माला-भगिन्याः व्याख्यानम्
भेद: एव पृथक्त्वम् इति आक्षेपस्य निरास:
प्राचीनानामतानुसारेण भेद: पृथक्त्वं च भिन्नौ पदार्थौ| नवनैयायिकानां मतानुसारेण भेद: च पृथक्त्वं समानमेव। अस्मिन् विषये तर्क: कथं जायते इति पश्याम:|
भेद:
भेद: इति पदार्थ: सप्तसु पदार्थेषु वर्तते यथा कर्म, गुण, सामान्य, समवाय इत्यादि। भेद: इत्युक्ते अन्योन्याभाव:। प्रतीतिः भवति पट: घट: न अथवा पट: घटात् प्रुथक्। प्रत्येक: पदार्थ: तादात्म्यसम्बन्धेन स्वस्मिन् तिष्ठति अत: अन्यत्र तस्य अन्योन्याभाव: अथवा भेद: वर्तते। प्रतीत्यां प्रतियोग्यनुयोगिवाचकपदाभ्यां प्रथमा विभक्ति: भवति यथा घट: भूतलं न। अथवा पञ्चमि विभक्तिं प्रयुज्य घट: भूतलात् भिन्न:।
अत्र धेयं यत् प्रतियोगिभेदेन भेद: भिध्यते। भेदस्थले प्रतियोगी एव अवधि: भवति। अवधि: इति स्वरूप सम्बन्ध विषय:| घट: पटात् भिन्न: इति यदा प्रतीतिर्जायते, तदा यस्मात् भेद: अस्ति, तस्य नाम अवधि: भवति| अवधिभेदेन भेद: भिद्यते। यथा घट: भूतलात् भिन्न:। अत्र भूतलं अवधि: भेदस्य। भूतलावधिक: भेद: घटे वर्तते। भूतलत्वावछिन्न तादात्म्यसम्बन्धावछिन्न अवधित्वं वर्तते भूतले|
पृथक्त्वम्
पृथक्त्वम् इति गुण: नवसु द्रव्येषु एव वर्तते। भूतलं घटात् प्रुथक् इति प्रत्य: जायते। अत्र पृथक्त्वं भूतले अस्ति। घट: अवधि:। घटावधिक: पृथक्त्वं भूतले वर्तते। तथा भूतलं पटात् पृथक्, वुक्षात् पृथक्, पुस्तकात् पृथक् इति प्रतीतिर्जायते। पृथक्त्वं यद्यपि अनेकावधिक: नाम बहव: अवधय: भवितुम् अर्हति, तथापि एकं एव पृथक्त्वं वर्तते भूतले। गुणत्वात् पृथक्त्वं भिद्यते तदाश्रयभूत द्रव्येण। पृथक्त्वस्य समवायी कारणं द्रव्यम् इति कृत्वा द्रव्याश्रये तिष्ठति। द्रव्योत्पत्ते: द्वितीयक्षणे पृथक्त्वम् इति गुणः उत्पद्यते| भूतलविशिष्टपृथक्त्वं घटविशिष्ट्पृथक्त्वात् भिन्नं । अपि च गुणत्वात् गुण: न कदापि गुणे भवितुम् अर्हति। यथा रूपे। गुणस्य समवायि कारणं द्रव्यं न तु गुणः| रूपं घटात् पृथक् इति प्रत्यये भॆद: एव निर्दिश्यते न तु पृथक्त्वम्।
अत्र सिद्धान्तिन: नवनैयायिका: च अङ्गीकुर्वन्ति यत् भेद: सर्वत्र वर्तते यतोहि तस्य सर्वपदार्थव्रुत्ति:। अनन्तरं गुण: गुणे न भवति इत्यपि अङ्गीकुर्वन्ति। तस्मात् नूतनै: मन्यते यत् भेद: एव भवतु सर्वत्र। प्रुथक्त्वगुणस्य आवश्यकता नास्ति। तेषां चिन्तनमस्ति यत् विभक्तिभेदेन अर्थभेद: न भवति।
नियतावधिकत्वम्
पृथक्त्वं च भेद: सावधिक पदार्थौ। नियमेन् अवधि: भासते। व्यवहारे घट: पृथक् अथवा घट: भिन्न: इति पर्याप्तं नास्ति। कस्मात् पृथक्, कस्मात् भिन्न: इति आकाङ्क्षा भवति। अत: द्वावपि नियतावधिकपदार्थौ| संयोग: विभाग: च तथा नास्ति| कुत्रचित् अवधि: स्वीक्रियते, कुत्रचित् वार्यते द्विनिष्ठत्वात् | तयो: नियतावधिकत्वं नास्ति| प्रतीतिवशात् अवधि: आरोप्यते |
संयोग:
