वर्धनी-भगिन्याः व्याख्यानम्‌

From Samskrita Vyakaranam
Jump to navigation Jump to search

भेदः एव पृथक्त्वमिति आक्षेपस्य निरासः


भेदस्य पृथक्तस्य च को विशेषः ?


भेदः - घटः पटः न, घटः पटात् भिन्नः इत्यादि प्रत्ययानाम् अन्योन्याभावः तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताका क्रमशः सिद्ध्यते | पटाभावः घटे अस्ति | अन्यानि उदाहरणानि - रूपं न घटः इत्युक्ते घटभेदस्य रूपवृत्तित्वं सिद्ध्यते | उत्क्षेपणं न पटः घटत्वं पटत्वात् भिन्नम् | घटाभावः न पटाभावः इत्यादि प्रत्ययानां क्रियादिनिष्टत्वम् अपि अस्ति| विभक्तिभेदेन अर्थः न भिद्यते| भेदः अन्योन्याभावः गुणे अस्ति क्रियायां अस्ति प्रतियोगिनं विहाय सर्वत्र अस्ति |भेदः सर्वपदार्थवृत्तिः |अवधिभेदेन भेदः भिद्यते |


पृथक्त्वम् :- पृथक्त्वं गुणः - समवायिकारणेन द्रव्ये एव भवति न तु गुणदौ | गुणस्य कारणं गुणे न, अपि तु द्रव्ये एव भवति | गुणः नवद्रव्यवृत्तिः | नवद्रव्याणि विहाय तस्य वृत्तित्वं नास्ति |


भेदपृथक्त्ववैलक्षण्यम् :-भेदपृथक्त्वयोः मध्ये भिन्नाभिप्रायाः सन्ति | प्राचीन नैयायिकानां मतं ' भेदः भिन्नः पृथक्त्वं भिन्नम्' इति | नव्यनैयायिकानां मतं ' भेदः एव पृथक्त्वम् ' इति | यत्र गुणत्वात् पृथक्त्वं गुणे न संभवति तत्र भेदः संभवति | पुनः यत्र द्रव्ये पृथक्त्वमिति गुणः अस्ति तत्र तस्मिन् अर्थे भेदः अपि भवति | रूपं घटात् पृथक् इति वाक्ये घटभेदः एव रूपे अस्ति न पृथक्त्वम्| अत्र पृथक्त्वभेदयोः वैलक्षण्यं प्रदर्शितम् |


भेदः एव पृथक्त्वमिति आक्षेपस्य निरासः

रूपं न रसः - एतस्मिन् वाक्ये रूपे रसस्य अन्योन्याभावः अस्ति | रसनिष्ठप्रतियोगितानिरूपितरूपनिष्ठ अनुयोगिता| अयं विषयः प्राचीन नवीन नैयायिकैः च अङ्गीक्रियते |पूर्वपक्षिभिः आपादनद्वयम् आक्षिपति|


प्रथमम् आपादनम् :

'गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिः द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् '


प्रथमतया मूर्तद्रव्यं तथा तस्य उत्पत्तेः द्वितीयक्षणे गुणः उद्भवति | नियतावधिकत्वं कस्यापि सिद्धगुणे न दृष्टः - भेदे एव दृष्टः| अतः पृथक्त्वस्य नियतावधिकत्वं भेदरूपत्वमेव इति पूर्वपक्षिणा प्रथमापत्तिः स्थापिता |


द्वितीयापादनम् :- ' भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वम् '- द्वयोः आपादनयोः अनन्तरं सिद्धान्ती उत्तरयति ' तद्दोषतादवस्थम्' इति न च वाच्यम् - नाम पुनर्वचनेन तदेव दोषः पुनः आयाति इति |


तद्दोषस्य निवारणार्थं युतसिद्धत्वं वारणीयम् |कपालावधिकपृथक्त्वं घटे नास्ति - घटावधिकपृथक्त्वं कपाले नास्तीति स्वीकर्तव्यम् | घटः तस्य अवयवपरंपराः च समानदेशे सन्ति | घटकपालयोः परस्परावधिकपृथक्त्वं नास्ति | ततः युतसिद्धत्वं नास्ति | युतसिद्धत्वाभावात् तयोः संयोगदोषस्य वारणं सिद्ध्यते | अत्र घटः कपालात् भिन्नः इति वैलक्षण्यम् उत्पद्यते |


द्वयोः परमाण्वोः संयोगापत्तिः -


'न चैवं परमाणुद्वयसंयोगानुपपत्तिः तयोः अनाश्रितत्वात् ' इति वाच्यम् | तत्र स्वतन्त्रक्रियावत्वस्य निमित्तत्वात् ' इति पूर्वपक्षिणः वादः |


सिद्धान्ती वदति यत् परमाणुः अनाश्रितः, समवायेन आश्रितं नास्ति | पृथगाश्रयाश्रितत्त्वं नास्ति| स्वतन्त्रक्रियावत्वस्य निमित्तत्वात् द्वयोः परमाण्वोः संयोगः भवति


अवयवाभावात् परमाण्वोः समवायिकारणं नास्ति |


मूर्तविभुसम्योगापत्तिः -


विभुद्रव्यस्य अवयवाभावेन तस्य संयोगः मुर्तद्रव्येण कथं भवति इति प्रश्नः | तस्य उत्तरम् अस्ति यत् विभुद्रव्येषु संयोगः उपाधिभेदेन संभवति |


आहत्य संयोगः अवयवावयविभावः युतसिद्धत्वं पृथगाश्रयाश्रितत्त्वं विभागः इत्यनेक विषयचिन्तनेन पृथक्त्वम् अतिरिक्तः गुणः, भेदात् विलक्षणः गुणः | भेदः एव पृथक्त्वं न इति प्राचीन नैयायिकानाम् आशयः |


वर्धनी