अखिला-भगिन्याः व्याख्यानम्
पृथक्व्यवहारासाधारनं कारणं पृथक्त्वम् | सर्वद्रव्यवृत्ति |
पृथक्त्वम्
उत्पीठिकायां कश्चित् घटः, हस्ते अन्य घटः | अयं घटः अन्यघटात् पृथक् इति ज्ञानम् आनुभविकम् | पृथक्त्वमिति गुणः नवद्रव्यवृत्तिः | गुणः इत्यस्मात् केवलं द्रव्ये एव भवति, न गुणे कर्मणि इत्यादिषु द्रव्यातिरिक्तान्यपदार्थेषु |
भेदः
घटः पटः न, रूपं रसः न इति वाक्यप्रयोगेण अभावरुपज्ञानं यदुत्पद्यते तदेव भेदः | भेदः इत्युक्ते अन्योन्याभवः | भेदः इति पदार्थः सर्वेषु पदार्थेषु (सर्वत्र) वर्तते |
घटः रसात् पृथक् इति प्रयोगे तु रसे पृथक्त्वं नास्ति परन्तु घटभेदः एव | गुणे गुणस्य अनङ्गिकारात् | प्राचिननैयायिकानां मतं इदम् | नव्यनैयायिकैः उक्तं - केवलं द्रव्यातिरिक्तपदार्थेषु भेदः इति किमर्थम् ? सर्वत्र भेद एव भवतु, पृथक्त्वम् इति अपरस्य गुणस्य का आवश्यकता? तस्य समाधानम् अग्रे दीयते |
संयोगः
कस्मिन्श्चित् उत्पीठिकायां पुस्तकम् किंचित् अस्ति | पुस्तक-उत्पीठिकयोः संयोगः भवति इति निदर्शनम् | पुस्तके पत्रैः भूयन्ते | तयोः - पुस्तक-पत्रयोः संयोगः भवति किम् ? न भवतीति चेत् कुतः ? कुत्र संयोगस्य अङ्गिकारः कुत्र अनङ्गिकारः ? अस्य प्रश्नस्य उत्तरप्राप्त्यर्थम् एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह कदा भवति इति ज्ञानम् अपेक्षितम् |
यावत् पर्यन्तं पुस्तकं तिष्ठति, पत्राणि आश्रित्यैव तिष्ठति, पुस्तकस्य स्वनाशपर्यन्तं स्तिथिः तथा | तादृशसम्बन्धः पुस्तक-पत्रयोः मध्ये अस्ति | यत्र एकं द्रव्यम् अपरस्य अवयवः भवति तत्र ते द्वे द्रव्ये अयुतसिद्धे भवतः | इत्युक्ते अवयवपरम्परायाम् यानि द्रव्याणि सन्ति, तानि अयुतसिद्धानि | विपरीतत्वेन यत्र तादृशसम्बन्धः नास्ति, यत्र द्रव्यमेकम् अपरं द्रव्यम् आश्रित्यैव तिष्ठतीति नियमो नास्ति, तत्र ते द्वे द्रव्ये युतसिद्धे | यथा पुस्तक-उत्पीठिके | पुस्तकम् उत्पीठिकाम् अनाश्रित्य अपि भवितुं शक्नोति, परन्तु पत्राणि विना स्थातुं न शक्नोति | आहत्य, पुस्तक-उत्पीठिकयोः मध्ये युतसिद्धत्वं, पुस्तक-पत्रयोः मध्ये अयुतसिद्धत्वम् | द्वे द्रव्ये युतसिद्धे स्तः चेत् तयोः संयोगः भवेत् इति नियमः |
पृथकाश्रयाश्रितत्वम् - युतसिद्धत्वम्
