2 - नित्यादिविभागः
नित्यादिविभागः
प्रश्नः— विद्याधरी-ग्रन्थे, ३९ इति पृष्ठसङ्ख्यायां लिखितम् अस्ति यत् "यस्य उत्पत्तिः नास्ति अर्थात् प्रागभावो न भवति एवं ध्वंसोऽपि न भवति सः नित्यः" | अभावः चतुर्विधः इत्यस्माभिः दृष्टम् | अवशिष्टौ द्वौ अभावौ नित्यद्रव्येषु भवतः किम् ?
उत्तरम्— अवशिष्टौ द्वौ अभावौ अत्यन्ताभावः, अन्योन्याभावः च | अन्योन्याभावः तु अवश्यं भवति | "प्रतियोगिनं विहाय सर्वत्र भवति" इत्युक्तम् | यथा पुस्तकं कालः नास्ति | अतः कालभेदः—कालस्य अन्योन्याभावः—पुस्तके अस्ति | कालः नित्यद्रव्यम्; तस्य च अन्योन्याभावः भवति |
अधुना अत्यन्ताभावः | "नित्यत्वात् अत्यन्ताभावः न भवति" इति तु नास्ति | यथा एकस्य पुस्तकस्य कश्चन ब-परमाणुः अस्ति; तच्च पुस्तकं ब-परमाणौ | स च ब-परमाणुः नित्यः; तस्य न उत्पत्तिः न वा ध्वंसः | परन्तु यत् पुस्तकं ब-परमाणौ आश्रितं, तत् पुस्तकं सम्प्रति भूतले अस्ति | अतः उत्पीठिकायां न | तर्हि उत्पीठिकायां पुस्तकस्य (तदाश्रयीभूतस्य च ब-परमाणोः) अत्यन्ताभावः |
यत् नित्यद्रव्यं विभु अस्ति, सर्वानुस्यूतं यथा आत्मा, सर्वत्रास्तित्वात् तस्य अत्यन्ताभावो न भवति |
परन्तु यत् किमपि भवतु नाम, कस्यचित् द्रव्यस्य अत्यन्ताभावो भवति न वा इत्यस्य आधारेण तस्य नित्यत्वम् अथवा अनित्यत्वम् इति निर्णेतुं न शक्यम् | ब-परमाणोः स्थितिः प्रमाणम् | तस्य अत्यन्ताभावो भवति परन्तु द्रव्यं नित्यम् |
अतः द्रव्यस्य प्रागभावः प्रध्वंसाभावः भवति चेत् द्रव्यम् अनित्यं; न भवति चेत् नित्यम् | अन्ययोः द्वयोः अभावयोः ज्ञानेन द्रव्यस्य नित्यानित्यप्रसङ्गे न किमपि वक्तुं शक्येत |
Swarup – November 2015