8 - असमवायिकारणनाशेन गुणनाशः
ध्वनिमुद्रणम् -
असमवायिकारणनाशेन गुणनाशः
दिक्पिण्डसंयोगरूपासमवायिकारणनाशेन परत्वादिनाशः | दिक् इति द्रव्यम् | दिशा सह संयोगो भवति | परत्वम् अपरत्वञ्चेति गुणद्वयं भवति | दिक् वस्तुतः एका एव; किन्तु उपाधिभेदेन अविछिद्यते, भिद्यते | अनेन समीपे विद्यमाना दिक् इत्युक्ते समीपे विद्यमानं स्थानं; दूरे विद्यमाना दिक् इत्युक्ते दूरे विद्यमानं स्थानम् | अतः दिक् इत्येनन देशोपाधिना या दिक् | अखण्डा दिक् या भवति, तस्य भागाः तु भवन्ति; भागः इत्युक्ते एकैकं स्थानम्, एकैकोपाधिः; समीपे विद्यमाना दिक् इत्यनेन दिशः मम समीपे विद्यमानभागः | एवमेव दूरे विद्यमाना दिक् इत्यनेन दिशः मत्तः दूरे विद्यमानः भागः |
रामस्य सन्निहिता दिक्, रामस्य समीपे विद्यमाना दिक् या भवति, तेन सह संयोगो भवति यस्य कस्यापि द्रव्यस्य | यथा घटस्य संयोगः रामस्य समीपे विद्यमानया दिशा सह भवति; तदानीं रामस्य कृते तत् द्रव्यम् अपरम् | अपरम् इत्युक्ते अत्र समीपम् | परम् अपरम् इत्यनेन दूरं समीपं चेत्यर्थः | परत्वम् इत्यनेन दूरत्वम्; अपरत्वम् इत्यनेन सामीप्यम् | अतः रामस्य कृते अयं घटः अपरः इति चेत्, अस्मिन् घटे अपरत्वम् अस्तीति उच्यते | यदा च रामात् दूरे विद्यमानया दिशा सह संयोगो भवति तस्य घटस्य, तदानीं यत् अपरत्वं घटे अस्ति तन्नश्यति; परत्वं च तस्मिन् घटे उत्पद्यते |
पुनः घटस्य संयोगः अस्ति रामस्य समीपे विद्यमानेन दिशः भागेन सह | तदा घटे अपरत्वम् अस्ति, नाम समीपत्वम् अस्ति | रामम् अपेक्ष्य घटे अपरत्वम् अस्ति | यदा दिशः एतेन भागेन सह घटस्य संयोगः नष्टः, तदा दिशः अन्येन भागेन सह—नाम इतोऽपि दूरे विद्यमानेन भागेन सह—संयोगो भवति; तदानीं घटे विद्यमानम् अपरत्वं नष्टं; रामम् अपेक्ष्य घटे परत्वम् आगतम् | अपेक्ष्य इत्यनेन 'अपेक्षते' इत्यस्य ल्यबन्तं रूपम् | अप + ईक्ष् + ल्यप् | अस्मिन् प्रसङ्गे 'अपेक्षया' इति नोपयुज्यते; 'अपेक्ष्य' इत्येव साधु रूपं भवति | रामम् अपेक्ष्य इत्युक्ते 'with respect to rAma' | तर्हि रामम् अपेक्ष्य घटः परः, घटे परत्वं; समीपे विद्यमानद्रव्यम् अपेक्ष्य अयमेव घटः अपरः, घटे च अपरत्वम् |
पिण्डः इत्युक्ते किञ्चन द्रव्यं; किं द्रव्यम् इति निश्चितं नास्ति— घटः स्यात्, पटः स्यात् | तर्हि दिक्पिण्डसंयोगरूपासमवायिकारणनाशेन परत्वादिनाशः | अनेन पूर्वं रामम् अपेक्ष्य दूरे विद्यमानदेशोपाधिदिशा सह पिण्डस्य संयोगः आसीत् | इदानीं समीपे दिग्भागेन सह पिण्डस्य संयोगः जातः | तदानीं परत्वं नष्टम्, अपरत्वञ्च व्युत्पन्नम् | तत्र दिक्पिण्डसंयोगः इति गुणः पिण्डे, परत्वम् इति गुणः अपि पिण्डे; दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः अपि च परत्वं प्रति कारणम् | असमवायिकारणं कश्चन गुणः काचन क्रिया वा, समवायिकारणे स्थितं, कार्यं प्रति च कारणम् | अतः दिक्पिण्डसंयोगः परत्वस्य असमवायिकारणम् | इदानीं दिक्पिण्डसंयोगः नष्टः, तस्मात् परत्वम् अपि नष्टम् | अतः असमवायिकारणनाशेन गुणनाशः |
Swarup – September 2017