रत्ना-भगिन्याः व्याख्यानम्
पारिभाषिकशब्दाः
कर्मजः संयोगः, संयोगजः संयोगः
“हस्तपुस्तकयोः सम्योगः” - एतस्मिन् उदाहरणे
कर्मजः ⇒ हस्तपुस्तकसंयोगक्रियया/कर्मणा जातः संयोगः कर्मजः |
सम्योगजः ⇒ हस्तपुस्तकसंयोगेन कायपुस्तकसम्योगः जातः | एषः (कायपुस्तकसंयोगः) संयोगः संयोगजः |
अन्यथासिद्धः
यः एकस्य साक्षात् कारणं न किन्तु एकस्य कारणस्य कारणं |
कुलालः घटस्य कारणम् | कुलालस्य पिता कुलालस्य कारणम् | पिता घटस्य कारणं नास्ति | किन्तु पिता घटस्य अन्यथासिद्धः |
युतसिद्धौ
(युत = पृथक् सिद्धः =द्रव्यम् अवयवसंयोगेन सिध्यति )
युत अवयवाः सन्ति द्वयोः | अनेन तौ युतसिद्धौ |
यौ पृथक् स्तः | यौ भिन्नदेशे स्तः | ययोः संयोगः सम्भवः |
हस्तः पृथक् पुस्तकं पृथक् | एतयोः संयोगः सम्भवः | एतौ युतसिद्धौ | संयोगः युतसिद्धयोः एव भवति |
किन्तु हस्तः शरीरात् पृथक् न | एतयोः संयोगः असम्भवः | एतौ अयुतसिद्धौ | संयोगः अयुतसिद्धयोः न भवति |
(पुनस्स्मरणम् - अवयवावयविनोः समवायसम्बन्धः|)
आश्रयः आश्रितः
आश्रयः = आधारः
आश्रितः = आधेयः (यः आश्रये अस्ति)
अवयवः/अवयवसमूहः अवयविनोः आश्रयः|
उदाहरणानि -
घटः (स्वावयवे) कपाले आश्रितः | कपालः घटस्य आश्रयः |
शरीरं स्वावयवे आश्रितः | शरीरस्य अवयवाः शरीरस्य आश्रयः (आश्रयाः) |
प्रुथगाश्रयाश्रितौ
“पक्षी वृक्षे अस्ति |” इत्यस्मिन् उदाहरणे -
पक्षी स्वावयवे आश्रितः | पक्षिणः अवयवाः पक्षिणः आश्रयः |
वृक्षः स्वावयवे आश्रितः | वृक्षस्य अवयवाः वृक्षस्य आश्रयः |
पक्षिणः आश्रयः पृथक् वृक्षस्य आश्रयः पृथक् | पक्षी पृथक् आश्रितः वृक्षः पृथक् आश्रितः |
यः पृथगाश्रये भवति/स्थितः सः पृथगाश्रयाश्रितः |
यौ पृथगाश्रययोः आश्रितौ (स्तः) तौ पृथगाश्रयाश्रितौ |
यौ भिन्नदेशयोः स्तः |
पृथगाश्रयाश्रितौ = युतसिद्धौ
भिन्नाश्रयाश्रितौ
भिन्नः = समानः न
यः भिन्नाश्रये भवति/स्थितः सः भिन्नाश्रयाश्रितः |
यौ भिन्नाश्रययोः आश्रितौ (स्तः) तौ भिन्नाश्रयाश्रितौ |
उदाहरणम् -
शरीरं भिन्नं हस्तः भिन्नः | हस्तः शरीरात् पृथक् न (इत्युक्ते भिन्नदेशौ न स्तः) किन्तु शरीरं हस्तः समानौ पदार्थौ न, तौ भिन्नौ | तौ भिन्नाश्रयाश्रितौ किन्तु प्रुथगाश्रयाश्रितौ न |
एकावधिकव्तम्
यस्य एकः एव अवधिः |
- भेदस्य
अनेकावधिकत्वम्
- संयोगस्य
- वियोगस्य
- पृथक्व्तस्य
नियतावधिकत्वम्
यस्य विषयस्य प्रतीतौ नियमेन अवधिः भासते तस्य नियतावधिकत्वम् |
यदि प्रतीतेः अवधेः आवश्यकता नास्ति चेत् नियतावधिकत्वम् नास्ति |
