निरञ्जन-महोदयस्य व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/niranjana-mahodayasyavyakhyanam
Jump to navigation Jump to search

पृथक्त्व-भेदयोः परस्परवैलक्षण्यम् किम् इति सारांशरूपेण वक्तव्यम् इति आशयः। एतस्मिन् कार्ये संयोगः माध्यमम् भवति |


घटपटयॊः संयॊगः भवति किन्तु समवायिकारणत्वात् घटकपालयॊः संयॊगः कदापि न भवति इति तु प्रसिध्दः सर्वैः मतैः अङ्गीकृत: विषय: |


कुत्र कुत्र संयोग: जायते इति प्रश्न: | यदि द्रव्यद्वयं प्रत्येकं  स्वस्य पृथक्त्ववति आश्रये आश्रित: तर्हि तौ पदार्तौ पृथगाश्रयाश्रितौ  तस्मात् युतसिद्धौ | अतः तयोः संयोगः भवति | तयोः आश्रयौ असमानदिग्भागव्यापिनौ |


घटपटयोः संयोगस्य संभवः अस्ति यतोहि घटपटौ पृथगाश्रयाश्रितौ घटस्य अवयवाः पटस्य  अवयवेभ्यः पृथक् | परंतु समानदिग्भागव्यापिनि घटकपालावयविनि आश्रितयोः घटकपालयोः संयोगः तु न भवत्येव | कपालः कपालिका च पृूथक्  न यतः भिन्नदेशे न स्तः ।


पृथक्त्वं भेदः च नियतावधिकौ इत्युक्ते यदा यदा तयोः विषयकव्यवहारः भवति तदा नियमेन अवधेः उल्लेखः अवश्यं भवति | घटः पटात् पृथक् इति प्रतीतिः | तत्र पृथक्त्वस्य आश्रयः घटः, अवधिः पटः च पटावधिकपृथक्त्वं  घटे इति नित्य व्यवहारः | घटः पटः न इति प्रतितौ भेदस्य आश्रयः घटः अपि पटः अवधिः पटावधिकभेदः घटे इति नित्य व्यवहारः भवति | अतः पृथक्त्वं भेदः च नियतावधिकौ किन्तु संयोगः विभागादि गुणाः न नियतवाधिकाः |


यस्यां व्यक्तौ कश्चन सावधिकपदार्थः वर्णनीयः ताम् आश्रयभूतव्यक्तिं  च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिकत्वं तस्मिन् सावधिकपदार्थे भवति चैत् तस्मिन् निखिलवधिकत्वं अस्ति इति उच्यते | स च पदार्थः निखिलावधिकः | निखिलवधिकत्वं केवलं नियतावधिके पदार्थे एव भवितुं शक्यते | किन्तु जगत् परिशील्य ज्ञानं भवति यद् लोके कोपि निखिलावधिकपदार्थः नास्त्येव |


घटः पटात् पृथक् भूतलात् पृथक् इत्यादि प्रत्ययेभ्यः पटावधिकपृथक्त्वं भुतलावधिकपृथक्त्वं इत्यादि ते सर्वे घटविशिष्टपृथक्त्वं एकम् एव अतः पृथक्त्वं अनेकावधिकः | गुणत्वात् पृथक्त्वं तस्य समवायिकारणद्रव्येण भिद्यते |


भेदः अन्योन्याभावः | घटः पटात् भिन्नः इति वाक्ये यः पटभेदः घटे अस्ति तस्य अवधिः तादत्म्यसम्बन्धावच्छिन्न पटत्वावच्छिन्न अभावस्य प्रतियोगी एव | तस्मात् सिध्यति यत् भेदस्तु एकावधिकः इति |


अधूना पृथक्त्व-भेदयोः परस्परवैलक्षण्यम् किम्  इति पश्यामः|


तत्र मतद्वयम अस्ति | प्राचिनानां मतमस्ति पृथक्त्वं तु गुणः अनेकावधिकः नवद्रव्यवृत्तिः समवायिकारणद्रव्यस्योत्पत्तेः द्वितियक्षणे जायमान अनित्यपदार्थः समवायिकारणद्रव्यवृत्तिः समवायिकारणावच्छिन्न पदार्थः  | गुणत्वात् पृथक्त्वस्य ज्ञानं सुलभतया भवति |  प्राचिनानां मतमस्ति भेदः अन्योन्याभावः नित्यः सर्वपदार्थवृत्तिः एकावधिकः, तादत्म्यसम्बन्धावच्छिन्न प्रतियोगिनिरूपित पटत्वावच्छिन्न च पदार्थः, अनेकपदार्थज्ञानाधीनज्ञानविषयः,  यः प्रतियोगिनं विहाय सर्वत्र भवति | अतः ते चिनत्यन्ति यत् पृथक्त्वं भेदः न इति |


नव्यानां मतानुसारं पृथक्त्वं भेदः एव |  तस्य मतस्य सदस्यः  वदति पृथक्त्वं गुणः न यतः संयोगादि  सिद्धगुणाः सर्वे तु नियतावधिकाः न| ततः कथं पृथक्त्वं गुणरूपि भवेत् ? अपि पृथक्त्वं तु भेदः अतः नित्यः किन्तु द्रव्याश्रितगुणः अनित्येव | तत्र प्राचिनानाम् मतस्य सदस्यः वदति यदि पृथक्त्वं भेदः एव तर्हि घटकपालयोः संयोगः भवति किन्तु तत् असाध्यः | अतः पृथक्त्वं भेदः न | नव्यसदस्यः वदति यदि पृथक्त्वस्य नियतावधिकत्वम् अस्ति तर्हि  तस्मिन् क्षेत्रे किमपि नियामकं न उक्तं अतः  तस्य निखिलावधिकत्वम् अपि भवेत् इति| किन्तु तत्रापि सः एव दोषः आयति इति वदति प्राचिनसदस्यः | सः वदति वियोगः सिद्धः गुणः किन्तु तस्य निखिलावधिकत्रवम् नास्ति अतः प्रिथक्त्वस्य निखिलावधिकत्वम् किमर्थं अपेक्षणियः | यदि पृथक्त्वस्य निखिलावधिकत्वम् अस्ति तर्हि घटकपालयोः परस्परावधिकम्  पृथक्त्वं भवति यस्मात् तयोः संयोगः भवेत् |


अतः वयं स्वीकर्तुम् शक्नुमः यत् पृथक्त्वं भेदः न इति |