रक्षा-भगिन्याः व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/raksa-bhaginyahvyakhyanam
Jump to navigation Jump to search

पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति प्रसङ्गः | उभयवादिनः मतानां विश्लेषणं, निष्कर्षः च |

पृथक्त्वम् - पृथक्व्यवहारासाधारणं कारणं पृथक्त्वम् | सर्वद्रव्यवृत्ति |

भेदः - अन्योन्याभावः | तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः | सप्तपदार्थवृत्तिः |

प्राचीननैयायिकानां मतम् - पृथक्त्वम् अन्यतमः गुणः | अयं नवद्रव्यवृत्तिः | स्वसमवायिकारणे द्रव्ये एव वर्तते | गुणत्वात् द्रव्यभिन्नेषु पदार्थेषु अस्य अविद्यमानत्वम् | अतः भेदः इति अपरः पदार्थः आवश्यकः द्रव्यभिन्नपदार्थयोर्मध्ये वैलक्षण्यस्य ज्ञापनाय | पृथक्त्वम् इति द्रव्यस्थरे पृथक्-व्यवहारहेतुः |

नव्यनैयायिकानां मतम् - भेदः, पृथक्त्वं भिन्नौ पदार्थौ न | भेदस्य सप्तपदार्थवृत्तित्वात् सर्वत्र भेदेन निर्वाहः शक्यः पदार्थयोः मध्ये परस्परवैलक्षण्यस्य साधनार्थम्  | यत्र पृथक्त्वं नास्ति तत्रापि भेदस्य वृत्तित्वात् वैलक्षण्यज्ञानं सम्भवति | अतः भेदः एव पृथक्त्वम् | पृथक्त्वम् इति अन्यतमः गुणः न आवश्यकः |

संयोगस्य विषये किञ्चित्

- कर्मजः संयोगः, कर्मणा जातः संयोगः | संयोगजः संयोगः, संयोगेन जातः संयोगः | नियमः - अवयवसंयोगेन अवयविनि संयोगजः संयोगः जायते |

- अवयवगतक्रियया अवयवे मूर्तान्तरेण सह कर्मजः संयोगः | तदा अवयविनि अनेन कर्मजसंयोगेन संयोगजः संयोगः जायते |

- उदाहरणम् - घटस्य कपालस्य क्रियया कपालवृक्षयोः कर्मजः संयोगः | तदा अवयविनि घटे संयोगजः संयोगः वृक्षेण सह |

- न्यायशास्त्रे अवयवावयविनौ कारणकार्यौ भिन्नौ पदार्थौ | अतः अवयवे या क्रिया सा अवयविनि अपि अस्ति इति वक्तुं न शक्यते |

- अतः अवयवक्रिया अवयविनः संयोगं प्रति अन्यथासिद्धा | अवयविनि अवयवगताक्रियया न कर्मजः वा संयोगजः संयोगः जायते |

- अवयवावयविनोः मध्ये न कदापि संयोगः सम्भवति | तयोः समवायः एव | अवयवावयविभिन्नमूर्तान्तरेण सह एव संयोगः |


तर्हि संयोगः सम्भवति कुत्र ?

- युतसिद्धयोः एव संयोगः | न अन्यत्र | कौ युतसिद्धौ ? पृथगाश्रयाश्रितौ | कौ पृथगाश्रयाश्रितौ ? पृथक्त्ववन्तौ यौ आश्रयौ तौ आश्रितौ पृथगाश्रयाश्रितौ |

- पृथक्तवं ययोः तौ पृथक्त्ववन्तौ | पृथक्त्ववन्तौ आश्रयौ, तौ आश्रितौ पृथगाश्रयाश्रितौ | नाम पृथक्तया सिद्धौ | तौ एव युतसिद्धौ इति उच्यते |

- उदाहरणम् - वृक्षपक्षिणौ | तयोः आश्रयौ(अवयवाः) भिन्नौ | पृथगाश्रये स्थितौ यतोहि तयोः अवयवपरम्परा भीन्ना | तौ युतसिद्धौ | तयोः संयोगः |