इदानीं संयोग: कुत्र भवति इति द्रष्टव्यम| युतसिद्धयोरेव संयोग: जायते| युतसिद्ध: इत्युक्ते किम् ? पृथक् आश्रये आश्रित:| अन्यथा सिद्धि:भवेत् | यथा वृक्ष: हस्त: च| वृक्ष: स्वस्य आश्रयेषु अथवा अवयवेषु आश्रित:| हस्त: च स्वस्य अवयवेषु आश्रित:| द्वावपि पृथक् स्थ: अत: तयो: संयोग: सम्भवति| पृतगाश्रयाश्रितयोरेव युतसिद्धत्वं सम्भवति| भिन्नदेश: अपेक्षित:| हस्तवृक्षयोर्मध्ये कर्मज: संयोग: जायते यतोहि क्रियया संयोग: जायते| यदा हस्तवुक्षयोः संयोगेन कायवृक्षयोर्मध्ये संयोग: जायते तदा संयोगज: संयोग: जायते| शरीरोहस्तयोर्मध्ये कार्य कारण भाव: अस्ति| क्रिया प्रथमथया हस्ते जायते यत् कर्मज: संयोग: इत्युच्यते, अनन्तरं काये यत् संयोग: जायते तत् संयोगज: संयोग:| अवयवे प्रथमथया क्रिया जायते अनन्तरं अवयविनि| परन्तु कपाल घटयोर्तथाविधत्वाभावात् तयोर्मध्ये संयोग: न सम्भवति| एकस्मिन्नेव देशे स्तिथ: अत: तौ अयुतसिद्धौ स्थ:| पृतगाश्रयाश्रितत्वं नास्ति अत: समवाय सम्बन्ध: एव भवति तयोर्मध्ये| घटस्य समवयी कारणम् भवति कपाल:| नाशपर्यन्तं घट: स्वस्य कपलमाश्रित्य तिष्ठति| अवयवावयविनो: समवाय सम्बन्ध: वर्तते | अनेन सिद्धयति यत् पृथक्त्वं इति गुण: अस्ति द्वौ द्रव्ययोर्मध्ये, येन संयोग: सम्भवति| भेदेन संयोग: न सम्भवति| घट कपालयोर्मध्ये भेद: तु अस्ति किन्तु संयोग: न जायते| विद्याधरी ग्रन्थे लिखितं अस्ति “तर्हि सिद्धं न: समीहितम् गुणान्तरं पृथक्त्वम्”| अनेन पृथक्त्वभेदयोर्मध्ये वैलक्षण्यं साधितं|
निखिलावधिकत्वम्
यस्य पदार्थस्य अवधि: स्वं विहाय सर्वत्र वर्तते तद्पदार्थ: निखिलावधिक: इत्युच्यते| परन्तु जगति तथा न भवत्येव| भेदस्थले, पृथक्त्वस्थले, विभागस्थले, संगोगस्थले च न भवति| पृथक्त्वस्थले घटस्य अवयवपरम्परायां ये कपाल: कपालिका: सन्ति, ते घटस्य अवधय: न भवन्ति यतोहि ते एकस्मिन् देशे व्याप्ता:| भेदस्थले प्रतियोगी एव अवधि:| प्रतियोगिनं विहाय तस्य अवधि: अन्यत्र न भवति| प्रतियोगि भेदेन भेद: भिद्यते|
भेद: एव पृथक्त्वम् इति आक्षेपस्य निरास:
तर्हि नवनैयायिकानामतानुसारेण पृथक्त्वं एव भेद:| विद्याधरी ग्रन्थे अस्मिन् विषये पूर्वपक्षिण: आपादनद्वयं अस्ति| “न च गुणरूपस्य तस्य रूपादिवत मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्येव कपालावधिकस्यापि आवष्यकत्वात तद्दोष तादवस्थ्यमिति वाच्यम् “|
अत्र ‘न च’ इति शब्दस्य ‘वाच्यम्’ इत्यनेन अन्वय: भवति| सिद्धान्ती वदति गुणरूपस्य तस्य रूपादिवत मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्येव कपालावधिकस्यापि आवष्यकत्वात तद्दोषतादवस्थ्यमिति न च वाच्यम् |
प्रथम: आपादनमस्ति गुणरूपस्य तस्य (पृथक्त्वस्य) रूपादिवत मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभाव:| पृथक्त्वगुण: मूर्तद्रव्यस्य उत्पत्ते: प्राक् द्वितीयक्षणे जायमान:| परन्तु नूतनाः न मन्यन्ते यत् पृथक्त्वं इति एक: गुणः अस्ति यतोहि अन्येषु सिद्धगुणेषु नियतावधिकत्वं नास्ति यथा संयोगस्थले अथवा विभाग, रूप, रस, गन्धस्थले इत्यादि| यत्र पञ्चमी विभक्ति उपयुज्य नियतावधिकव्यवहार: जायते तत्र भेद: एव भवतु इति तेषां आशय:| भेदे तु नियतावधिकव्यवहार: भवत्येव अत: भेद: एव भवतु इति तेषां मतम्| तर्हि सिद्धन्ती वदति एवम् अस्ति चेत् कपालघटयोर्मध्ये संयोगस्य सम्भावना पुनः भिन्नाश्रयाश्रितत्वात भवति, यत् दोषपूर्ण: अस्ति|