उदा - पृथक्त्वस्य अवधिः प्रतीतौ सर्वदा भासते अतः पृथक्त्वम् नियतावधिकम् | इत्युक्ते कस्मात् पृथक् इति वक्तव्यम् |
- पृथक्त्वस्य
- भेदस्य
निखिलावधिकत्वम्
स्वं विहाय जगति सर्वे अवधयः |
कस्यापि नास्ति निखिलावधिक्त्वम् | केवलं चर्चार्थं स्वीकृतम् |
संयोगः
संयोगः द्विनिष्ठः |
उदा - हस्तपुस्तकसंयोगः भवति चेत् संयोगः इति गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति | हस्तावधिकसम्योगः पुस्तके पुस्तकावधिकसम्योगः हस्ते |
संयोगः युतसिद्धयोरेव भवति | उदा - घटभूतलयोः संयोगः सम्भवः |
अयुतसिद्धयोः संयोगः असम्भवः | उदा - घटः घटस्य स्वस्य कपालस्य च संयोगः असम्भवः |
घटः (आश्रितः)
↑
कपालः (आश्रयः आश्रितः च )
↑
कपालिका (आश्रयः आश्रितः च )
↑
परमाणुः (आश्रयः) अवयवपरम्परया परमाणुः कपालिकायाः कपालस्य घटस्य च आश्रयः | अतः घटः कपालः च पृथगाश्रयाश्रितौ न | तौ भिन्नदेशयोः न स्तः | तयोः संयोगः न भवति |
विभागः
विभागः द्विनिष्ठः |
उदा - हस्तपुस्तकयोः विभागः भवति चेत् विभागः इति गुणः हस्ते अपि अस्ति पुस्तके अपि अस्ति |
स्वभावतः अवधिः न भासते | प्रतीतेः वशात् अवधिः भासते |
उदा - हस्तः पुस्तकात् विभक्तः | “हस्ते यः विभागः अस्ति तस्य अवधित्वं पुस्तके अस्ति” इति प्रतीतेः वशात् ज्ञायते |
विभागः संयोगस्य नाशकः |
भेदः
प्राचीनाः नूतनाः च अङ्गीकुर्वन्ति -
भेदः = भिन्नः = समानम् न
भेदः नित्यः
भेदः गुणः न |
भेदः अन्योन्याभावः |
भेदः सप्तसु पदार्थेषु भवति |
पृथक्त्वम्
प्राचीनानां मतम्
पृथक् = भिन्नदेशे भवति
पृथक्त्वम् गुणः | अतः द्रव्ये एव वर्तते | अन्येषु षत्सु पदार्थेषु न |
नवीनानां मतम्
पृथक्त्वम् = भेदः
भेदः एव पृथक्त्वम् | पृथक्त्वम् गुणः न |
इत्युक्ते “पृथक्त्वम् सप्तसु पदार्थेषु अन्यतमः | पृथक्त्वम् सप्तसु पदार्थेषु वर्तते |” इति |
अवधिः, अवधिकः
“वृक्षात् फलं पतति |” इत्यस्मिन् उदाहरणे -
फले क्रिया अस्ति | फले विभागः अस्ति |
वृक्षे क्रिया नास्ति | वृक्षे अपि विभागः अस्ति | (विभागः द्विनिष्ठः |) फलविभागस्य अवधिः वृक्षे अस्ति | वृक्षः अवधिकः | (“क” प्रत्यय संयोगेन विशेषः भवति | अवधिकः इति अत्र वृक्षस्य विशेषणम् |)
“वृक्षात् फलं पृथक् |” इत्यस्मिन् उदाहरणे -
अवधिकत्वम्
↑
पृथक्त्वम् = अवधिकम् =सावधिकम् अवधित्वम्
↑ ↑
फलम् वृक्षः (अवधिः)
पृथक् = सावधिकपदार्थः | इत्युके कस्मात् पृथक् (=अवधिः कः?) इति सर्वदा वक्तव्यम् (सम्पूर्णम् अवगमनार्थम् )|
पृथक्त्वम् = वृक्षावच्छिन्ना, पुस्तकावच्छिन्ना, नद्यावच्छिन्ना, गृहावच्छिन्ना, वाहनावच्छिन्ना….
