राजेन्द्र-महोदयस्य व्याख्यानम्
संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षणयम (वैलक्षण्यम्)
संयोगः – चतुर्विंशतिर्गुणेषु अन्यतम: गुणः | कपाले जाता क्रिया कपाल-भूतल संयोगस्य कारणम् | एषः संयोगः कर्मज संयोगः -यथा कपाले जात क्रियया कर्मणा तथा कर्मजसंयोगः इति उच्यते | कपाले जाता क्रियया घट –भूतलयोः अपि संयोगः जायते, यत् इति संयोगजसंयोगः उच्यते | कपालभूतलयौः प्रुथगाश्र्याश्रितौ यस्मात् युतसिद्धौ, पृथक् देशे स्तः | परन्तु कपाले जाता क्रियया घटे क्रिया न जायते, यथा कपालः घटस्य अवयवः | अवयवे जाता क्रिया अवयविनि क्रिया न उत्पद्यते |
कपाल-घटयोः संयोगः न संभवति | कपालः घटस्य अवयवः | अवयव -अवयविनि प्रुथगाश्र्याश्रित्तवौ न स्तः तौ अयुतसिद्धौ एकस्मिन् देशे स्तः | तस्मिन् कर्मजसंयोगजसंयोगः न भवति एव | घटः समवायिसम्बन्धेन् कपाले वर्तते | कपालः समवायिसम्बन्धेन् कपालिकायां वर्तते | तादृशी यद्यपि प्रुथगाश्र्याश्रितौ दृश्यते तथापि तस्मिन् संयोगः न जायते यदि तौ अयुतसिद्धौ भिन्नदेशे न स्तः एकस्मिन् एव देशे स्तः |
पृथक्त्वं गुण: नवद्रव्यवृति: इति प्राचीननैयायिकानां मतम् | भेद: एव पृथक्त्वं इति नव्यनैयायिकै: मतम् | भेद: सर्वपदार्थवृतिः | घट: पटात् पृथक्, घटे पृथक्त्वं, पटे अवधित्वं, अवधिकत्वं पृथक्त्वे | घटे पृथक्त्वं एक: भवति घटेन विशिष्यते | भेद: एव पृथक्त्वं इति नव्यनैयायिका: वदन्ति, पृथक्तवस्य का आवश्यकता | तेषां मतम् अनुसृत्य प्रुथगाश्र्याश्रित्तवौ न वदाम: परन्तु भिन्नाश्र्याश्रित्तवौ इति वदाम्श्चेत का हानि | घट: पटात् भिन्न: इति प्रतीतौ भेद: घटे अस्ति परन्तु स: भेद: घटेन न विशिष्यते | पटे प्रतियोगिता वर्तते | सा च प्रतियोगिता केन धर्मेण केन सम्बन्धेन अवछिद्यते तस्य पूर्व ज्ञानम् अपेक्षितम् | धर्मावच्छिन्नत्वं तादात्म्यसम्बन्धावच्छिन्नत्वं च प्रतियोगिताया: द्वे विशेषणे | धर्मावच्छिन्ना तादात्म्यसम्बन्धावच्छिन्ना च विशेषन्वाचकपदौ | भिन्न भिन्न पदार्थेषु प्रतियोगिता भिन्ना |
नव्यनैयायिकानं मतं, भेद: एव पृथक्त्वं इति स्वीकुर्मश्चेत आपादनं द्वयं उत्पद्यते |
“कपालभूतलयोः पृथगाश्रयाश्रितत्वेन तयौ: संयोगसम्भवेऽपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगजसंयोगोत्पत्तिः | न च गुणरुपस्य तस्य रुपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नीयतावधिकत्वे मानाभावात् भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यमिती वाच्यम् |”
प्रथमआपादनं “गुणरुपस्य तस्य रुपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्”
