि रूपाणि |


च्वि-प्रत्ययस्य रूपाणि एवम्‌—

अकारान्तम्‌ आकारान्तं वा इति चेत्‌, ईकारः भवति | शुक्लं करोति → शुक्लीकरोति

इकारान्तम्‌ उकारान्तं वा इति चेत्‌, ईकारः ऊकारः च भवति | शुचिं करोति → शुचीकरोति | लघुः भवति → लघूभवति |

ऋकारान्तम्‌ इति चेत्‌, रीकारः भवति | नेता भवति → नेत्रीभवति |


अस्‌ धातोः रूपाणि विरलतया दृश्यन्ते | शास्त्रीयम्‌ उदाहरणम्‌ एवं दीयते— अगङ्गा गङ्गा, गङ्गीस्यात्‌ इति | नाम अगङ्गा गङ्गा भवेत्‌ | अगङ्गा गङ्गा सम्पद्यमाना अस्ति इति विग्रहवाक्यम्‌ | लौकिकम्‌ उदाहरणं तु— अबालकः बालकः अस्ति → बालक्यस्ति | चिन्तयतु काचित्‌ बालिका अस्ति, सा बालिका नाटकप्रसङ्गे बालकः भूत्वा नाटकं कुर्वती अस्ति | तर्हि सा बालक्यस्ति | (इष्यते चेत्‌, च्वि-प्रत्ययस्य प्रसङ्गे इतोऽपि दत्तम्‌ अस्ति अस्य पाठस्य अन्ते |)


श्रोता— अधुना विद्याधर्याम्‌ उक्तं यत्‌ पिण्डीभावः विलक्षणसंयोगः, नाम गुणः | किन्तु भवता उच्यते यत्‌ अयं पिण्डीभावः क्रिया |

प्रतिपक्षी— अस्तु, संयोगः गुणः इति रीत्या चिन्तनं भवतु | पिण्डीभावरूपं गुणं द्रष्टुं शक्नुमः, तस्य कारणीभूतं गुणं स्नेहं द्रष्टुं न शक्नुमः इति तथा वक्तुं शक्यते |

श्रोता— परन्तु भवता उक्तं यत्‌ पिण्डीभावः क्रिया |


प्रतिपक्षी— सत्यमेव | व्याकरणदृष्ट्या तु क्रिया एव | नैयायिकानां चिन्तनं भिन्नं, वैयाकरणानां चिन्तनं भिन्नम्‌ | अन्यत्‌ उदाहरणम्‌ अवलोकयाम— इच्छा अस्ति कश्चन गुणः इति नैयायिकानां विचारः | 'इच्छा' च 'ज्ञानं' च गुणेषु अन्तर्भावः | 'इच्छति' च 'जानाति' च गुणं बोधयतः न तु क्रियाम्‌, इति तेषां कथनम्‌ | किन्तु वैयाकरणानां विचारः तु इच्छा क्रिया न तु गुणः | 'इच्छति' इत्यनेन इच्छा-कर्ता, इच्छायाः आश्रयः | इष्‌-धातोः इच्छा अर्थः, तिङ्‌-प्रत्ययेन कर्ता | अतः वैयाकरणाः वदन्ति यत्‌ इच्छा स्वयं क्रिया न तु गुणः | धातुः व्यापारं (क्रियां) बोधयति | यथा पाकः | पच्‌-धातुः तण्डुलावयवशैथिल्यानुकूलव्यापारं बोधयति | तस्मात्‌ भावे प्रत्ययः घञ्‌ | तण्डुलशैथिल्यानुकूलव्यापारः इत्येव अर्थम्‌ अनुवदन्‌ घञ्‌-प्रत्ययस्य संयोजनेन पच्‌ + घञ्‌ → पाकः | तद्वत्‌ 'इच्छा' इत्यपि | इष्‌-धातुना क्रिया बोध्यते, तदुत्तरवर्ती अङ्‌-प्रत्ययः भावं बोधयति | इत्युक्ते अयं प्रत्ययः धात्वर्थमेव बोधयति; धात्वर्थश्च व्यापारः | अतः इच्छा इत्युक्ते व्यापार एव; 'इच्छनम्‌ इच्छा' | अत्रापि कश्चन इच्छानुकूलव्यापारः, आत्ममनसंयोगानुकूलव्यापारः भवति | 'बालकः घटम्‌ इच्छति' इति वाक्ये इच्छति इति कश्चित्‌ व्यापारः | 'इच्छति' क्रियापदम्‌ अस्ति किल; 'इच्छति' इति पदं क्रियां बोधयति वा, गुणं बोधयति वा, इति प्रश्ने सति, व्याकरणदृष्ट्या क्रियां बोधयति |