↑
फलम्
“हस्तः पुस्तकात् भिन्नः |” इत्यस्मिन् उदाहरणे -
पुस्तकभेदः (=पुस्तकान्योन्याभावः) पुस्तकत्वम् ↔ प्रतियोगिता ↔ तादात्मीयसम्बन्धः
↑ ↑ ↑ ↑
हस्तः पुस्तकम् (प्रतियोगी)
पुस्तकभेदः, गृहभेदः, वाहनभेदः, शिलाभेदः, पर्णभेदः, लेखनिभेदः, वस्त्रभेदः…….
↑
हस्तः
भेदः एव पृथक्त्वम्” इति आक्षेपस्य निरासः
नूतननय्यायिकानां (पूर्वपक्षिणः) मतम् अधोलिखितम्
भेदः एव पृथक्त्वम् | पृथक्त्वम् इति गुणः न किन्तु अन्योन्याभावः एव |
- रूपं न रसः इति प्रतीतौ, पृथक्त्वम् गुणः इति स्वीकुर्मः चेत् अत्र गुणः गुणे अस्ति इति आपत्तिः भवति , तत् कोऽपि न अङ्गीकुर्वन्ति | (= गुणः गुणे न वर्तते |)
- रसभेदः रूपे अस्ति इति सर्वे अङ्गीकुर्वन्ति | (भेदः गुणे वर्तते |)
अधोलिखितयोः वाक्ययोः -
- घटः पटः न | - प्रतियोगिनः अनुयोगिनः च प्रथमाविभक्तिः भवति |
- घटः पटात् पृथक् | - अवधिवाचकस्य पञ्चमिविभक्तिः आश्रयवाचकस्य प्रथमाविभक्तिः भवति |
किन्तु अत्र केवलं व्याकरणे भिन्नता अस्ति किन्तु अर्थः समानः | पदभेदेन अर्थभेदः न भवति | यथा डुकृण् धातुः सकर्मकः यत् धातुः अकर्मकः किन्तु एतयोर्मध्ये अर्थभेदः नास्ति | केवलः व्याकरणे भेदः अस्ति |
पूर्वपक्षिणः (नूतननय्यायिकानां ) आपादानद्वयं
नूतनानां मतमस्ति यदि भेदः पृथक्त्वम् भिन्नौ स्तः इति स्वीकुर्मः चेत् -
गुणरूपस्य तस्य (पृथक्त्व्स्य) रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिक्त्वे मानाभावात्
- द्रव्यं कारणं, कार्याधिकरणं च गुणस्य | मूर्तद्रव्यस्य उत्पत्तेः प्रथमक्षणे द्रव्यं निर्गुणं भवति |
- द्वितीयक्षणे तस्मिन् (निर्गुणद्रव्ये) गुणः जायते |
- रूपं रसः गन्धः संयोगः विभागः इत्यादयः गुणाः (ये गुणान् पूर्वपक्षिणः सिद्धान्तिनः च स्वीकुर्वन्ति) नियतावधिकाः न | (एते सिद्धगुणाः इति अपि वदन्ति |)
- किन्तु पृथक्त्वम् नियतावधिकम् | अन्यः कः यस्य नियतावधिकत्वमस्ति? भेदस्य नियतावधिकत्वमस्ति | यस्य नियतावधिकत्वमस्ति गुणः न सः भेदः | अतः पृथक्त्वम् गुणः इति अनङ्गीकारः |
