सावित्री-भगिन्याः व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/savitri-bhaginiyAHvyakhyAnam
Jump to navigation Jump to search

भेदस्य पृथक्त्वस्य च कः विशेषः?


पदार्थानाम् परस्पर  भेदः अथवा अन्योन्याभाव: वर्तते | सर्वोऽपि पदार्थाः तादात्म्येन स्वस्मिन् भवति, स्वं विहाय तस्य अन्योन्याभावः सर्वत्र वर्तते | भेदः  सर्वपदार्थ वृत्तिः - यथा अभावः सर्वपदार्थ वृत्तिः | न्यायशास्त्रे सप्तपदार्थेषु  अन्यतमः अभावः | व्यवहारे “घटः पटो न” इति प्रयोगः |


पृथक्त्वम् द्रव्ये एव भवति, न तु गुणादौ - नवद्रव्य वृत्तिः | पृथक् इति शब्दप्रयोगः पृथक् व्यवहारस्य  असाधारणं कारणमस्ति | व्यवहारे “घटः पटात् पृथक्" इति प्रयोगः |


भेदः यः सर्वपदार्थवृत्तिः - तस्मात् पृथक्त्वस्य वैलक्षण्यं सूचितं  सिद्धान्तिभिः | ग्रन्थकारः प्रचिनानां  मतम् अङ्गीकरोति | तदर्थं सिद्धान्ती इत्युक्ते ग्रन्थकारः एव अस्मिन् लेखने |


भेदः एव पृथक्त्वम् इति अक्षेपस्य निरासः


पूर्वपक्षी सिद्धन्तिनः मतं न अङ्गीकरोति  | पूर्वपक्षिणः मतम् एवम् अस्ति - भेदः एव पृथक्त्वम् - पृथक्त्वम् इति अतिरिक्तः गुणः न अपेक्षितः यतोहि भेदः सर्वपदार्थ वृत्तिः - पृथक्त्व स्थले अपि कार्यं  करोति |

“घटः पटो न” | “घटः पटात् भिन्नः” | इति प्रत्ययोर्मध्ये यत्  वैलक्षण्यं अस्ति - तत्तु व्याकरण विषयः एव, अर्थ भेदः नास्ति  | यथा कृञ्: अपि च यत् धातोः प्रयोगे विभक्ति भेदः भवति परन्तु अर्थ भेदः न भवति | अत्र भेदपृथक्त्वयो: व्याकरणेन अर्थबोध: न जायते इति विषय:|


सिद्धान्ती प्रतिपादयति यत् अवयव - अवयविनोर्मध्ये कर्मज: वा संयोगज: वा संयोगः न भवति - पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोरेव संयोगः संभवति - यथा शरीरम् तरु: च | घटकपालयोः संयोगः न संभवति - तौ अयुतसिद्धौ | अत्र द्वयोः पक्षयोः अङ्गीकारः अस्ति |


अत्र एवमुक्त्वा सिद्धान्ती प्रदर्शयति यत् यदि भेदः एव पृथक्त्वम्  इति चेत् - भिन्नाश्रयाश्रितयो: अपि संयोगः भवेत् - इति कृत्वा घटकपालयोर्मध्ये अपि संयोगः भवेत् - इदं तु अनुभवविरुद्ध: विषयः - तदर्थं पृथक्त्वम् इति नूतन गुणः यः युतसिद्धयोः द्रव्ययो: एव भवति |


पृथक्त्वम् भेदः च भिन्नौ इति स्वस्य सिद्धान्तस्य दृढी करणार्थम् बहु-विध पूवपक्षेः आपादनानि चिन्तितानि, आरोपितानि, तेषां समाधानानि अपि दत्तानि ग्रन्थकारेण |

यत्र यत्र पृथक्त्वस्य प्रतीतिर्भवति - तत्र तत्र पञ्चमि विभक्तेः प्रयोगः भवति एव, अवधिः भासते एव | इति संमतम्| पृथक्त्वम् नियतावधिकः इति अविवादक: - अत्र द्वयोः अङ्गीकार: अस्ति | भेदस्थले अपि, पञ्चमि विभक्तेः प्रयोगः भवति अपि च  भेदः अन्योन्याभावः एव इति कृत्वा तस्य अवधिः प्रतियोगी एव  | भेदः अपि नियतावधिकः इति संमतः  |