पृथगाश्रयाश्रितौ नाम पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ | पुस्तकस्य आश्रयः तस्य अवयवाः - पत्रादयः | तथैव उत्पीठिकायाः आश्रयः तस्याः अवयवाः - पादादयः | पुस्तकस्य अवयवाः उत्पीठिकायाः अवयवेभ्यः पृथक् | तथैव विपरीतदिशि अपि | तर्हि, द्वयोः अवयवसमुदाययोः अपि पृथक्त्वम् इति गुणः वर्तते | अनेन द्वौ अपि अवयवौ पृथक्त्ववन्तौ (पृथक्त्ववान् X 2) आश्रयौ (अवयविनः आश्रयः X 2) | द्रव्यं स्वस्य पृथक्त्ववति आश्रये आश्रितः भवति इति पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ ‘पृथगाश्रयाश्रितौ’ |
पृथगाश्रयाश्रितौ इत्यनेन युतसिद्धौ, तस्मात् संयोगस्य सम्भावना | अस्माकम् उदाहरणे पुस्तक-उत्पीठिकौ पृथगाश्रयाश्रितौ अपि च युतसिद्धौ | अनेन तयोः मध्ये संयोगः भवितुम् अर्हति |
पुस्तक-पत्रौ पृथगाश्रयाश्रितौ न, अपि च अयुतसिद्धौ | अनेन तयोः मध्ये संयोगः कदापि न भवति |
कर्मजः संयोगजः वा संयोगः
हस्तपुस्तकसंयोगः भवति चेत् प्रथमं हस्ते काचित् क्रिया जाता, यया क्रियया हस्त-पुस्तकयोः संयोगः जातः | तर्हि, सः संयोगः कर्मजः संयोगः, कर्मणा संयोगः जातः इत्यस्मात् | हस्त-पुस्तकसंयोगः भवति चेत् काय-पुस्तकयोः संयोगः अपि भवति | सः संयोगः संयोगजः संयोगः यतोहि संयोगेन जातः अयं संयोगः |
प्राचिननैयायिकैः संयोगस्य आधारेण पृथक्त्व-भेदयोः वैलक्षण्यं साधितम् | यत्र पृथक्त्वम् अस्ति (भिन्नदेशव्यापित्वं) तत्रैव संयोगः सम्भवति इति निर्णीतम् | भेदः तु न तथा, घट-कापलयोः मध्ये भेदः तु अस्ति परन्तु भिन्नदेशव्यापित्वं, पृथगाश्रयाश्रितत्वं नास्ति | आहत्य यत्र भेदः तत्र संयोगः इति वक्तुम् अशक्यम् |
अवधिः
अवधित्वम् इति स्वरूपसम्बन्धविशेषः | फलं वृक्षात् पतति - विभागः इति गुणः द्विनिष्टः, वृक्षे अपि फले अपि | ध्रुवमपायेऽपादानम् - अपाये (वियोगे) यत् ध्रुवं (यस्मात् वियोगः) तस्य अपादानसंज्ञा | अस्मात् पञ्चमिविभक्तिः |
सावधिकपदार्थाः
न्ययशास्त्रे सावधिकपदार्थः चत्वारः - संयोगः, विभागः, पृथक्त्वम्, भेदः |
संयोगः घट-भुतलयोः संयोगः इति स्तिथौ संयोगः उभयत्र विद्यमानः एक एव, स च द्विनिष्टः | स्वभावेन न सावधिकः | परन्तु प्रतीतिवशात् सावधिकत्वम् तस्मिन् आरोपितम् | घटावधिकः संयोगः भूतले, भूतलावधिकः संयोगः घटे इति | नियतावधिकः निखिलावधिकः नास्ति संयोगः |
विभागः संयोगः नाशकः विभागः | संयोगस्यैव स्थिथिः अस्ति विभागस्यापि |
पृथक्त्वम् पृथक्त्वं न द्विनिष्टं परन्तु एकनिष्टम्, स्वभावेन सावधिकम् | पृथक्त्वं नियतावधिकम् | वृक्षः फलात् पृथक् | वृक्षे फलावधिकं पृथक्त्वं | वृक्षे विद्यमानं पृथक्त्वम् एकमेव परन्तु तस्य अवधयः अनेके | वृक्षं विहाय विश्वे विद्यमानाः द्रव्यपदार्थाः तेषां अवधिकत्वम् अस्ति वा वृक्षे? स्वाश्रयावयवपरम्परायां यानि यानि मूर्तद्रव्यानि भवन्ति, तानि विहाय विश्वे यावद्द्रव्यम् अस्ति, तदवधिकत्वं भवति पृथक्त्वे | अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यं सिध्यति, इति पृथक्त्वं अनेकावधिकम् न निखिलावधिकम् |
