गोपाल-महोदयस्य व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/gopala-mahodayasyavyakhyanam
Jump to navigation Jump to search

सम्योगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम्


प्रश्नः उदेति भेदः एव पृथक्त्वम् अथवा गुणान्तरं पृथक्त्वम् । एषः प्रश्नः प्राचीनीनां नव्यायीकानां मत भेदेन उत्पन्नः। प्राचीनैः उच्यते पृथक्त्वं गुणः इति। परन्तु भेदः एव पृथक्त्वम् इति नव्यनैयायिकाः वदन्ति। प्राचीननैयायिकाः वदन्ति पृथक्त्वम् गुणत्वात् नवद्रव्यवृत्तिः इति कारणात् द्रव्यभिन्नेषु अन्य पदार्थेषु न भवति। एतस्य मतस्य उत्तरार्थं नव्यनैयायिकैः उच्यते यत्र गुणस्य आवश्यकता भवेत् द्रव्य विवरणार्थं तस्मिन् स्थले भेदः एव भवतु । ते वदन्ति विभक्तिभेद उपयोगेन अर्थभेदः न सिध्यते।


कर्मजसम्योगः अपि च सम्योगजसम्योगः जायते यत्र पृथगाश्रयाश्रयतत्वमस्ति। एवम् चेत यत्र भिन्नाश्रयाश्रितत्वं अस्ति तत्र सम्योगः जायते इति वक्तुम् शक्यते वा । एवम् वदामः चेत् का हानिः । सम्योग विषये , सम्योगः यदा जायते तदा द्रव्यौ भिन्न आकाशदेशे स्तः। यध्यपि कपालस्य च घटस्य च भेदः अस्ति तथापि अवयव अवयविन (अवयवविनि) सम्बन्धेन पृथगाश्रयाश्रयतत्वं नास्ति इति कारणात् सम्योगः न जायते। यत्र एकः घटः अस्ति, सः घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति । सर्वे एकस्मिन् एव देशे सन्ति। तस्मात् घटः कपालात् पृथक् इति वक्तुं न शक्यते। एकस्मिन् घटे तस्य अवयवावयविनौ भिन्नाश्रयाश्रयतत्वम् अस्ति , तयोर्मध्ये अन्योन्याभावः सर्वदा अस्ति । परन्तु समवायिकारणेन पृथक्त्वं नास्ति यत्पर्यन्तम् ते समानदेशे स्तः। सम्योगः जायते पृथगाश्रययाश्रययोः मध्ये एवे इति द्वौ पक्षिणौ अपि अङ्गीकृतवन्तौ।


इदानीं अवधिः इति अन्य व्यवहारः पश्येम । यदा फलं वृक्षात् पतति, तत्र विभागः उभयत्र वर्तते । विभागः इति गुणः वृक्षे अपि फले अपि। फले क्रिया अस्ति इति कारणात् पतनं वृक्षावधिकम् । यत्र पृथक्त्वमस्ति तत्रापि अवधिः भवति परन्तु तस्मिन् विषये का अपि क्रिया न जायते । एवम् अवधित्वम् अनेकत्र भवति – पतनस्थले, विभागस्थले, पृथक्त्वस्थले। सावधिकम् पृथक्त्वम् अपि च विभागः, भेदः , पतनम् च। सर्वे सावधिका: पदार्थाः।


सम्योगः द्विनिष्ठः । किन्तु प्रतीतिवशात् अवधिकत्वम् आरोप्यते। यथा विक्षात् फलम् पतति इति वर्णन समये, अवधित्वम् वृक्षे आरोप्यते यत्र वृक्षावधिकः विभागः फले इति वदामः। अत्र यध्यपि (यद्यपि) विभागः द्विनिष्ठः , प्रतीतिवशात् वैलक्षण्यम् आनीतम्। तथैव सम्योग स्थले अपि अवधिकत्वम् आरोप्यते। तत्रापि कश्चित् भेदः वर्तते। विभाग स्थले पझ्चमीविभक्तिव्यवहारः अस्ति, संयोगस्थले तथा न भवति। सर्वदा द्वयोः सम्योगः । घटपटयोः सम्योगः इति प्रतीतौ , घटावधिकः सम्योगः पटे अथवा पटावधिकः सम्योग: घटे । अत्रापि सावधिकत्वमानीयते । पृथक्त्वं स्वभावेन सावधिकम्। पृथक्त्वम् एकनिष्ठम् । तत् व्यक्तिभेदेन भिद्यते ।


