10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam: Difference between revisions

10---nyAyashAstram/17---kAryakAraNabhAvaH-ca-dvitiiyam-asamavAyikAraNam
Jump to navigation Jump to search
Content added Content deleted
(Added text)
(added pdf links)
Line 70: Line 70:

<big>अत्र कार्यकारणयोः अधिकरणं समानम्‌ इति साक्षात्‌ न दृश्यते | तदर्थं परम्परया वक्तव्यं भवति एव | किमर्थं वक्तव्यम्‌ इति चेत्‌ कार्यकारणभावः अस्ति इति अस्माकम्‌ अनुभवः | घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम्‌, इत्ययं कार्यकारणभावः आनुभविकः | अस्माभिः सर्वैः अनुभूयते इति करणतः कथञ्चित्‌ कार्यकारणभावः साधनीयः |</big>

[[File:द्वितीयसमवायिकारणवर्णानम्.jpg|450x450px]]

<big>यत्र कार्यकारणभावः अस्ति किन्तु सामानाधिकरण्यं साक्षात्‌ नास्ति, तत्र परम्परया वक्तव्यं भवति, अन्यः न कोऽपि उपायः | यत्र कार्यं जायते तत्रैव कारणेन भाव्यम्‌ | अत्र कार्यम्‌ अस्ति, अन्यत्र कारणम्‌ उत्पद्यताम्‌ इति तु कथमपि न भवति |</big>

<big>द्वितीयासमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम्‌ असमवायिकारणम्‌ | घटस्य परिमाणं समवायसम्बन्धेन घटे, कपालस्य परिमाणं समवायसम्बन्धेन कपाले | घटपरिमाण-कपालपरिमाणयोः एकम्‌ अधिकरणम्‌ अप्रसिद्धम्‌ | अतः कार्यस्य वा कारणस्य वा परम्परा-सम्बन्धः स्वीकार्यः |</big>

Line 90: Line 94:

<big>उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात्‌ अधिकरणे इति स्वीकृतम्‌ | अधुना विपरीतं कुर्मः— कार्यसम्बन्धः साक्षात्‌ अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया | कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः सामानाधिकरण्यम्‌ अपेक्षितमेव | अस्मिन्‌ पर्याये अधिकरणं किम्‌ ? घटः | घटपरिमाणं साक्षात्‌ घटे च | किन्तु कपालपरिमाणम्‌ ? स च कुत्र अस्ति ? कपाले | पुनः घटे भवेत्‌ इति वक्तव्यं चेत्‌, परम्परया एव वक्तुं शक्यम्‌ |</big>

<big>कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः | समवेतं नाम समवायसम्बन्धेन विद्यमानम्‌ | 'समवायी' इत्यनेन अधः गमनं; 'समवेतम्‌' इत्यनेन उपरिगमनम्‌ | पूर्वमपि इदम्‌ अस्माभिः दृष्टम्‌ | "फले एकः रसः अस्ति" इति वाक्ये एकत्वसङ्ख्या, रसश्च द्वावपि गुणौ; एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन | तर्हि "फले एकः रसः अस्ति" इत्यस्य कथनावसरे 'एकः रसः' इत्यनेन एकत्वं रसे, ततः 'गुणः गुणे' इति कथं साधनीयम्‌ इति चेत्‌, एकत्वस्य आश्रयः फलं; तत्समवेतः (समवायसम्बन्धेन विद्यमानः) भवति रसः | समवेतत्वं रसे | स्वं च एकत्वम्‌ | अतः स्वसमवायिसमवेतः रसः, स्वसमवायिसमवेतत्वं रसे, अपि च स्वसमवायिसमवेतत्वसम्बन्धेन एकत्वं रसे | अनेन 'फले एकः रसः अस्ति' इति वाक्यं सिद्धम्‌ |</big>