- कौ अयुतसिद्धौ ? अवयवावयविभावापन्नौ, संयोगेन आधाराधेयभावापन्नौ, ययोः अवयवपरम्परा न भिन्ना, तौ अयुतसिद्धौ | तयोः संयोगः न सम्भवति |

संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम्

सिद्धान्ती = प्रचीननैयायिकाः | पूर्वपक्षी = नव्यनैयायिकाः/ सिद्धान्तीनां विरोधिनः |

- सिद्धान्ती वदति, पृथगाश्रयाश्रितयोः युतसिद्धयोः मध्ये एव संयोगः | संयोगार्थं पृथक्त्वम् इति विलक्षणः गुणरूपी द्रव्यवृत्ती पदार्थः नितरां आवश्यकः |

- पृथक्त्वं भेदः इत्यस्मात् भिन्नम् | अतः एव पृथगाश्रयाश्रितयोः घटभूतलयोः यथा संयोगः भवति तथाविधपृथगाश्रयाश्रितत्वस्य अभावत् घटकपालयोः संयोगः

 न कदापि सम्भवति | घटकपालौ यद्यपि भिन्नौ, नाम तयोः मध्ये परस्परं भेदः अस्ति, तथापि न पृथक्त्ववन्तौ इति प्रमुखः बिन्दुः |

- पृथक्त्वं कश्चन संयोगसाधकः गुणः | भेदः तथा नास्ति | अनेन पृथक्त्वभेदयोः परस्परवैलक्षण्यं सिद्धम् इति अभिप्रैति सिद्धान्ती |

- इमं सिद्धान्तीनाम् अभिप्रायम् अधिकृत्य एव पूर्वपक्षिणः आपादनद्वयस्य माध्यमेन स्वमतं प्रस्थापयन्ति | आपादनद्वयेन पुनः एकः दोषः आयाति |

- दोषः कः ? दोषस्य निमित्तं किम् ? तस्य समाधानं किम् ? इत्येषां विषयाणाम् अवगमनार्थं सिद्धान्तिभिः अवधेः विषयः उत्थापितः अस्ति |

अवधिः इति विषयः

अवधिः इति स्वरूपसम्बन्धविशेषः | "फलं वृक्षात् पतति" - ध्रुवमपायेऽपादानम् (२.४.२४) इत्यनेन अपाये (वियोगे) ध्रुववस्तुनः अपादानसंज्ञा, पञ्चमीविभक्तिश्च | न्यायशास्त्रे सावधिकाः पदार्थाः एते - पृथक्त्वं, भेदः, संयोगः, वियोगः | एषां प्रतीतौ अवधेः आकाङ्क्षा अस्ति इत्यतः एते सावधिकाः |

पृथक्त्वस्य स्थले अवधिः

"घटः पटात् पृथक्" -- अत्र घटपृथक्त्वस्य अवधिः पटः | घटे विद्यमानं पृथक्त्वम् एकमेव | तस्य बहवः अवधयः | अतः पृथक्त्वम् अनेकावधिकम् | पृथक्त्वं नियतावधिकम् अपि | यतः पृथक्त्वस्य प्रतीतौ नियमेन अवधिः भासते | पृथक्त्वम् आश्रयभेदेन भिद्यते | आश्रयस्य आधारेण अवधिसमुदायः कल्प्यते इत्यतः अवधिसमुदायभेदेन अपि पृथक्त्वं भिद्यते | द्रव्यस्य पृथक्त्वस्य अवधिः कुत्र कुत्र भवति ? द्रव्यस्य अवयवपरम्परायां यानि मूर्तद्रव्याणी सन्ति तेषु तस्य द्रव्यस्य पृथक्त्वस्य अवधित्वं नास्ति | अवयवभिन्नपदार्थेषु पृथक्त्वस्य अवधित्वम् अस्ति | अतः पृथकत्वं न निखिलावधिकम् |


भेदस्य स्थले अवधिः

"घटः पटात् भिन्नः" -- पटभेदः घटे | पटभेदस्य पटः अवधिः |  प्रतियोगी स्वस्मिन् तादात्म्येन स्थितः भवति | स्वं विहाय जगति सर्वत्र स्वस्य भेदः |