- पूर्वपक्षिणा सिद्धगुणेषु सावधिकत्वम् अङ्गीकृतं किन्तु नियतावधिकत्वं अनङ्गीकृतम् |उदा - संयोगः सावधिकः, एषः गुणः इति स्वीकृतम् |
- भूतलावधिकत्वस्येव कपालावधिकत्व्यस्यापि आवश्यकत्वात्
- यदि पृथक्त्वं गुणः इति स्वीकुर्मः तर्हि घटपृथक्त्वे भूतलावधिक्त्वम् इव कपालावधिकत्वम् अपि स्यात्, किन्तु तथा नास्ति | अतः पृथक्त्वं गुणः इति न अङ्गीकुर्मः |
सिद्धान्तिनः एतयोः आक्षेपस्य निरासस्य तर्कः अधोलिखितः -
I. “घटकपालयोः संयोगः न भवति” इति द्वयोः (सिद्धान्तिनः पूर्वपक्षिणः च ) अङ्गीकारः | एषः बिन्दुः द्वितीयापादनस्य निवारणार्थम् आधारः |
II. यदि संयोगः असम्भवः तर्हि घटकपालयोः युतसिद्धत्वं नास्ति | (यदि संयोगः भवति चेत् युतसिद्धत्वमस्ति |)
III. युतसिद्धत्वं नास्ति चेत् पृथक्त्वावधिकमपि नास्ति | अतः कपालावधिकपृथक्त्वम् घटे घटावधिकपृथक्त्वम् कपाले नास्ति इति स्वीकरणीयम् |
IV. किन्तु कपालवधिकभेदः घटे घटावधिकभेदः कपाले अस्ति किन्तु संयोगः न जायते एतयोः | अतः पृथक्त्वभेदयोः वैलक्षण्यं संपन्नम् |
सारांशः भेदस्य पृथक्त्वस्य च
भेदः पृथक्त्वम् न |
# | पृथक्त्वम् | भेदः |
1 | एकः गुणः | अन्योन्याभावः |
2 | बहवः अवधयः | एकः अवधिः |
3 | आश्रभेदेन भिद्यते | आश्रयभेदेन न भिद्यते |
4 | अवधिसमुदायेन भिद्यते | अवधिभेदेन भिद्यते |
5 | एकस्मिन् द्रव्ये भवति | प्रतियोगिनं विहाय सर्वत्र भवति |
6 | एकत्र (आश्रभूतद्रव्ये) वर्तते | बहुत्र वर्तते (प्रतियोगिनं विहाय जगति सर्वत्र) |
7 | अनित्यः (द्रव्यस्य गुणः, अतः द्रव्यस्याद्यन्तयोः अवलम्बते) | नित्यः (उदा - पुस्तकत्वं कदापि गुहायां न भवति, पुस्तकभेदः गुहायां सर्वदा वर्तते, यदा पुस्तकम् नासीत् तदापि पुस्तकत्वं गुहायां न आसित्) |
8 | अवधित्वस्य ज्ञानम् न अपेक्षितम् (अवधिः कः इति अपेक्षितं किन्तु अवधित्वं केन भिद्यते, विशिष्यते इति
न) |
प्रतियोगितायाः ज्ञानम् अपेक्षितम् (प्रतियोगिता केन अवच्छिद्यते इति, प्रतियोगिताकः भेदः) |
9 | नियतावधिकत्वम् | नियतावधिकत्वम् |
10 | साकङ्क्षः (अवधिः कः?) | साकङ्क्षः (प्रतियोगिता का?) |
11 | निखिलावधिकत्वम् नास्ति | निखिलावधिकत्वम् नास्ति |