श्रोता— 'जानाति' अपि तथा वा, क्रियाबोधकः ?


प्रतिपक्षी— सत्यम्‌ | नैयायिकाः वदन्ति यत्‌ 'ज्ञा-धातोः फलमात्रम्‌ अर्थः, व्यापारः न प्रतीयते' इति | किन्तु अत्रापि आत्ममनसंयोगानुकूलव्यापारः इति वैयाकरणाः वदन्ति | नागेशेन प्रतिपादितम्‌ |


श्रोता— नाम ज्ञानम्‌ अपि क्रिया इति विचारो वा ?


प्रतिपक्षी— ज्ञानं नाम ज्ञानानुकूलव्यापारः; ज्ञानं स्वयं क्रिया, 'जानाति' इत्यनेन कर्ता ज्ञानक्रियायाः आश्रयः | यथा 'चैत्रः घटं जानाति' इत्यस्मिन्‌ घटविषयकज्ञानवान्‌ चैत्रः | अत्र जानाति इत्यनेन कश्चन आत्ममनसंयोगरूपव्यापारः इत्यस्य इङ्गितम्‌ | यतोहि आत्ममनसोः कश्चन व्यापारः यदि नास्ति, तर्हि चैत्रः न जानीयात्‌ | 'जानाति' इत्यस्य कथनेन आत्ममनसंयोगः अङ्गीकर्तव्यः नो चेत्‌ ज्ञानस्य उत्पत्तिः न भवति; तदर्थम्‌ आत्ममनसंयोगः स्वीकर्तव्यः इति वैयाकरणाः वदन्ति | नाम 'जानति' इत्यस्य कथनेन काञ्चित्‌ क्रियां बोधयति | ज्ञानसामान्यं प्रति आत्ममनसंयोगस्य कारणत्वं वदन्ति नैयायिकाः अपि | अत्र आत्ममनविशेषः कारणमिति स्वीकर्तव्यम्‌ |


किन्तु ज्ञान-इच्छा-कृत्यर्थकधातु-स्थले केवलं फलमेव प्रतीयते, व्यापारो नास्ति इति नैयायिकाः | तत्रापि काचन क्रिया अस्त्येव आत्ममनसोंयोगव्यापारः इति वैयाकरणाः | व्यापारं विना फलं नोत्पद्यते | देवदत्तादीनां व्यापारं विना पाकक्रियाजन्यफलं न जायते, तद्वत्‌ इच्छा अपि ज्ञानमपि केनचित्‌ व्यापारेण भवति |


लोके च 'बालकः इच्छति' वा 'बालकः जानाति' वा इत्यादिषु स्थलेषु, भावः एवमस्ति यत्‌ बालकः किमपि करोति किल | व्याकरणदृष्ट्या तथैव भवति | अपि च तथैव च्वि-प्रत्ययः यत्र यत्र भवति, तत्र सर्वत्र व्याकरणदृष्ट्या क्रिया अस्त्येव | यथा पिण्डीभावः— क्रिया एव |