नूतनानां द्वितीयापादनमस्ति भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकता| अत्र यदि ते नियतावधिकत्वं पृथक्त्वे स्वीकुर्वन्ति, तदा तत्र नियामकं किमपि नास्ति इति कृत्वा परस्पर अवधिकत्वं भवेत् यथा भूतलावदिकत्वं इव कपालावधिकत्वमपि इति तेषां मतम्|
तर्हि सिद्धान्ती उत्तरयति यत् यदि तादृश कपालावधिकपृतक्त्वं घटे भवति, तर्हि पूर्वम् दृष्ट: संयोगापत्ति: अयुतसिद्धयोर्मध्ये आगच्छति| कपालघटयोर्मध्ये युतसिद्धत्वं तु नास्त्येव| तेषां प्रुतगाश्रयाश्रितत्वं नास्ति अत: युतसिद्धत्वं नास्ति| पूर्वपक्षी अपि एतत् अङ्गीकुर्वन्ति यत् घटकपालयोर्मध्ये संयोग: विभाग: तु न जायते| यदि निखिलावदिकत्वं अस्ति तर्हि एतादृशं कपालावधिकपृथक्त्वं घटे सम्भवति| परन्तु तत् तु विश्वे नास्ति
एव| तर्हि सिद्धान्ती वदति कपालावधिकभेद: घटे नास्ति इति वर्णयितुं न शक्यते किल? घट: कपालात भिन्न: एव अत: पृथक्त्वभेदयोर्मध्ये वैलक्षण्यं सिद्ध्यति|
अनन्तरं सिद्धान्ती द्वितीयापादनस्य निवारणर्थं उदाहरणरीत्या वदति “वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते”| तादृश भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि इति तदा वक्तुं शक्यते यदा निखिलावधिकत्वं स्वीक्रियते| विभाग: स्वेन नाश्य: य: संयोग: तदधिकरणे एव जायते| अत्र विभागस्थले किञ्चित् अवधिकत्वं स्वीक्रियते किञ्चित् अवधिकत्वं वार्यते यतोहि विभाग: द्विनिष्ठ:| यदि हस्त: वृक्षात विभक्त: इति व्यवहार: जायते, तर्हि वृक्षावधिक: विभाग: हस्ते भवति न तु वृक्षे अपि| विभागस्थले अपि निखिलावधिकत्वं नास्ति इति उक्त्वा सिद्धान्ती उत्तरयति यत् आपादनं दोषपूर्णं|
तथैव पृथक्त्वस्थले अपि घटकपालयो: मध्ये परस्परावधिकपृथक्त्वं न भवति| स्वावयवपरम्परायां ये पदार्था: स्वस्मिन् विद्यमानपृथक्त्वे तदवधिकत्वं नास्ति| स्वाश्रय: घट: स: यस्मिन् देशे व्याप्त: तावन्मात्र देशे व्याप्ता: ये अवयवा: यथा कपाल: कपालिका च, तेषां अवधिकत्वं घटपृथक्त्वे नास्ति अत: निखिलावधिकत्वं नास्ति| यदा निखिलावधिकत्वं नास्ति, तदा पुनः तद्दोषतादवस्थ्यं इत्युक्ते संयोगापत्ति: इति नास्ति| घटकपालयो: संयोग: इति नास्ति| युतसिद्धत्वं वार्यते| इदानीं पृथक्त्वस्य स्थाने यदा भेद: स्थापयाम: तर्हि कपालभेद: घटे, कपाले च घट भेद: भवति| अनेन तयो: मध्ये युतसिद्धत्वं स्यात् अनन्तरं संयोग: स्यात्| परन्तु वयं जानीम: पृथागाश्रयाश्रितयोर्मध्ये एव संयोग: सम्भवति| तस्मात् पृतक्त्वभेदयो: वैलक्षण्यं अस्ति इति स्वीकरणीयम् भवति|
आहत्य भेदस्थले प्रतियोगिताया: महत्वं, पृथक्त्वस्थले पृथगाश्रयाश्रितत्वस्य महत्वं, संयोग विभागपृथक्त्वस्थले अवधिकत्वं, नियतावधिकत्वं, निखिलावधिकत्वं इत्यादि विषयाणां चिन्तनेन वयं स्पष्टतया जानीम: यत् भेद: पृथक्त्वं च भिन्नौ पदार्थौ|
माला - May 2017