भेदः भेदः नित्यः सर्वदापि भवति, स्वाभेवेन सावधिकपदार्थः अपि | भेदः अभावः इति भेदस्य अवधेः प्रतियोगी इति उच्यते | यत्र यत्र भेदविशयप्रतितिः भवति, तत्र अवधिः (प्रतियोगी) इति विषयः नितारं आवश्यकः | आहत्य भेदः नियतावधिकः | प्रतियोगी स्वस्मिन् तादात्म्यसम्बन्धेन स्वस्मिन् भवति | प्रतियोगिनं (स्वं) विहाय जगति अन्यत्र (सर्वत्र) भेदः भवति | परन्त्रु भेदस्थले प्रतियोगी एव अवधिः, तर्हि भेदः एकावधिकः, न निखिलावधिकः |
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः
सिद्धन्ती (प्रचीननैययिकाः) - कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयोः संयोगः सम्भवति | पृथकाश्रयाश्रितत्वाभावात् (स्वावयवपरम्पराघटितौ घटकपालौ) घटकपालयोः मध्ये तादृश (कर्मजः) संयोगः वा, संयोगजः संयोगः वा न भवति |
पूर्वपक्षी (नव्यनैयायिकाः) - पृथक्त्वभेदयोः मद्ये भेदः नास्ति, पृथक्त्वं भेदः एव इति साधनार्थम् आपादनद्वयं प्रदर्शयति |
अ) रूपदिगुणेषु नियतावधिकत्वं नास्ति | पृथक्त्वे नियतावधिकत्वस्य अङ्गिकारेण पृथक्त्वमिति गुणः न |
आ) यदि पृथक्त्वमिति गुणः इति अङ्गीकुर्मः, नियतावधिकत्वस्यैव निखिलवाधिकत्वमपि स्यात्, इत्युक्ते भुतालवधिकत्वस्य इव कपालवधिकत्वस्य अपि आवश्यकता स्यात् घटपृथक्त्वे |
कपालावधिकपृथक्त्वं घटे इति स्वीक्रियते चेत्, घटकपालौ परस्परावधिकपृथक्त्वाश्रयौ भवतः | कपालावधिकपृथक्त्वं घटे चेत् घटावधिकपृथक्त्वं कपाले स्यात् | अनेन घटकपालौ युतसिद्धौ इति आपतितम् | युतसिद्धेन तयोः संयोगापत्तिः | उभाभ्यां पक्षाभ्यां अपि घटकपालयोः संयोगः न अभिमन्यते, स न इष्टः अपि | घटकपालयोः युतसिद्धत्वं वारणीयं भवति, तदर्थं सिद्धन्तिना विभागस्य उदाहरणं स्वीक्रियते |
विभागः इति मूर्तोत्पत्तिद्वितीयक्षणे जायमानः कश्चित् गुणः | स्वभावेन द्विनिष्टः, सावधिकः न | विभागस्य न निखिलावधिकत्वम् अपि तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव | तस्मिन् अवधित्वम् आरोप्यते प्रतीतिवशात् | विभागस्य एकस्मिन् स्थले अवधिकत्वं वार्यते, अपरस्मिन् स्थले आरोप्यते (स्वीक्रियते) | अत्र निखिलवधिकत्वं नास्ति, तथैव पृथक्त्वे अपि | घटपृथक्त्वस्य अवधिकत्वम् एवम् - स्वाश्रयः यः घटः, तद्विहाय ये ये पदार्थाः, तदवधिकत्वं घटे घटपृथक्त्वे | स्वाश्रयः घटः, सः यस्मिन् देशे व्याप्तः, तावन्मात्रदेशे व्याप्ताः ये अवयवाः, तदवधिकत्वं घटपृथक्त्वे नास्ति | आहत्य घटकपालयोः परस्परावधिकपृथक्त्वं नास्ति | परस्परावधिकपृथक्त्वं नास्ति चेत् युतसिद्धत्वम् अपि नास्ति | युतसिद्धत्वाभावात् संयोगापत्तिः अपि निवारिता |