श्रोता— अत्र अन्यप्रश्नः एतत्सम्बद्धः मनसि आयाति | पिण्डीभावः इति शब्दे 'भावः' इति भू योगः घञ्‌-प्रत्ययः किल | यत्र यत्र घञ्‌-प्रत्ययः भवति, तत्र सर्वत्र कस्यचित्‌ भावः इति अर्थः किल | अत्र 'भावः' इति घञ्‌-प्रत्ययान्तशब्देन भू-धातोः क्रियावाचकस्य भावः एव न तु स्वयं क्रिया किल |


प्रतिपक्षी— सत्यं, भावार्थे घञ्‌-प्रत्ययः | किन्तु 'भाव' इत्युक्ते किमिति प्रश्नः | बहवः कृत्‌-प्रत्ययाः 'भावार्थे' भवन्ति इति प्रसिद्धम्‌ | 'एतस्मात्‌ धातोः भावार्थे अमुखप्रत्ययः' इति प्रचलनं वर्तते | भावार्थे त्व-प्रत्ययः, तल्‌-प्रत्ययः इति सामान्यविषयः | तत्र च 'भावार्थे' इति किञ्चित्‌ भिन्नमस्ति | नामपदेभ्यः त्व-प्रत्यययोजनेन, तल्-प्रत्यययोजनेन वा यत्‌ रूपं सिध्यति, तत्र 'भावार्थे' इत्युक्ते तस्मिन्‌ पदार्थे विद्यमनः कश्चन धर्मः | 'मनुष्यत्वम्‌' इत्युक्ते मनुष्ये विद्यमानः धर्मः | काकत्वम्‌ इति चेत्‌ काके विद्यमानः धर्मः | किन्तु धातुभ्यः यदा भावार्थे कश्चन प्रत्ययः विधीयते, यथा भावार्थे धातुभ्यः घञ्‌-प्रत्ययः, तदा 'भावार्थे' इत्यस्मिन्‌ भावः इत्युक्ते शुद्धा क्रिया |


'शुद्धा क्रिया' इत्युक्ते किमिति कश्चन प्रश्नः | उदाहरणमाध्यमेन स्पष्टं भवति | गच्छति, गन्ता, गन्तुं, गत्वा, एभिः सर्वैरपि क्रिया प्रकटा वर्तते | किन्तु क्रियातः अन्ये अपि केचन अंशाः बोध्यन्ते | यथा 'गच्छति' इत्यस्य कथनेन गमन-क्रिया उच्यते, तेन सह च तस्याः क्रियायाः कर्ता अपि उच्यते | पुनः सा क्रिया वर्तमानकाले प्रचलति | इत्येतत्‌ सर्वं 'गच्छति' इति पदेन ज्ञायते— गमनक्रिया, क्रियायाः कर्ता, वर्तमानकालः | एवेमेव 'गच्छन्‌' इति शत्रन्तपदेन क्रिया, कर्ता, वर्तमानकालः इति बोध्यते | 'गतवान्‌' इत्यनेन गमनक्रिया, क्रियायाः कर्ता, सा क्रिया च भूतकाले इति | 'मया ग्रामः गतः' इत्यस्मिन्‌ 'गतः' इत्यनेन गमनक्रिया, क्रियायाः कर्म, भूतकाले क्रिया इति बोध्यते |


