6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः
प्रश्नः— ज्ञानाधिकरणमात्मा इत्येव किमर्थम् ? नव विशेषगुणाः सन्ति; किमर्थं न तेषाम् आधाराधेयभावनया आत्मनः लक्षणवाक्यम् ?
उत्तरं—वस्तुतः ज्ञानाधिकरणमात्मा इत्येव स्यात् इति तथा किमपि नास्ति | इच्छाधिकरणमात्मा इत्यपि स्यात्, प्रयत्नाधिकरणमात्मा इत्यपि स्यात् | यथा 'शीतस्पर्शवत्वं जलस्य लक्ष्णम्', इति जलस्य एक एव लक्षणवाक्यम् इति तु तथा किमपि नास्ति | 'अभास्वररूपवत्वं जलस्य लक्षणम्', इत्यपि एकं साधु लक्षणवाक्यं, यतोहि अभास्वररूपवत्वं जले सदा तिष्ठति, जलम् अतिरिच्य च न कुत्रापि लभ्यते | अतः आहत्य लक्षणवाक्यस्य कथनावसरे त्रयः दोषाः न स्युः— अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषश्च | एते त्रयः दोषाः न सन्ति चेत्, लक्षणवाक्यं साधु एव |
आत्मनि नव विशेषगुणाः सन्ति इत्युक्तं, नाम एते नव गुणाः अन्यत्र न लभ्यन्ते | किन्तु सर्वदा आत्मनि तिष्ठन्ति न वा इत्यपि द्रष्टव्यम् | मृत्युकालानन्तरं ज्ञानं, प्रयत्नः चेत्येतौ द्वौ गुणौ तदानीमपि आत्मनि स्तः इति नैयायिकानां शिक्षा; अन्ये सप्त गुणाः आत्मनि सदा न भवन्ति इति अङ्गीक्रियते | अतः एतेषां सप्तानां लक्षणवाक्ये कथनेन अव्याप्तिदोषो भविष्यति | तर्हि यद्यपि अतिव्याप्तिदोषः नवसु गुणेषु अपि नास्ति, किन्तु ज्ञानाधिकरणमात्मा, प्रयत्नाधिकरणमात्मा अनयोः द्वावेव अव्याप्तिदोषः नास्ति |
तर्हि लक्षणवाक्यस्य कथनावसरे त्रयः दोषाः न स्युः— अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः च |
किन्तु तथा सत्यपि, ज्ञानप्रयत्नाधिकरणमात्मा इति तु लक्षणवाक्यं न भवति | नाम, पृथक्तया एताभ्यां द्वाभ्यां विशेषगुणाभ्याम् आत्मनः लक्षणवाक्यं सम्भवति | मिलित्वा किमर्थं न इति चेत्, दलसार्थक्ये व्यर्थता न स्यात् | विद्याधर्याम् अपि अस्य दृष्टान्तः दीयते—
"कश्चित् सखायं गृहसङ्केतं पृच्छति | उत्तररूपेण सखा यदि स्वस्य पत्रसङ्केतं वदति, सम्यगेव | ग्रहणसौकर्याय समीपस्थं कश्चित् प्रसिद्धं स्थलम् अतिरिक्तमपि वदति चेत्, न दोषः | परन्तु अनावश्यकं यद्यत् गृहसमीपे वर्तते, तत् वक्तुमारभते चेत्, सः परिहास्यतां प्राप्नोति | अतः वक्त्रा बोधनीयं यत् वस्तु, तस्य सम्यक् परिज्ञानाय वस्तुसम्बन्धी आवश्यकः धर्मः निर्देष्टव्यः | परन्तु फल्गु अनावश्यकं नैव प्रयोक्तव्यम् इति लोकसिद्धोऽयं संव्यवहारः | किं वा शास्त्रीये विचक्षणव्यवहारे एकस्यैव वस्तुनः साधनाय ज्ञापनाय साधकद्वयं यदि वादी उपन्यस्येत, पराभवयोग्यः भवेत् | इत्थमेव वस्तुस्वरूपज्ञानाय लक्षणप्रयोगे कर्तव्ये एकेन दलेन वस्तुनः सम्यक् ज्ञानं भवति चेत् दलद्वयं न वक्तव्यं, न प्रयोक्तव्यम् |” (विद्याधरी, पृ०स० ४३)
तर्हि लक्षणवाक्ये वैयर्थ्यं न स्यात् |
प्रश्नः— वेगाख्यसंस्कारः चतुर्षु द्रव्येषु इति उक्तं— पृथिव्यां, जले, तजसि, वायौ च | वेगः मनसि अपि भवति वा ? मनः अपि मूर्तद्रव्यं, नाम क्रियाश्रयद्रव्यम् | मनः अपि क्रियाश्रयः इत्यनेन वेगः इति संस्कारः जायाते वा मनसः क्रियया ?
