अजित-महोदयस्य व्याख्यानम्
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
नव्यनैयायिकानां (पूर्वपक्षी) मतम् -> भेदः एव पृथक्त्वम्
प्राचीनानैययिकानां मतम् (अपि च सिद्धन्तिनः ग्रन्थकारह् च ) -> भेदः पृथक्त्वम् भिन्नः
पूर्वपक्षिणः प्रथमम् आपादनम् -> गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् |
संयोगादयः सिद्धाः गुणाः| तेषु सिद्धगुणेषु नियतावधिकत्वम् नास्ति|नियतावधिकत्वम् इति स्वभावः कस्यापि सिद्धगुणस्य न दृष्टः | नियतावधिकत्वम् इति स्वभावः भेदस्य एव दृष्टः |
अतः पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता एव|इत्युक्ते आपदनस्य अर्थम् अस्ति, 'गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावः'| यत्र यत्र गुणक्षेत्रे नियतावधिकत्वम् उच्यते, तत्र सर्वत्र पूर्वपक्षी वदति 'मास्तु, तस्यापि भेदत्वमेव इष्टम्' इति | अपि च एकम् अन्तर्भूतम् अर्थम् अस्ति यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वं; भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं नास्ति इति| सारंसः अस्ति, पृथक्त्वं नियतावधिकत्वाम् ,भेदः नियतावधिकत्वाम् ,इतपूर्वं कोऽपि गुणः नियतावधिकत्वाम् ,अतः पृथक्त्वं भेदः एव , न तु गुणः इति |
पूर्वपक्षिणः द्वितीयम् आपादनम् ->भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वम्|
अस्तु पृथक्त्वं गुणः इति स्वीकुर्मचेत् तत् सर्वत्र भवतु(निखिलावधिकत्वम्) इति अर्थः | यथा भूतलावधिकत्व पृथक्त्वं घटे भवति तथा एव कपालावधिकत्व पृथक्त्वं घटे भवेत् इति अर्थः |
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
कपालावधिकपृथक्त्वं सीकृतं चेत्,परस्परावधिकपृथक्त्वाश्रयौ कपालः घटश्च जातौ | यदा द्वितीयापादने कपालावधिकपृथक्त्वं घटे स्वीकृतं, तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कपाले आगतम् | अनेन युतसिद्धत्वम् आगतम् | कपालघटौ युतसिद्धौ भवतः | युतसिद्धौ यदा भवतः, तदा तयोः संयोगापत्तिः | अतःतद्दोषतादवस्थ्यमिति न च वाच्यम् |