किन्तु 'गमनम्‌' इत्यस्य कथनेन क्रिया एव ज्ञायते | अत्र 'शुद्धा क्रिया' बोध्यते इति उच्यते | गमनम्‌ इत्यस्मिन्‌ 'भावे ल्युट्‌-प्रत्ययः' | अत्र 'भावे' इत्यनेन शुद्धा क्रिया इत्यर्थः | क्रियां विहाय अन्ये केऽपि अंशाः न बोध्यन्ते | अन्यैः विषयैः रहिता केवला क्रिया— इत्यर्थेः 'भावः' इति उच्यते | 'गमनम्‌' इत्यस्य कथनेन गमनकर्ता न ज्ञायते, गमनकर्म न ज्ञायते, कालः न ज्ञायते | केवलं क्रिया एव ज्ञायते, अतः 'शुद्धा क्रिया' | घञ्‌-प्रत्ययः अपि तथा, भावार्थे | यथा 'पाकः' इत्युक्ते पचनक्रिया, तावदेव | एवमेव 'भावः' इत्यनेन भवनक्रिया, 'भवति' इति | घञ्‌-प्रत्ययः साधारणतया भावार्थे; कुत्रचित्‌ विशिष्टस्थलेषु कर्त्रर्थे करणार्थे वा विधीयते, किन्तु भावार्थे इति सामान्यम्‌ | धेयं यत्‌ सुबन्तपदेभ्यः (नामपदेभ्यः) भावार्थे तस्मिन्‌ तस्मिन्‌ पदार्थे विद्यमानः धर्मः; किन्तु धातुभ्यः भावार्थे इत्युक्ते शुद्धा क्रिया | अतः पिण्डीभावः इति स्थलेऽपि तथा, शुद्धा क्रिया | भू-धातुः योगः घञ्‌-प्रत्ययः इत्यनेन 'भावः' | पिण्ड + च्वि + भू + घञ्‌ इत्यनेन यत्‌ पिण्डं नासीत्‌ तत्‌ पिण्डं जातम्‌ इति अर्थः | अत्र 'तादृशक्रिया' इति बोधः |


सिद्धान्ती— किन्तु न्याये पिण्डीभावः इत्युक्ते विलक्षणसंयोगः इति गुणः | 'चैत्रः तण्डुलम्‌ इच्छति' इत्युक्ते 'तण्डुलविषयक-इच्छावान्‌ चैत्रः' | तादृशगुणाश्रयः चैत्रः इति कृत्वा 'इच्छति' इति पदं गुणबोधकं न तु क्रियाबोधकम्‌ | वैयाकरणाः आग्रहेन वदन्ति यत्‌ सर्वाणि तिङन्तपदानि क्रियामेव बोधयन्ति, किन्तु वयं तथा न वदामः | इच्छति, जानाति इत्यादीनि तु गुणबोधकानि न तु क्रियाबोधकानि | 'इच्छति' इत्यनेन 'चैत्रस्य तादृशी इच्छा अस्ति' इत्येव सूचयति | 'घटविषयक-इच्छावान्‌ चैत्रः' | 'बालकः पिष्टस्य पिण्डीभावं करोति' इति वाक्ये 'करोति' इत्येव क्रिया न तु 'पिण्डीभावः'; अनेन 'पिष्टे पिण्डीभावः उत्पन्नः', नाम गुणः उत्पन्नः इत्येव अर्थः | विलक्षणसंयोगानुकूलक्रियाश्रयः बालकः | चूर्णनिष्ठविलक्षणसंयोगानुकूलकृतिमान्‌ बालकः इति वाक्यार्थबोधः | तादृशी कृतिः, प्रयत्नः, बालकस्य अस्ति | वैयाकरणानां दृष्ट्या इयं क्रिया इति चेत्‌, क्रिया द्विवराम्‌ उच्यते, तच्च नावश्यकम्‌ | 'पिण्डीभावः भवति' इत्यस्मिन्‌ क्रिया द्विवारम्‌ उक्तं तेषां मतम्‌ अनुसृत्य | यथा 'बालकः गमनं गच्छति' तथैव | अतः साधुरीत्या अर्थः न निष्पद्यते |


श्रोता— तर्हि वैयाकरणैः यदुच्यते च्वि-प्रत्ययस्य संयोजनेन 'यत्‌ तथा नासीत्‌ तत्‌ तथा जातम्‌' इति क्रियाबोधकत्वं नास्ति वा नैयायिकानां मतम्‌ अनुसृत्य ? अत्र क्रिया अस्ति वा, अथवा केवलं वक्तव्यं यत्‌ तादृशगुणः उत्पन्नः ?


