जयन्ती-भगिन्याः व्याख्यानम्
भेदः एव पृथक्त्वम् इति आक्षेपस्य निरास:
----------------------------------------------
विद्याधर्या: ग्रन्थकार: भेदपृथक्त्वयो: वैलक्षण्यं कथं प्रतिपादयति इति द्रक्ष्याम:
अस्य विषये तस्य मतं प्राचीनानां मतम् अनुसरति I
भेदपृथक्तवविषये द्वयो: पक्षिणो: मध्ये कुत्रचित् सम्मति: , कुत्रचित् मतभेद: I
१. भेद: इति अन्योन्याभावक: पदार्थ: I सप्त पदार्थवृत्ति : I द्रव्ये, गुणे, सामान्ये, विशेषे, समवाये, अभावे, कर्मणि च वर्तते I घट: पटो न , घट: पटात् भिन्न: इत्यादौ प्रत्ययौ घटे विध्यमानम् पटाभावं सूचयत: I अस्य विषये द्वयोः पक्षिणो: सम्मति: I
२. पृथक्त्वं कदापि अपरस्मिन् गुणे न भवितुम् अर्हति I रूपं घटात् पृथक् इति प्रत्ययेन घटपृथक्त्वं रूपे वर्तते इति दृश्यते I परन्तु गुणरूपं " रूपम्" कथं वा पृथक्त्वम् इति अन्यत् कार्यम् जनयितुं शक्नोति ? अत: रूपम् घटात् भिन्नम् । इयं भिन्नता अन्योन्याभावं सूचयति । अपि सर्वत्र वर्तते । पृथक्त्वस्य वैलक्षण्यं नवद्रव्यवृतित्वम् अस्ति । अत: द्वयो: साम्यत्वं न ।
३. पृथक्त्वस्य लक्षणम् अस्ति यत् पृथक्त्वम् पृथक् व्यवहारस्य असाधाराणं कारणम् ।
कुत्रचित् व्याकरणरीत्या पृथक्त्वभेदयो: वैलक्षण्यं साध्यते । ”पृथक्त्वे अवधिवाचकपदस्य पञ्चम्या: , आश्रयवाचकपदस्य प्रथम्या: च प्रयोग: । भेदस्स्थले द्वयो: पदयो: प्रथम्या: प्रयोग:” I परन्तु भेदस्स्थले अपि घटः पटात् भिन्न: इत्यस्य वाक्यं भेदम् एव सूचयति I भेदस्स्थले ‘ नञ्’ पदप्रयोगात् विभक्ति भिन्नता दृश्यते I अनेन तयोः अर्थभेद: न साध्यते इति नवीना: तर्कयन्ति I यथा 'कृ' धातु: 'यत्' धातो: भिन्न: इति बोध: केवलं कर्मपदप्रयोगेन न जायते । तथैव व्याकरणेन तयो: वैलक्षण्यम् न विशदी क्रियते ।
‘भेद: एव पृथक्त्वम् ' इत्यस्य निराकरणं ग्रन्थकार: अर्थरीत्या कथं व्यवस्थापयति इति अग्रे पश्याम ।
अस्य प्रारूप: एवं भवति - प्रथमं पूर्वपक्षिण: वादं आक्षेपरूपेण , अनन्तरं ग्रन्थकारस्य प्रतिभाषा इति ।
आक्षेप: १:
भेदेन सर्वं निर्वाह्यते । पृथक्त्वस्य अपेक्षा एव न उदेति ।
परिहार:
संयोगस्य आधारेण पृथक्त्वस्य गुणरूपं अपि च पृथक्त्वस्य अपेक्षां प्रकटयति ग्रन्थकार: ।
संयोग: तत्र तत्र जायते यत्र क्रियया, संयोगेन वा एकस्य मूर्तद्रव्यस्य मूर्तान्तरेण संयोग: उद्भवतिI नियमानुसरेण यदा हस्तपुस्तकयो: संयोग: जायते हस्तगतक्रियया तदा अवयविनि अपि पुस्तकशरीरयो: संयोगज: संयोग: उद्भवति । यथा हस्तक्रिया हस्तपुस्तकसंयोगं प्रति कारणम्, तथा हस्तपुस्तकसंयोग: एतं संयोगज: संयोगं प्रति कारणम् भवति ।