भेदस्थले अवधेः नियमेन बोध्यते। तस्मात् अत्र नियतावधिकत्वम् अस्ति । भेदः प्रतियोगिनं बोध्यते। कस्मात् भिन्नः इति वक्तव्यम् । त्थैव पृथक्त्व स्थले अपि नियतावधिकत्वम् - कस्मात् पृथक् इति नियमेन वक्तव्यम् भवति। इदानीं निखिलावधिकत्वम् इत्युक्ते, यः पदार्थः ताम् (यस्य) आश्रयभूत व्यक्तिं विहाय अन्यत्र सर्वेषु पदार्थेषु अवधिकत्वम् भवति, तत् निखिलावधिकत्वम्। प्रश्न: आयाति पृथक्त्वे निखिलावधिकत्वम् अस्ति वा न वा। घटः अन्यात् पदार्थात् पृथक् इति वदनेन, पृथक्त्वे निखिलावधिकत्वम् अस्ति स्यात्। एवं स्थितिः अवयवावयविनोः मध्ये न भवति। घटः कपालात् पृथक् न भवति। अतः पृथक्त्वे निखिलावधिकत्वम् न भवितुमर्हति। पृथक्त्वे अनेकावधिकत्वं वर्तते न तु निखिलावधिकत्वम्। गुणेन द्र्व्यम् विशिष्यते । गुणः अपि तदाश्रयभूत द्रव्येण विशिष्यते। एवं पृथक्त्वमपि तदाश्रभूत द्रव्यं विशिष्यते। उदाहरणे , घटविशिष्टं पृथक्त्वम् एकमेव। पृथक् साकन्ग्क्ष शब्दः । घटे विद्यमानं पृथक्त्वं एकमेव, परन्तु अवधयः बहवा: । किमर्थं चेत् गुणः अवधिभेदेन न भिध्यते, केवलं तदाश्रयभूतद्रव्येण। जगति, प्र्त्येकं पृथक्त्वस्य अवधिसमुदायः भिन्नः। अतः पृथक्त्वे अनेकवधिकत्वम् अस्ति न तु एकावधिकत्वम्।


भेद स्थले प्रतियोगिनं विहाय भेदः सर्वत्र भवति। अतः भेदस्य निखिलावधिकत्वम् अस्ति। कः अर्थः ?


प्रतियोगितावच्छेदकभेदेन एव भेदः विशिष्यते। घट पट भेदे, घटे प्रतियोगितायाः अवच्छेदकद्वयमस्ति – घटत्वम् अपि च तादात्म्यसम्बन्धः। तेन कारणेन यत्र तादात्म्यसम्बन्धः , तत्र तदवच्छिन्नप्रतियोगिता नास्ति, भेदः नास्ति।