सिद्धान्ती— सत्यम्‌ | तादृशविलक्षणसंयोगः चूर्णे उत्पन्नः | एवमेव 'इच्छति', 'जानाति' च गुणं बोधयति न तु क्रियाम्‌ | 'क्रियाबोधकं क्रियापदम्‌' इति नैयायिकैः न उच्यते | अस्मिन्‌ प्रसङ्गे इतोऽपि ज्ञातुम्‌ इच्छति चेत्‌ 'व्युत्पत्तिवादः' इति ग्रन्थे विस्तृतरूपेण प्रतिपादितम्‌ | गदाधरभट्टाचार्यैः ग्रन्थः विरचितः | 'शक्तिवादः' इत्यपि ग्रन्थः तैः विरचितः | पदस्य अर्थबोधार्थं शक्तिः वर्तते | घटपदस्य घटे शक्तिः, पटपदस्य पटे शक्तिः इति व्यवहारः | नैयायिकानां 'सर्वत्र क्रियापदस्य क्रियाबोधकत्वम्‌ एव' इति सिद्धान्तो नास्ति | कुत्रचित्‌ गुणबोधकत्वम्‌ अङ्गीक्रियते | यथोक्तं 'घटं जानाति चैत्रः' इत्यत्र घटविषयकज्ञानवान्‌ चैत्रः | अस्मिन्‌ ज्ञानरूपगुणवान्‌ इत्येव अर्थः 'जानाति' इति पदस्य |


वैयाकरणैः उच्यते पदस्य लक्षणं सुप्तिङन्तं पदम्‌ इति | नैयायिकैः तन्नाङ्गीक्रियते | 'शक्तं पदम्‌' इति नैयायिकानां लक्षणम्‌ | यस्य पदस्य अर्थबोधनशक्तिः अस्ति, तत्‌ पदम्‌ | यस्य अर्थबोधकत्वम्‌ अस्ति, तत्‌ शक्तं पदम्‌ | तस्य पदस्य कुत्र शक्तिः, किमर्थं तत्रैव शक्तिः, शक्तिः नाम का इति विषयाः शक्तिवादः इति ग्रन्थे लभ्यन्ते |


प्रतिपक्षी— व्याकरणे किन्तु यथोक्तं भावः क्रिया | पिण्डीभवनमेव पिण्डीभावः | अपिण्डस्य पिण्डत्वेन भवनं— पिण्डीभावः | क्रियां बोधयति न तु गुणम्‌ | अपि च 'पिण्डीभावः भवति' इत्यस्मिन्‌ न को‍पि अवरोधः | द्विवारं क्रिया नोच्यते इति न को‍ऽपि नियमः | 'पाकं पचति' इति शास्त्रीयोदाहरणम्‌ | लोके 'पाठं पठति' | पठ्‌ + घञ्‌ → पाठः | पाठ-शब्देन शुद्धा क्रिया; क्रियां बोधयति | पुनः 'पठति' इत्यस्मिन्‌ पठ्‌-धातुः पठनक्रियां बोधयति | वाक्यं 'पाठं पठति' | तर्हि अत्र अर्थः 'पठन-क्रियां पठति' इति वस्तुतः शाब्दः अर्थः | शब्दमर्यादया उपलक्षमाणः अर्थः |


श्रोता— 'पठन-क्रियां पठति' इत्यस्य कः अर्थः ?


प्रतिपक्षी— 'He is studying his studies' इत्येव अर्थः | पठ्‌-धातोः घञ्‌-प्रत्ययः भावे; भावो नाम क्रिया | अत्र कोऽपि विरोधो नास्ति |


श्रोता— 'पाठं पठति' इत्युक्ते 'विषयं पठति' इति अर्थः नास्ति वा ?


