रामकृष्णमहोदयस्य व्याख्यानम्
पृथक्त्वभेदयोः परस्परवैलक्षण्यम् प्रसङ्गे वादविवादाः
चिन्तनार्हविषयेषु एकचित्तता सर्वेषां पण्डितानां दुर्लभा | तदुक्त्वा इदानीन्तन प्रसङ्गे पृथक्त्वभेदयोर्मध्ये मतद्वयमस्तीति विचित्रं नास्ति |
पृथक्त्वम् - पृथग्व्यवहारासाधारणकारणम् पृथक्त्वम्| रूपादि चथुर्विंशति गुणेषु अन्यतम: पृथक्त्वम् | नवद्रव्यवृत्तिरपि सावधिकं च | पृथक्त्वमिति गुणः द्रव्ये आरम्भतया न विद्यमानः द्वितीयक्षणे एव जायमानः यतः द्रव्ये प्रप्रथमे निर्गुणत्वमेव |अनित्यम् - द्रव्याद्यन्तपर्यन्तमेव भवति |
भेदः - सप्तसु पदार्थेषु अन्यतमः अभावः| तेषु चातुर्विधाभावेषु एकः अन्योन्याभावः |अयमेवअन्योन्याभावः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता|भेदः पृथक्त्वमिव सावधिकः |नित्यम् |
एतयोर्मध्ये वैलक्षण्यं प्रसङ्गे पूर्वनव्यनैयायिकानां चिन्तनम् सङ्क्षेपरूपेण सूचितम् |
पूर्व अपि च नव्य नैयायिकाः केषुचन विषयेषु अङ्गीक्रियन्ते परन्तु कदाचित् व्यतिरेक मतमनुसरन्ति |
तैः उभयैः अभिमन्यते यत् घटः पटः न घटः पटात् भिन्नः इत्यादौ प्रत्ययौ विद्यमानः पटाभावः |
पूर्वपक्षिणः आपादनद्वयं तदुपरि सिद्धान्तिनः प्रतिस्पन्दनं च दीयते |
अ )प्रथमापादनम्
'गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियताधिकत्वे मानाभावात् '
यद्यपि रूपादिगुणेषु नियतावधिकत्वं नास्ति प्र्थक्त्वे तदस्ति | अतः पृथक्त्वम् गुणः न | भेदः एव | पृथक्त्वस्य आवश्यकता कुत्र यतोहि भेदेन किं अनिर्वाहकम् ?
उत्तरमस्ति सिद्धान्तेः पृथक्त्तस्य गुणत्वम् अपि च तस्य अपेक्षा संयोगस्य कृते आवश्यकौ | मूर्तद्रव्यमपरस्यमूर्तद्रव्येण सह संयोगः जायते यदि युतसिद्धौ इत्युक्ते पृथकश्र्याश्रितौ द्रव्यौ स्तः |उदाहरणमस्ति तरुपक्षिणौ कयोः अवयवोः भिन्नौ स्तः | तौ अवयवौ अवयविनः आश्रयः स्वस्य अवयवान् यथास्व भरन्ते | युतसिद्धत्वस्तित्यामेव संयोगप्राप्तिः |
संयोगः द्विविधा - कर्मणा जायते कर्मजः संयोगः ; संयोगेन भवति सम्योगजःसम्योगः|संयोग नाशको गुणो विभागः| |द्वयोरपि द्विनिष्टः|
प्राचीननैयायिकाः एतादृशशैल्याम् वदन्ति यत् घटः पटो न (भेदस्थाले प्रतियोग्यनुयोगिवाचकपदयोः प्रथमा विभक्तिः) अपि च घटः पटात् पृथक् (अवधिवाचाकपदस्य पञ्चमी आश्रयवाचकपदस्य प्रथमा विभक्तिः) इति निर्बल प्रयासैव किल | नव्यनैयायिकाः एतं वादं निराकरोति यतः विभक्तिपरिवर्तनेन समानार्थकता न नश्यति |
घटकपालयोः भेदः सद्यपि तयोः संयोगः असम्भवः एकदेशीवृत्तिकारणात् | तथैव कपालकपालिकायां मध्ये संयोगः न जायते |
( परमाणु संयोगः भिन्नरीत्या जायते | परमाणुः अनाश्रितः |स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् द्वयोः परमाण्वोः संयोगस्तु भवति |)
संयोगस्याधारेण पृथक्त्वस्य आवश्यकता निरूपिता|
आ ) द्वितीयापादनम्
यदि पृथक्त्वम् गुणः इति अङ्गीक्रियते तदा भूतलावधिकस्येव कपालावधिकस्यापि अवश्यम् |
सिद्धान्तिना उच्यते तद्दोषतादवस्त्यम् इति न च वाच्यम् |नो चेत् घटकपालयोः संयोगः अपि जायते - इति अनुभवविरुद्धः अपि च द्वयोः अङ्गीक्रियते | इति आपत्तिः |
तद्दोषनिवारणार्थम् युतसिद्धत्वं वारणीयम् |कपालावधिकपृथक्त्वम् घटे नास्ति घटावधिकपृथक्त्वम् कपाले नास्तीति स्वीकरणीयम् | अवयवावयविनोः एकेकदेशीवृत्तित्वम् अपि स्वीकर्तव्यम् |युतसिद्धत्वाभावात् सम्योगदोषस्य निरासः प्राप्यते |
सिद्धान्तिना प्रतिपादयति यत् नियतावधिकः निखिलावधिकात् भिन्नः | निखिलावधिकः विश्वे कुत्रापि न वर्तते | भेदस्य (=अन्योन्याभावस्य ) अवधिः प्रतियोगी | विभागः द्विनिष्ठः परन्तु विभागस्य (अनेकावधेः ) उदाहरणे व्यवहारे अवधिकत्वं एकमेव| विभागस्य द्विनिर्दिष्ठत्वम् निर्दिष्टमिति ज्ञात्वा अपि व्यवहारे वदामः - फलं वृक्षात् पतति इति|कदापि विपरीतरीत्या न श्रूयते| क्रिया इत्युक्ते वृक्षावधिकं पतनं फले अस्ति |
उपसंहारमस्तीति ग्रन्थकारस्य मननं साक्षादनुक्तमपि पूर्वपक्षिमतम् 'पृथक्त्वम् अतिरिक्तः गुणः इति' प्रणीति |
रामकृष्णः