किन्तु भेदस्य प्रतियोगी एकः एव | भेदस्थले प्रतियोगी एव अवधिः | अतः भेदः एकावधिकः | भेदः नियतावधिकः पदार्थः | न निखिलावधिकः |


संयोगस्य स्थले अवधिः

"घटपटयोः संयोगः" -- संयोगः द्विनिष्ठः | प्रतीतिवशात् अवधिः आनीयते | तदा घटावधिकः संयोगः पटे वा पटावधिकः संयोगः घटे | एकस्मिन् अवधिः अपरस्मिन् संयोगः आरोप्यते | अस्य नियतावधिकत्वं नास्ति | निखिलावधिकत्वम् अपि नास्ति यतोहि स्वाश्रयावयवपरम्परायां स्थितेषु मूर्तद्रव्येषु संयोगस्य अवधित्वं न भवति | अपि च प्रतीतिवशात् अवधिः एकस्मिन् आश्रये स्वीक्रियते | न उभयत्र |


वियोगस्य स्थले अवधिः -- यथा संयोगस्य तथैव वियोगस्य स्थितिः | संयोगनाशकः विभागः (वियोगः) | स्वनाश्यसंयोगाश्रयावधिकत्वम् | निखिलावधिकत्वं न |


किमर्थम् अवधेः चर्चा ?

सिद्धान्ती --  कपालाभूतलयोः पृथगाश्रयाश्रितत्वात् संयोगः | तथाविधपृथगाश्रयाश्रितत्वस्य युतसिद्धत्वस्य अभावात् कपालघटयोः अयुतसिद्धयोः न कदापि    संयोगः | यद्यपि घटकपालयोः परस्परभेदः तु अस्ति तथापि तयोः परस्परपृथक्त्वं नास्ति (भिन्नाकशदेशस्याभावात्) | अतः न युतसिद्धत्वं, न वा संयोगः |


पूर्वपक्षी --  पृथक्त्वं भेदः एव, न अन्यतमः पदार्थः वा गुणः इति वादस्य सार्थक्यार्थम् आपद्नद्वयं करोति | आपादनद्व्यम् अधः |

१.) पृथक्त्वस्य नियतावधिकत्वात् पृथक्त्वम् अन्यतमः गुणः इति न अङ्गीक्रियते | रूपरसगन्धादिषु गुणेषु नियतावधिकत्वस्य अभावात् अयं  विचारः उत्पन्नः |

२.) नियतावधिकत्वे सत्यपि, पृथक्त्वं गुणः इति स्वीकारेण अवधिः कः इत्यस्य ज्ञानाभावे घटपृथक्त्वस्य भूतलावधिकत्वस्य इव कपालवधिकत्वम् अपि भवतु |


पूर्वपक्षिणः आपादनद्वयस्य अवगमनार्थं खण्डनार्थम्, आपादनेन निर्मितस्य दोषस्य निवारणार्थं च अवधेः ज्ञानम् आवश्यकम् | पूर्वपक्षिणः प्रथमापादने पृथकत्वं  भेदः एव इति आपत्तिः | पूर्वपक्षिणः द्वितीयापादने यत्र नियतावधिकत्वं तत्र निखिलावधिकत्वम् अपि स्यात् इति चिन्तनम् | अनेन एव घटभूतलयोः मध्ये यथा पृथक्त्वं तथा घटकपालयोः मध्ये अपि पृथक्त्वम् अस्ति इति आयाति | यतोहि निखिलावधिकत्वस्य चिन्तनेन घटं विहाय अन्यत् सर्वम् घटपृथक्त्वस्य अवधिः इति विचारः | कपालः अपि 'सर्वम्' इत्यस्यां श्रेण्याम् अस्ति, निखिलपदार्थघटितः | कपालः अपि अवधिः भवति इति चेत् घटकपालयोः पृथक्त्वम् | पृथक्त्वेन तयोः पृथगाश्रयाश्रितत्वम् | अनेन युतसिद्धत्वम् | युतसिद्धत्वेन घटकापालयोः संयोगः इति आपत्तिः | संयोगापत्तिः इति दोषः उभाभ्यां न इष्टः | सः निवारणीयः |