प्रतिपक्षी— शब्द-मर्यादया पाठः इत्युक्ते पठन-क्रिया | पाठः इत्यनेन पठनम्‌ इत्येव बोध्यते; पठन-क्रिया | 'पठनं पठति' इत्यपि साधु एव | पठने कश्चन विषयः भवति चेत्‌, तं विषयं पठति चेदेव 'पठनं पठति' इति प्रयोगः अर्थपूर्णः इति भवतः आशयः किल | 'पठन-क्रियां पठति' इति प्रयोगः न क्रियते खलु इत्याशयः भवतः; पठनक्रियां न पठति अपि तु पठनविषयं पठति, इति खलु आशयः | इति चेत्‌, शब्द-मर्यादया पाठः इत्युक्ते पठन-क्रिया एव | किन्तु विषय-विषयिनोः अभेद-आरोपात्‌ अस्माकं बोधस्तु 'पठनविषयं पठति' इत्यर्थे 'पाठं पठति' | पठनविषयस्य पठनस्य च अभेदः आरोप्यते | 'कालिदासं पठति' इत्यनेन कालिदासं पठति वा, कालिदासोक्तं पठति वा ? पठनक्रियासंयुक्तविषयः इत्यर्थः | किन्तु अत्रापि पाठ-शब्दस्य प्राधान्येन पठनक्रिया इति व्युत्पत्तिबलात्‌, शब्दरूपबलात्‌ च भवति एव |


अन्यच्च नैयायिकवर्यस्य कथनम्‌ आसीत्‌—“'पिण्डीभावः भवति' इत्यस्मिन्‌ क्रिया द्विवारम्‌ उक्तं तेषां मतम्‌ अनुसृत्य | यथा 'बालकः गमनं गच्छति' तथैव | अतः साधुरीत्या अर्थः न निष्पद्यते |” किन्तु यथोक्तं 'पाकं पचति' इत्यादयप्रयोगाः प्रसिद्धाः | क्रिया स्वस्याः कर्म भवति; 'इच्छाम्‌ इच्छति' इत्यर्थे 'एषिषिषति' इति सन्नन्तरूपं प्रमाणम्‌ | नाम 'पाठं पठति' इति वाक्ये पठनक्रिया 'पठति'-पदस्य कर्मपदम्‌ | तर्हि प्रश्नः उदेति क्रिया स्वस्याः कर्म भवति वा ? इति चेत्‌, यया रीत्य 'गन्तुम्‌ इच्छति' इत्यर्थे जिगमिषति इति सन्नन्तरूपं भवति यस्मिन्‌ गमनक्रिया 'इच्छति'-पदस्य कर्मपदं, तया रीत्या 'एष्टुम्‌ इच्छति' इत्यर्थे एषिषिषति इति सन्नन्तरूपं भवति अर्थपूर्णञ्च | कस्यचित्‌ आलस्यम्‌ अस्ति; पठनात्‌ अथवा अपरस्मात्‌ क्रियाविशेषात्‌ दूरं गतः, सः किमपि कर्तुं नेच्छति, तदानीम्‌ 'अहो, मया सम्यक्‌ कर्तव्यम्‌' इति चिन्तयति | इच्छा-विषयिनीम्‌ इच्छां प्राप्नोति | मनसि इच्छा अस्ति यत्‌ तादृशी इच्छा स्यात्‌, 'इतोऽपि मया एष्टव्यम्‌'— इति चेत्‌, सः एषिषिषति | अनेन प्रमाणं भवति यत्‌ इच्छा-क्रिया 'इच्छति'-पदस्य कर्म भवति | यथा पाठः एव पठनक्रियायां कर्म, तद्वत्‌ इच्छा एव इच्छा-क्रियायां कर्म | इदं न विरुध्यते इति व्याकरणग्रन्थेष्वेव अस्ति |


श्रोता—अस्मिन्‌ विषये नैयायिकाः किं वदन्ति ?