<big>एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धं साधयितुं शक्यते | स्वं कपालपरिमाणं, स्वसमवायी कपालः, तत्र समवेतः भवति घटः, समवेतत्वं घटे | तथा च स्वसमवायिसमवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते | तत्रैव घटे, घटस्य परिमाणं समवायसम्बन्धेन वर्तते | इति कारणस्य सम्बन्धः परम्परासम्बन्धः | तत्र घटपरिमाणं साक्षात्‌ समवायसम्बन्धेन घटे | '''समवायसम्बन्धेन घटपरिमाणं प्रति, स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्‌''' | अत्र स्वसमवायिसमवेतत्वं स्वीकृत्य कारणसम्बन्धः |</big>

<big>आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः | उभयथा वक्तुं शक्यते; उभयत्र कार्यकारणयोः एकम्‌ अधिकरणं सिध्यति | इति द्वितीयविधम्‌ असमवायिकारणम्‌ |</big>

Line 119: Line 127:

<big>अत्र प्रश्नः उदेति, समवायसम्बन्धः तथा नास्ति किम्‌ ? समवायेन यस्मिन् अस्ति सः समवायी इति | परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य | किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति— उभयत्र आश्रितः | अतः घटः अपि समवायी, परिमाणम् अपि समवायि खलु ? अनेन गुणः अपि समवायी, द्रव्यम् अपि समवायि | इति चेत्‌, यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायि |</big>

<big>सत्यं समवायसम्बन्धः उभयत्र आश्रितः अतः द्विनिष्ठः एव | किन्तु स च समवायसम्बन्धः एकस्मिन्‌ आश्रये एकेन सम्बन्धेन, अपरस्मिन्‌ आश्रये अपरसम्बन्धेन | समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन; समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन | द्वयमपि सत्यम्‌ | अत्र प्रतियोगी अनुयोगी च, संसर्गीयः न तु अभावीयः | यस्य सम्बन्धः सः प्रतियोगी; यत्र सम्बन्धः सः अनुयोगी | अत्र च इदं 'समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन' इत्यस्य न्याये व्यवहारो नास्ति | 'समवायसम्बन्धः घटे अस्ति अनुयोगितासम्बन्धेन' इति प्रसिद्धः यतोहि अनेन समवायीकारणं व्यक्तीक्रियते | एवञ्च आश्रयस्य दिशि अधः गमनार्थं, वदनार्थं 'समवायी', आश्रितस्य दिशि उपरि गमनार्थं, वदनार्थं 'समवेतः' इति व्यवहरामः |</big>

<big>अस्तु, ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र अश्रितः द्विनिष्ठः, तथैव परम्परासम्बन्धः अपि स्यात्‌ | किन्तु अत्र भिन्ना समस्या— अत्र सम्बन्धः द्विनिष्ठ एव नास्ति | स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ यद्यपि स्वसमवायिसमवायित्वसम्बन्धः कपाले अस्ति, किन्तु घटपरिमाणे नास्ति | स्वसमवायिसमवायी कपालः | इदं समवायित्वं च कपाले एव भवति |</big>

<big>संयोगः इति यथा उच्यते, तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात्‌ | स्वस्य समवायी घटः, घटस्य समवायी कपालः | स्वसमवायिसमवायित्वं कपाले एव, न तु स्वस्मिन्‌ | अतः एतादृशसम्बन्धः घटपरिमाणेऽपि अस्ति इति वक्तुं न शक्यते | विपरीतरीत्या अपि वक्तुं शक्त्यते— स्वम्‌ इति कपालः | स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणम्‌ | स्वसमवेतसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे | यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेतसमवेतत्वं केवलं परिमाणे न तु कपाले |</big>

Line 135: Line 147:
<nowiki>---------------------------------</nowiki>

[https://static.miraheze.org/samskritavyakaranamwiki/4/40/%E0%A5%A7%E0%A5%AD_-_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A4%83_%E0%A4%9A_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%A4%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D_%E0%A4%85%E0%A4%B8%E0%A4%AE%E0%A4%B5%E0%A4%BE%E0%A4%AF%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D_.pdf १७ - कार्यकारणभावः च द्वितीयम्‌ असमवायिकारणम्‌.pdf]
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>

<big>If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>