परन्तु मूर्तान्तरस्य अविध्यमानत्वे, यया क्रियया वा संयोगेन अवयवसंयोग: जायते, अवयविनि संयोगः न जायते । नाम कपाले विध्यमानया क्रियया घटस्य निर्माणम् । परन्तु कपालद्वयसंयोगेन वा कपालक्रियया घटे संयोग: सर्वथा न जायते । यदि घटे संयोग: जायते इति स्वीक्रियेत, तर्हि घटकपालयोः संयोग: भवति इति आपद्यते । परन्तु अयं संयोग: असम्भव:, अनुभवविरुद्ध: । तर्हि संयोग: कुत्र कुत्र जायते , कुत्र न ? अस्मिन् प्रक्रमे, कपालघटौ युतसिद्धौ न । स्वाश्रयौ स्वातन्त्र्येण न तिष्ठत:। समानाश्रयौ तिष्ठत: । अत: न तयो: पृथगाश्रयाशृतत्वम् । एतस्मात् संयोग: न सम्भवति । आहत्य पृथगाश्रयाशृतत्वयो: एव संयोग: भवति । अत: पृथक्त्वेन एव साधयितुं शक्यते संयोगस्य उपपत्तिः I अनेन पृथक्त्वस्य अपेक्षा साधिता I पृथक्त्वम् इति कश्चित् गुण: येन द्वयोः मूर्तद्रव्ययोः संयोग: संभवति I
आक्षेप: २:
पृथक्त्वस्य गुणत्वेन न अङ्गीकार: । पृथक्त्वम् द्रवोत्पत्तिद्वितीये क्षणे सृष्टं गुणरूपं चेत् तस्य नियतावधिकत्वं न स्यात् । दोषपूर्णम् । संयोगादि सिद्धानां गुणानां नियतावधिकत्वं न दृश्यते । अत: पृथक्त्वस्य नियतावधिकत्वात् गुणेषु न गणनीय:।
परिहार:
पृथक्त्वं भेदेन असदृशं द्रव्येषु एव विध्यते । द्रव्योत्पत्ते: अनन्तरक्षणे एव उद्भवति यथा अन्या: गुणा: उद्भवन्ति । गुणेषु विभाग:, संयोग: च सावधिकौ, यद्यपि तयो: नियतावधिकत्वं न ।
आक्षेप: ३ :
यदि पृथक्त्वम् गुण: इति स्वीक्रियेत, तर्हि विनानियमनं अवधिकत्वं भवेत् यतोहि कोपि नियमः न स्थापितः । पृथक्त्वस्य निखिलावधिकत्वं स्यात् । यथा भूतलावधिकत्वं घटे , तथा कपालावधिकत्वं अपि घटे भवतु ।
परिहार:
विभाग: इति गुण: द्रव्योत्पत्ते:अनन्तरक्षणे जायते । संयोगस्य नाशेन जायमानस्य विभागस्य आश्रय: अवधि: च संयोगस्य आश्रय: अवधि: चैव। संयोगस्स्थले घटावधिक संयोगः भूतले इति चेत् घटभूतलयो: विभाग: य: अनयो: संयोगनाशेन जायते, एतस्मिन् विभागस्स्थले घटावधिक विभाग: भूतले इति नियमेन स्वीक्रियते । अपर: अवधि: न स्वीक्रियते । तथैव द्रव्योत्पत्ते: अनन्तरक्षणे जायमाने पृथक्त्वे अपि अवधिकत्वं नियम्यते । द्रव्यपरंपरायां परमाण्वन्तम् ये अवयवा: समवायेन सन्ति, तदवधिकत्वं पृथक्त्वे न स्वीक्रियते । अत: कपालावधिक पृथक्त्वं न कदापि घटे । अनेन पृथक्त्वस्य निखिलावधिकत्वं न विध्यते ।
आक्षेप: ४:
द्रव्यपरम्परायां विध्यमानयो: परमाणुद्वयो: संयोग: कथं वा जायते यद्यपि अनाश्रितयो: तयोः अवयवरूपेण समवायी कारणं न विध्यते ?
परिहार:
परमाणव: स्वतन्त्रक्रियावन्त: । स्वतन्त्रक्रियावत्वात् परमाणुद्वयो: स्थानभेद: येन संयोग: जायते । अत: परमाणुविषये विनाश्रयं संयोग: उत्पद्यते ।
आक्षेप: ५:
मूर्तद्रव्यस्य विभुना संयोग: कथं जायते यद्यपि पृथगाश्रयाशृतत्वम् विभुद्रव्यस्य नास्ति ?
परिहार:
मूर्तविभुसंयोगे मूर्तद्रव्यस्य एकस्य पृथगाश्रयाशृतत्वम् पर्याप्तम् येन द्वयो: संयोग: भवति ।
आक्षेप: ६:
घटकपालविषये घटस्य आश्रय: कपाल:, कपालस्य आश्रय: कपालिका । द्वयो: पृथगाश्रयाशृतत्वम् दृश्यते येन घटकपालयोः संयोग: स्यात् ।
परिहार:
समानदेशवर्तत: घटकपालौ । घटस्य परम्परायां विध्यमानानां अवयवा: समानदिग्व्याभागव्यापिना : । समानदेशवृत्तित्वात् दिगुपाधिभूतेषु मूर्तद्रव्येषु परस्परपृथक्त्वं न सम्भवति ।
इत्थं ग्रन्थकारेण ' भेद: एव पृथक्त्वम् ' इति पूर्वपक्षिण: स्वीकार: निरस्त: । पृथक्त्वं भेदात् अतिरिक्तं इति व्यवस्थापित: ।