प्रतिपक्षी—अत्र नैयायिकाः वदन्ति यत्‌ क्रियापदं नास्ति चेदपि बोधो भवति | यथा, 'चैत्रः पण्डितः' | इत्युक्ते पण्डितभिन्नः चैत्रः इति बोधः आनुभविकः | अनुभवे अस्ति अतः तिङन्तपदं नास्ति चेदपि चिन्ता नास्ति | अत्र वैयाकरणाः वदन्ति यत्‌ क्रियापदं नास्ति चेत्‌, तेन पदसमूहेन परिपूर्णार्थः न बोध्यते | नाम चैत्रः पण्डितः अस्ति वा, अभूत्‌ वा, आसीत्‌ वा, आगमिष्यति वा, गच्छति वा, लिखति वा, पठति वा ? किम्‌ इति ? न ज्ञायते | एतदर्थम्‌ अस्माभिः व्याकरणक्षेत्रे मन्यते यत्‌ तिङन्तपदं नोक्तं चेदपि 'अस्ति' इति अन्तर्भवति | महाभाष्ये साक्षात्‌ उक्तं यत्‌ अप्रयुज्यमानोऽप्यस्ति | 'अस्ति' इति नास्ति चेदपि अस्त्येव | तिङन्तं भवति चेदेव वाक्यं परिपूर्णं भवति—येन आकाङ्क्षा शान्ता स्यात्‌ | सर्वथा 'अस्ति' इति नास्ति; योग्यक्रियायाः अध्याहारः कर्तव्यः | यथा द्वारम्‌ इति चेत्‌, 'पिधीयते' | तत्र तत्र तत्तद्योग्यक्रियायाः अध्याहारं बोधयति 'अस्ति' वर्तते इत्यस्य कथनेन |


किन्तु केवललाघविकशरणाः नैयायिकास्तु तिङन्तं नास्ति चेदपि बोधः अनुभूयते इति वदन्ति | अनुभवप्रमाणम्‌ इति वदन्ति | अनुभवप्रमाणम्‌ इत्युक्ते यत्र प्रत्यक्षादिना क्रियादिकं जानन्ति तत्र तु क्रियापदं नास्ति चेदपि प्रत्यक्षतायाः सत्त्वात्‌ तत्र बोधः भवति चेदपि तिङन्तं विना सर्वत्र बोधः जायते इति वक्तुं न शक्यते इति वैयाकरणाः | अतः 'पिण्डीभावः' इत्यस्य कथनेन पिण्डीभावः भवति वा, भविष्यति वा, अभूत्‌ वा, आगमिष्यति वा ? अथवा पिण्डीभावं वदति वा, पिण्डीभावं लिखति वा, पिण्डीभावं कथयति वा ? काऽपि क्रिया भवेत्‌ | अर्थपरिसमाप्तिं प्रति, परिपूर्णार्थबोधं प्रति क्रिया निमित्तम्‌ | क्रियापदं विना परिपूर्णार्थो न बुध्यते; आकाङ्क्षा शान्ता न भवति | क्रियायाः अध्याहारः कर्तव्यः |


नैयायिकानां मते तादृशी अपेक्षा नास्ति | पिण्डीभावः यस्य वर्तते, एतादृशप्रयोगः स्वीक्रियते चेत्‌, पर्याप्तम्‌ | अतः 'भवति' इति प्रयोगः क्रियते चेत्‌, पुनरुक्तिर्भवति इति आक्षेपः | यतोहि क्रियापदं विनाऽपि बोधो जायते | 'अयमेव अनुभवः अम्साकम्‌' इति वदन्ति | यद्यपि मिमांसकानां सूत्रेऽपि तिङन्तमेव अर्थसमाप्तिं प्रति कारणं भवति | केवलं 'चैत्रः पण्डितः' इति एतावता वदनेन अर्थः परिपूर्णो न | अत्र च वैयाकराणां मतेन पर्यवसितं यत्‌ प्रथमतया तिङन्तपदम्‌ आवश्यकं, द्वितीयं च तत्समानार्थकतिङन्तस्य अपि प्रयोगः भवितुम्‌ अर्हति—पाकं पचति, पाठं पठति, एषिषिषति इति बहुधाः प्रयोगाः दर्शिताः, तद्वत्‌ पिण्डीभावो भवतीत्यपि |