पूर्वपक्षिणः द्वितीयापदनस्य निवारणार्थं सिद्धान्तिनः विभागस्य उदाहरणं ददतः उत्तरयन्ति यत् विभागः अपि पृथक्त्वम् इव मूर्तोत्पत्तिद्वितीयक्षणे जायमानः | अस्य स्वनाश्यसंयोगाश्रयाश्रितत्वम् | विभागस्य प्रतीतिवशात् विभागः यद्यपि द्विनिष्टः तथापि एकत्र सः आरोपितः | तस्य अवधिः अपि एकस्मिन् अधिकरणे आरोपितः अपरस्मिन् निवारितः | अत्र निखिलावधिकत्वं नास्ति | तद्वत् पृथक्त्वम् | घटपृथक्त्वस्य अवधिः घटं विहाय सर्वत्र इति न स्वीकरणीयः | पृथकम् इति स्वं भवति चेत् स्वाश्रयावयवपरम्परायां यानि मूर्तानि अन्तर्गतानि तेषु पृथक्त्वस्स्य अवधिः न स्वीक्रियते | अतः पृथक्त्वस्य नास्ति निखिलावधिकत्वम् | यदा पृथक्त्वस्य निखिलावधिकत्वं निवारितं तदा घटकपालयोः, अवयवावयविभावापन्नयोः परस्परपृथक्त्वं निवारितम् | अनेन तयोः अयुतसिद्धत्वम् अपि साधितम् | अयुतसिद्धयोर्मध्ये संयोगः न सम्भवति इत्यतः संयोगापत्तिः निवारिता इत्यनेन संयोगदोषः यः उभाभ्यां न इष्टः सः अपगतः |

निगमनम्

घटकपालयोः परस्परभेदे अपि तयोः परस्परपृथक्त्वस्य अभावः इति स्पष्टम् | किन्तु घटभूतलयोः परस्परपृथक्त्वम् अस्ति येन संयोगः सम्भवति तयोर्मध्ये | अतः पृथक्त्वम् इति द्रव्यस्य कश्चन विशिष्टः गुणः | पृथक्त्वम् इति द्वयोः द्रव्ययोः मध्ये संयोगजनकम् | इदमेव संयोगजनककार्यं भेदेन न निर्वोढुं शक्यते इत्यतः पृथक्त्वं भेदात् विलक्षणम् | आहत्य, पृथकत्वं भेदः न इति निष्कर्षः |

परमाणुस्थरे संयोगस्य विचारः

- परमाणुः अनाश्रितः | अवयवाभावात् परमाणोः समावायेन न कोऽपि आश्रयः | अतः पृथगाश्रयाश्रितत्वं कथं सिध्यति परमाणूनाम् ? संयोगः च कथम् ?

- उत्तरम् अस्ति यत् परमाणुषु विद्यमानया स्वतन्त्रक्रियया परमाण्वोः मध्ये संयोगः सम्भवति | अतः परमाण्वोः मध्ये संयोगस्य अनुपपत्तिः इति न वाच्यम् |


मूर्तविभुसंयोगस्य विचारः

- विभवः निरवयविनः, इत्युक्ते समवायेन न कुत्रापि आश्रिताः | विभुमूर्तयोः मध्ये पृथगाश्रयाश्रितत्वस्य अभावः | तर्हि संयोगविभागौ कथं साधनीयौ ?

- उत्तरम् अस्ति यत् उपाधिभेदात् विभुद्रव्यस्य पृथकत्वं सिध्यति येन संयोगविभागौ च सिध्यतः मूर्तद्रव्यस्य सम्पर्केण | उदाहरणम् अधः |

- बालकः प्रकोष्टे | प्रकोष्टः उपाधिः | प्रकोष्टे यः आकाशः सः प्रकोष्टात् बहिः स्थितात् आकाशात् भिन्नः | बालकस्य प्रकोष्टात् बहिः गमनात् संयोगवियोगौ जातौ |