घटे विध्यमानः भेदौ , यत्र घट कपाल भेद: अपि च घट भूतल भेद: अस्ति, द्वौ भिन्नौ। पृथक्त्वे घटः पटात् पृथक्, घटः वृक्षात् पृथक् , अन्यात् पृथक् , सर्वत्र पृथक्त्वम् घटे अस्ति, तानि सर्वाणि समानानि। भेदस्य अवधिः प्रतियोगिरूपः , तस्मात् एक एव अवधिः। पदार्थस्य अवधिकत्वं तस्य पदार्थ भेदे एव। एकः एव भेदः घटे अपेक्षते यध्द्यपि भिन्नाः अवधिकाः सन्ति। भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति परन्तु अनेकावधिकत्वम् नास्ति, भेदाः असन्ग्ख्याः। भेदे, पृथक्त्वे, सम्योगे, विभागे निखिलावधिकत्वम् नास्ति। तर्हि कुत्र निखिलावधिकत्वम् अस्ति इति विचारे, प्रायः परमाणौ स्यात्। यदा परमाणुः एकाकि अस्ति, तदा एव निखिलावधिकत्वम् स्यात्। परन्तु, परमाणोः एकाकि स्थित्योः कृते किमपि प्रमाणं नास्ति। अतः तत्रापि निखिलावधिकत्वम् नास्ति एव।


पृथक्त्वम् गुणः , तदाश्रयभूत द्रव्येण विशिष्यते। भेदः एवम् न। भेदः अवधिभेदेन विशिष्यते। घट भेदः घटे। तत् वदति यत् घटत्वावच्छिन्नतादात्म्यावच्छिन्नप्रतियोगिताकःअभावः यः घटः, तद्वान् पटः वा मठः वा।


अधुना भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः। यथा कपालभूतलयोः सम्योगः जायते पृथगाश्रय आश्रितत्वेन तथैव घटकपालयोः अपि भवितुमर्हति इति नव्यनैयायिकानां मतम्। ते वदन्ति, भेदे गुणरूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभवात् भूतलावधिकत्स्येव घटकपालयोः संयोगः जायते। गुणस्य एव स्वभावः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः अस्ति। इतः पर्यन्तं कुत्रापि न सिद्धं पृथक्त्वम् गुणः इति। नियतावधिक व्यवहारे , तद्विषयनी प्रतीतिः जायते । तत्र पझ्च्म्यन्तम् उपयुज्यते। तदा शन्ग्का उदेति यत् तत् भेदस्य एव विषयः। सम्योगविभागौ एवं न, किमर्थं चेत् तत्र नियतावधिकत्वं नास्ति एव। तथैव गुणेषु अपि नियतावधिकत्वम् न मन्यते इति कारणात् पृथक्त्वं भेदः एव भवतु इति आपत्तिः जायते। तस्य निवारणार्थं , भेदः सर्वत्र अस्ति, सर्वेषु द्रव्येषु अपि च सर्वेषु पदार्थेषु । गुणः द्र्व्येषु एव वर्तते, द्रव्योत्पत्तिद्वितीयक्षणे जायते। भेद: तु द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न । भेदः नित्यं इत्यस्मात् आरंभः अपि नास्ति। एवम् पूर्वपक्षिणोः प्रथमापादनम्।


द्वितीय आपादनं वदति यत् गुणः कश्चन नियतावधिकः इति स्वीकृतः चेदपि, सम्योगापत्तिः जायते। भूतलावधिकत्वम् इव कपालावधिकत्वमपि स्यात् घटे अपि। एवं स्वीकुर्मः चेत्, पुनः सम्योग दोषः आयाति घट कपालयोः। यदा कपालावधिपृथक्त्वं घटे तथैव घटावधिपृथक्त्वं कपाले स्वीकृतम्। अतः युतसिद्धत्वम् आयाति, तेन सम्योगोत्पत्तिः। एषः सम्योगः न जायते इति द्वाभ्यामपि अङ्गीकृत:। तस्मात् तयोः युतसिद्धत्वं वारनीयम्। कपालावधिकत्वं घटे नास्ति, अपि च घटावधिकत्वं कपाले नास्ति इति स्वीकर्तव्यम्। एवम् कुर्मः चेत्, कपालावधिकभेदः घटे नास्ति इति वक्तुम् न शक्यते। एतदाधारेण पृथक्त्वस्य भेदरूपता वार्यते।


यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वमपि स्यात् इत्यस्य निवारणार्थं , विभागस्य उदाहरणं स्वीक्रियते। अत्र, निखिलावधिकत्वं नास्ति , परन्तु नियमेन स्वनाश्यसंयोगाशयावधिकत्वमेव आवश्यकम्। नियमेन स्वीक्रियते इत्युक्ते अपरं न स्वीक्रियते इत्यर्थः। विभागे, एकः तदवधिकत्वं न स्वीक्रियते। अत्र, एकः अवधिः स्वीक्रियते, अन्यः वार्यते, सौकर्यार्थम्। एवमेव स्थितिः पृथक्त्व स्थले अपि, स्वावयवपरम्परायां विद्यमानाः । ये यस्मिन् देशे व्याप्ताः , ये स्वावयवपरम्परायां विध्यमानाः मूर्ताः तत्र तदवधिकं (तदवधिकत्वं) पृथक्त्वं नास्ति। ते सर्वे निखिलान्तर्गताः। अस्मिन् निखिलावधिकत्वे, स्वाश्रयः यः घटः , तद्विहाय सर्वत्र तदवधिकत्वम्। एवं वक्तुम् न शक्यते, निखिलावधिकत्वं नास्ति यतोहि स्वाश्रयः घटः यस्मिन् देशे व्याप्तः, तस्मिन् देशे एव अवयवाः सन्ति, तेषां तदवधिकत्वं घटपृथक्त्वे नास्ति। घटकपालयोः परस्परावधिपृथक्त्वं नास्ति । तस्मात् तयोः युतसिद्धत्वमपि नास्ति। तेन कारणेन तयोः संयोगदोषस्यापि वारणं भवति। एवं रीत्या परस्परावधिपृथक्त्वं न स्वीक्रियते।


सम्योगः जायते यौ पृथगाश्रियाश्रितौ। यद्यपि परमाणु विषये, पृथगाश्रियाश्रियतत्वं नास्ति, सम्योगः जायते स्वतन्त्रक्रियावत्वस्य निमित्तत्वात्। एतदेव पर्याप्तं परमाणोः संयोग: विवरणार्थम्। एवमेव, मूर्तविभुसंयोगस्थले अपि । अत्र सिद्धं यत्, घटस्य कपालाश्रितत्वात्, कपालस्य कपालिकाश्रितत्वात् अपि सम्योगः न जायते , किमर्थं चेत् द्वयोः आश्रययोः स्थान भेदः नास्ति।ते समानदिग्व्यापिनः। समानदिज्व्यापित्वं , दिगुपाधिभूतत्वं घटावयवपर्म्परागतत्वम् एतानि सर्वाणि घटकपालादीनां विशेषणानि। परमाणोः, मूर्तद्रव्ययोः संयोग विवरणार्थं समानदिग्व्यापित्वं, दिगुपादिभूतत्वम् एतयोः आवश्यकता अस्ति।


भेदे ज्झानं उत्पध्यते यदा बहूनां विषयानं ज्झानं अस्ति। एतत् विना ज्झानं पूर्णं न भवति। पृथक्त्वस्य स्थले ज्झानं उत्पध्यते साक्षात् गुणत्वात्। भेदस्य स्थले, प्रतियोगितायाः ज्झानं इष्टम्। प्रतियोगिता नियमेन केनचित् धर्मेण अथवा संबन्धेन अवच्छिन्ना भवति। एतत् ज्झानं तादात्म्याध्यनेकपदार्थानां ज्झानम्। किन्तु पृथक्त्वस्य ज्झान विषये एतत् सर्वं नपेक्षितम्।


पृथक्त्वस्य स्थले, विभिन्नदेशव्याप्तिमूर्तवृत्तिपृथक्त्वं वर्तते, अवधित्वं विस्पष्टम् इति कृत्वा अन्य विषयस्य ज्झानस्य परिशीलनस्य आवश्यकता नास्ति। एवं पृथक्त्वभेदयोः वैलक्षण्यं निरूपितम् अस्ति।


धन्यवादः । गोपालः