Swarup – June 2018


परिशिष्टम्‌


कृभ्वस्ति योगे सम्पद्यकर्तरि च्विः (५.४.५०) इति सूत्रे 'सम्पद्यकर्तरि' इति भागस्य कोऽर्थः इति चेत्‌, 'सम्पादनं कर्तरि एव स्यात्‌' इति | वृक्षः अदेवगृहे देवगृहे भवति इति व्यस्तः प्रयोगः सम्भवति | किन्तु तत्र च्वि-प्रत्ययः न सम्भवति, यतोहि सम्पादनं कर्तरि नास्ति | सम्पद्यकर्तरि इति एकं पदं षष्ठीतत्पुरुष-समासः, सप्तमीविभक्तौ | अतः सम्पद्यस्य कर्ता, तस्मिन्‌ इति विग्रहवाक्यम्‌ | अत्र सम्पद्यकर्तरि इत्यस्य सारांशः एवं यत्‌ विग्रहवाक्यं प्रथमाविभक्तौ स्यात्‌ | द्वितीया न स्यात्‌, तृतीया न स्यात्‌ ... सप्तमी न स्यात्‌ | 'वृक्षः अदेवगृहे देवगृहे भवति' इत्यस्मिन्‌ वाक्ये अधिकरणं व्यक्तम्‌ | अतः च्वि-प्रत्ययः नार्हः | वृक्षस्य सम्बन्धे किमपि वक्तुम्‌ इच्छति चेत्‌, प्रथमाविभक्तौ स्यात्‌ | यदि वृक्षः अमनुष्यः मनुष्यः अभवत्‌, तर्हि वृक्षः मनुष्यीभूतः | किन्तु वृक्षः अदेवगृहे देवगृहे इति चेत्‌ च्वि-सहितं रूपं किं स्यात्‌ ? न भवति एव |


इदानीं यदा च्वि-रूपं सिद्धं, तदा तस्य च्वि-रूपस्य कर्तुः या काऽपि विभक्तिः भवतु | 'अहं वस्त्रं कृष्णीकरोमि— अस्मिन्‌ वाक्ये वस्त्रं कर्मपदं, द्वितीयाविभक्तौ च | किन्तु तथापि तदेव वस्त्रं च्वि-रूपस्य कर्ता— अकृष्णं वस्त्रं कृष्णं सम्पन्नम्‌ इति | सम्पद्यकर्ता, नाम यत्‌ पूर्वं सम्पन्नं नासीत्‌, इदानीं सम्पन्नं जातम्‌ | पूर्वं कर्ता, कर्तृ-रूपेण नासीत्‌; इदानीं कर्तृ-रूपेण सम्पन्नम्‌ | अहं वस्त्रं कृष्णीकृतवान्‌ अतः वस्त्रं कर्मपदम्‌ इति अप्रासङ्गिका वार्ता एव | मया क्रियते इति न वार्ता | तत्र, तस्मिन्‌ वस्त्रे पूर्वं कृष्णवर्णः नासीत्‌ इदानीं तत्र कृष्णवर्णः सम्पन्नः | मम उद्देश्येन न; अपि तु तदुद्देश्येन, तद्‌ वस्तु-उद्देश्येन | अतः कर्तरि इत्युच्यते | वस्त्रे एव कृष्णवर्णः जायते, अतः वस्त्रं कर्ता | किन्तु वृक्षः देवगृहे भवति चेत्‌, तत्र वृक्षे न किमपि भवति अतः तत्र नार्हः | च्वि-प्रत्यस्य तत्‌ वस्तु प्रति कीदृशः सम्बन्धः इत्येव वार्ता | च्वि-प्रत्ययं प्रति कर्तृत्वं भवेत्‌ | अनन्तरं वाक्ये तस्य कृष्णीभूतस्य वस्त्रस्य का भूमिका इति न कोऽपि प्रसङ्गः, तत्र काऽपि भूमिका भवतु | मया वस्त्रं कृष्णीक्रियते, यत्‌ किमपि कारकं भवतु |

18 - स्नेहस्य प्रत्यक्षग्राह्यत्वम्‌.pdf