प्रथमे आपादने “तस्य” इत्युक्तौ पृथक्तवस्य मूर्तोत्पत्ति अनन्तरं द्वितीयक्षणे पृथक्त्वं गुणः यदा उत्पद्यते तत्र नियतावधिकत्वम् अस्ति | पूर्वपक्षिण: आक्षेपन्ति | अन्येषु गुणेषु नियतावधिकत्वं नास्ति | संयोगादय: गुणेषु नियतावधिकत्वं नास्ति | तेषु सिद्धगुणेषु निय्ताव्धिकत्वं नास्ति | पूर्वपक्षिणः मतम् अनुसृत्य पृथक्त्वं गुणः नास्ति, तादृशी स्वभाव: कस्यापि सिद्धगुनेषु न दृष्टः | भेदस्य तादृशी स्वभाव: दृष्टा: | पूर्वपक्षिण: वदन्ति नियतावधिकत्व कारणेन भेद: एव पृथक्त्वं | भिन्नप्रक्रियावशात् विभक्तिरूप भेद कारणेन अर्थभेदः नास्ति | भेद स्थले यथा घट: पटो न प्र्थमाविभक्ति प्रोक्तवयं, आश्रयभूतद्रव्येण घटेन न अवच्छिद्यते परन्तु अवधिभेदेन अवच्छिद्यते | घट: पटात पृथक् अत्र पञ्चमिविभक्ति अवधिवाचक पदं | पृथक्त्वं आश्रयभूतद्रव्येण अवच्छिद्यते घटविशिष्टम् |
द्वितीयम् आपादनं “भूतलावधिकत्वस्येवक कपालावधिकत्वस्यापि आवश्यकत्वात्”
नियतावधिकत्वात् पूर्वपक्षिणः वदन्ति पृथक्त्वं गुणः न , भेद: एव . परन्तु भेद: तु प्रतियोगिनं विहाय जगति सर्वत्र अस्ति यतोहि भेद: नित्यं सर्वपदार्थवृत्ति सप्तुषु पदार्थेषु | भेदः अन्योन्याभाव: नित्यं तथा तस्य कारणं न भवति . भेदः तु मूर्तौत्पत्ति द्वितीयक्षने जायमानः नास्ति . पृथक्त्वं मूर्तौत्पत्ति द्वितियक्षने जायमानः . गुणस्य तादृशी स्वभावः . गुणाः केवलं द्रव्ये भवन्ति पृथक्त्वं अपि तथा द्रव्येषु भवति | सर्वपदार्थवृत्ति तस्मिन् नास्ति
द्वितीयम् आपादनं “भूतलावधिकत्वस्येवे कपालावधिकत्वस्यापि आवश्यकत्वात्,” इति पूर्वपक्षिणाः आपद्यन्ते | ते वदन्ति नियतावधिकत्वं गुणरूपेण स्वीकुर्मश्चेत् यथा कपालभुतलयोः अवधिकत्वं तथा कपाल -घटयोः अपि पृथक्त्वं स्यात् |
कपालः कपलिकायां आश्रितः घटः कपाले आश्रियतत्वात प्रुथगश्र्याश्रितौ अथ: संयोगः भवितुं अर्हति | परन्तु सिद्धान्तिनाः वदन्ति तत् तु दोषपूर्णं संयोगापत्तिः कारणात् | भिन्नाश्रियतत्वात् पृथगाश्र्याश्रितौ न यथा एकस्मिन् एव देशे स्तः, अयुत्सिद्धौ न तु युत्सिद्धौ | संयोगस्य साधकं भवति युत्सिद्धत्वं – नाम पृथगाश्र्याश्र्यितौ , भिन्न देशे भवतु | घटकपालयो: यथा चिन्तयामः घटे कपालभेदः कपाले घटभेदः तु अस्ति , परन्तु ते एकस्मिन् एवे देशे स्तः तर्हि संयोगाप्तिः सर्वदा भवति | पृथक्त्वं भेद: भिन्नपदार्थौ स्त: | घटकपालयोः अयुतसिद्धत्वात् संयोगापत्तिः, इति सिद्धम्|
इदानीं चिन्तयामः परमाण्वोः स्थले का स्थिति | द्वयोः परमाण्वोः संयोगः भवति वा न | परमाणवः अनाश्रिताः पृथगाश्र्याश्रितौ न स्तः कथं संयोग: सम्भवति | अनाश्रिताः वदनेन यथा समवायिसम्बन्धेन आश्रयः नास्ति | स्वतन्त्रक्रियावत्वात् परमाण्वोः द्वयोः संयोगः जायते |