भेद एव पृथक्त्वम् इति भवति चेत् घटकपालयोः संयोगापत्तिः भवति | तस्य निवारणार्थम् पृथक्त्वमिति भिन्नगुणः स्वीकृतः, यः सर्वद्रव्यवृत्तिः | अन्ततः भेदः पृथक्त्वम् न इति साधितम् |
द्वयोः परमाण्वोः संयोगापत्तिः
यौ पृथगाश्रयाश्रितौ तयोः संयोगः भवतीति दृष्टम् | परमाणोः आश्रयः नास्तीति तयोः संयोगः कथम् ? परमाणुः स्वतन्त्रक्रियावान् | स्वतन्त्रक्रियावतोः संयोगः भवति |
मूर्तविभुसंयोगापत्तिः
विभवः अनाश्रिताः , तस्य अवयवः नास्ति | तर्हि, मूर्तविभुसंयोगः कथं सम्भवति ? तत्र उपाधिभेदात् तादृश संयोगः पृथक्त्वम् इत्यादयः गुणाः |
निगमनम्
कपालस्य आश्रयः कपालिका (पृथकाश्रयः), घटस्य च कपालः (पृथकाश्रयः), इत्यनेन घटकपालौ पृथकाश्रयाश्रितौ | तर्हि घटकपालयोः संयोगः भवति वा इति पुनः पूर्वपक्षी आपादयति | तस्य समाधानं ददाति सिद्धन्ती - समानदिग्भागव्यापिनां घटावयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वम् न भवति | समानदिग्भागव्यापिनाम् इत्युक्ते समानदेशे व्यापिता, यस्मिन् देशे कपालः अस्ति, तस्मिन्नेव देशे कपालिकापि | पृथक्-पदस्य स्थाने भेदः इति स्वीकुर्मः चेत् तादृश अर्थः न आयाति | पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते, भेदस्य तथा नास्ति | तादृश पृथक्त्वरूपगुणेन पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते | एतत् ज्ञानं भेदेन असम्भवः इति भेदः पृथक्त्वम् न इति साधितम् |
हस्तः वृक्षात् पृथक्' इति स्थितौ वृक्षः अवधिः, वृक्षे अवधित्वम् | 'हस्तः वृक्षात् भिन्नः' इति स्थितौ वृक्षः प्रतियोगी (अवधिः), वृक्षे प्रतियोगिता (अवधित्वम्) | पृथक्त्वस्थले एकमेव पृथक्त्वम्, तत् अनेकावधिकम् | भेदः तु तथा न | भेदः एकावधिकः (प्रतियोगी एव अवधिः ) परन्तु एकस्मिन् आश्रये भिन्न-भिन्न-भेदाः भवेयुः | प्रतियोगिताम् ज्ञात्वा केन अवच्छिन्ना इति ज्ञानं भवति | धर्मावच्छिन्नत्वं, तादात्म्यसम्बन्धावच्छिन्नत्वं च भवति प्रतियोगितायाम् | तदवगम्य एव भेदावगमनं भवति | पृथक्त्वविषये तथा न, इत्यपि भेदपृथक्त्वयोः मद्ये अपरं वैलक्षन्यम् |
आहत्य भिन्नभिन्न-नियमान् अवलम्ब्य तर्कान् अधिकृत्य पृथक्त्वम् इति भेदः न अतिरिक्तगुणः इति पर्यवसितम् |