पूर्वपक्षी अधुना पृथगाश्रयाश्रितत्वस्य आधरेण वदेत् यत्, कपालः कपालिकायाम् (पृथगाश्रये) आश्रितः, घटः कापाले (पृथगाश्रये) आश्रितः, आश्रयौ पृथक् | अनेन पृथगाश्रयाश्रितत्वं सिद्धम् एव | पुनः घटकपालयोः संयोगापत्तिः | उत्तररूपेण सिद्धान्ती वदति यत् "समानदिग्भागव्यापिनां घटावयवपरम्परागतानां" परस्परपृथक्त्वं नैव सम्भवति | समानदिग्भागव्यापिनौ इत्युक्ते ययोः समानदिक् वा समानदेशः | पृथगाश्रयाश्रितौ इत्यस्मिन् पृथक्-शब्दस्य स्थाने भिन्न-शब्दस्य प्रयोगेण समानः अर्थः न प्रतीयते | "पृथक्" इति व्यवहारः तयोः एव भवति ययोः आकाशदेशः भिन्नः, याभ्याम् आकाशदेशौ द्वौ भिन्नौ व्याप्रियेते | आकाशदेशः भिन्नः इति अर्थः "भिन्नाश्रयाश्रितौ" इत्यनेन न सिध्यति इत्यतः "पृथक्व्यवहारासाधारणं कारणं पृथक्त्वम्" इति पृथक्त्वस्य लक्षणम् इति तात्पर्यम् | पृथक्-इति व्यवहारसाधनाय पृथक्त्वम् इति गुणः अपेक्षितः | अयं गुणः पृथक् इति व्यवहारं प्रति कारणं भवति | तादृशं कारणत्वं भेदे नास्ति | अतः पृथक्त्वभेदौ विलक्षणौ |


विभागे, विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे प्रतीयमानम् अवधित्वं, तादात्म्याद्यनेकपदार्थज्ञानाधीनज्ञानविषयः प्रतियोगिता अनयोः तुलना

अनया तुलनया अपि पृथक्त्वम् अतिरिक्तः गुणः, भेदः न, द्वावपि भिन्नौ पदार्थौ इति साधयिष्यते सिद्धान्तिभिः | "हस्तः वृक्षात् पृथक्" इत्यस्यां प्रतीतौ पृथक्त्वं हस्ते, वृक्षः अवधिः, वृक्षे अवधित्वम् | "हस्तः वृक्षात् भिन्नः" इत्यस्यां प्रतीतौ वृक्षभेदः हस्ते, वृक्षः प्रतियोगी (अवधिः), वृक्षे प्रतियोगिता (अवधित्वम् ) |


पृथक्त्वप्रसङ्गे अवधित्वं यत् प्रतीयमानं तस्य विशिष्टज्ञानं न अपेक्षितं यतः पृथक्त्वस्य आश्रयेण एव पृथक्त्वम् अवच्छिन्नम् | हस्तस्य पृथक्त्वं हस्तेन विशिष्यते यतोहि हस्ते एकमेव पृथकत्वम् | किन्तु एकस्मिन्नेव आश्रये बहवः भेदाः स्युः | भेदस्थले प्रतियोगिता या प्रतीयमाना तस्याः आधारेण एव भेदः स्वाश्रये स्थितः कीदृशः इति ज्ञायते, न अन्यथा | अतः प्रत्येकं भेदस्य प्रतियोगिता कीदृशी इति ज्ञातव्या | सा चा प्रतियोगिता तादात्म्यसम्बन्धावच्छिन्ना, स्वाश्रयस्य जात्या अपि अवच्छिन्ना भवति | वृक्षगता प्रतियोगिता वृक्षत्वावच्छिन्ना, तादात्म्यसम्बन्धावच्छिन्ना च | प्रतियोगिताज्ञानार्थम् इदं सर्वं पूर्वज्ञानमपेक्षितं येन प्रतियोगिता ज्ञाता भवति | तदा भेदस्य ज्ञानं जायते | पृथक्त्वज्ञानार्थं तावत् पूर्वज्ञानं न अपेक्षते | पृथक्त्वाश्रयस्य ज्ञानं पर्याप्तम् इति विश्लेषणेन पृथक्त्वं भेदः न इति स्पष्टं भवति |

आहत्य विभिन्नरीतिभिः पृथक्त्वभेदयोः वैलक्षण्यं प्रदर्श्य पृथक्त्वं च भेदः द्वौ भिन्नौ पदार्थौ, समानौ न इति समर्थयति सिद्धान्ती |