उत्तरं— सत्यम् | तत्र पञ्चसु द्रव्येषु वक्तव्यम् | पृथिव्यां, जले, तजसि, वायौ, मनसि च | यत्र क्रियाश्रयत्वं, तत्र वेगोऽपि जायते |
प्रश्नः— द्वेषः, प्रयत्नः, इच्छा - एषां कारणं च व्यापारः अस्ति वा ?
उत्तरं— धर्मः, अधर्मः, संस्कारः इति त्रयः गुणाः मनसा न ग्राह्याः | अतः व्यापारत्वेन सिध्यन्ति इति प्रदर्शितम् | आत्मनः अन्ये षट् गुणाः बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः इत्येतेषां प्रत्यक्षं भवति | अतः तेषां प्रसङ्गे व्यापारचर्चा न कृता | अधुना एते षट् अपरेषां फलानां व्यापारः भवितुम् अर्हन्ति इति वयं सर्वे कल्पयितुं शक्नुमः | यथा 'सुखेन पुत्रालिङ्गनम् अकरोत्' इयस्मिन् सुखेन पुत्रालिङ्गनम् अजायत | अत्र पुत्रालिङ्गनं फलं, सुखं च व्यापारः | तथा सर्वत्र इत्यस्माकं स्वातन्त्र्येण उहा |
प्रश्नः— भावना इति संस्कारः जायते ज्ञानेन | ज्ञानं तस्य कारणम् | भावनया जायते स्मरणम् | स्मरणम् इति फलम् | भावनाख्यसंस्कारः एव स्मरणस्य व्यापारः भवितुम् अर्हति वा ?
उत्तरं— स्मरणस्य उद्बोधकं किमपि भवितुम् अर्हति; केवलं भावनाख्यसंस्कारः इति न | यथा अहं मार्गे चलामि, तत्र कञ्चन पुरुषं दृष्टवान्; तस्य दर्शनेन, मम पितुः स्मरणम् अजायत मनसि | अत्र पुरुषस्य दर्शनं प्रत्यक्षज्ञानं न तु भावनाख्यसंस्कारः | अतः स्मरणस्य उद्बोधकं किमपि भवितुम् अर्हति; उद्बोधकेषु अन्यतमः भावनाख्यसंस्कारः |
प्रश्नः— अन्यौ द्वौ , वेगस्थितिस्थापकौ संस्कारौ व्यापारौ स्मरणस्य उद्बोधकं न स्तः इति वा ?
उत्तरं— तथा नास्ति; 'पुरुषस्य वेगं दृष्ट्वा स्वकन्यभ्रातुः स्मरणं मनसि आगतम्' | अतः वेगः अपि स्थितिस्थापकः इति द्वौ संस्कारौ अपि स्मरणस्य उद्बोधकं भवितुम् अर्हतः | किन्तु यथा विशिष्टरूपेण भावनाख्यसंस्कारः मनसि कार्यं करोति, तथा न |
प्रश्नः— अपि च भावनाख्यसंस्कारः एव आत्मसम्बद्धः संस्कारः | अन्यौ द्वौ आत्मसम्बद्धौ न स्तः किल ?
उत्तरम्— आं, सत्यम् |
Swarup – May 2016