पूर्वपक्षिणः प्रथमं आपादनं -  रूपरसगन्धस्पर्शसंयोगः इत्यादयः  गुणाः परिशीलिताः | तेषु  एकः  अपि नियतावधिकः न | परन्तु भेदः नियतावधिकः सर्वपदार्थ वृत्तिः | तदर्थं पृथक्त्वम् भेदः एव - न अन्यतमः गुणः |

द्वितीयम् आपादनं - यदि पृथक्त्वम् गुणः इति स्वीकुर्मः, तदा भूतलावधिकस्येव कपालावधिकस्यापि आवश्यकता भवति यतोहि कोपि नियमः न स्थापितः | तथा स्वीकुर्मः चेत्, घतकपालयोः  संयोगः अपि जायते - य: अनुभवविरुद्धः अपि च  द्वयोः अङ्गीकारः अस्ति | इति आपत्तिः |


सिद्धान्तिना समाधानम् एवं दत्तं अस्ति -

नियतावधिकः इत्युक्ते निखिलावधिकः न| विश्वे कोपि पदार्थः निखिलावधिकः न  - अतः सः काल्पनिक प्रत्ययः एव | भेदः(नियतावधिकः पदार्थः) अपि निखिलावधिकः न - भेदस्य (अभावस्य) अवधिः प्रतियोगी एव | विभागस्य उदाहरणम् ( यः नियतावधिकः पदार्थः न) अपि स्वीक्रीयते | विभाग: द्विनिष्टः,  परन्तु व्यवहारे तस्य किञ्चित् अवधिकत्वं स्वीक्रीयते, अपि च किञ्चित् निश्कास्यते, यथा “फलं वृक्षात् विभक्तः” इति स्तिथौ  - प्रत्ययवशात् वृक्षावधिकः विभागः फले (फलावधिकः विभागः फले इति न) | तथैव पृथक्त्वस्थले किञ्चित् अवधिकत्वं स्वीक्रीयते अपि च किञ्चित् निश्कास्यते | पृथक्त्वम् इति द्वितीयादिक्षणे (द्रव्ये) जायमानं (गुणः) स्वाश्रयसमवायिकारणपरम्परायाम् परमाण्वन्तं  यन्मूतं तदतिरिक्तावधिकमेव  जायते  (न सर्वत्र, यथा भेदः), इति स्वीक्रीयते  | अतः  पृथक्त्वम् भेदः न - अतिरिक्त: नियतावधिक: गुणः | एवं उक्त्वा अपादनद्वयस्य युगपत् निरासः कृत: सिद्धान्तिना |


यदि पूवपक्षी  चिन्तयति यत् -  परमाण्वोः  समवायेन आश्रयः नास्ति  तदर्थं तेषां संयोगः न जायते, सिद्धान्ति वदति तथा न वक्तव्यं - परमाणुद्वयस्य संयोगः स्वतन्त्रक्रियावत्वेन (भिन्नदेशस्तत्वेन) प्रमाणितम् भवति यद्यपि तेषां अवयवाः न सन्ति |

पूवपक्षिणः  मनसि यदि संशयः अस्ति यत् मूर्तविभु द्रव्ययोर्संयोगः कथं संभवति तयोः युतसिद्धत्वं नास्ति - तर्हि सिद्धान्ति वदति मूर्तविभुद्रव्यस्यापि - एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगः जायते |


पृथक्त्वस्य इतोऽपि स्पष्टी करणाय सिद्धान्ति एवं प्रतिपादयति - समानदिग्भागव्यापिनां  दिगुपाधिभूतानां परस्परावधिकत्वं न स्वीकर्तव्यम् यतोहि ते सर्वे समान देशे वर्तन्ते - पृथक्त्वस्य कृते भिन्नदेशत्वं अपेक्षितम् | यदा भेदस्य प्रतियोगिता अपि च पृथक्त्वस्य अवधित्वं तयोः तुलना क्रियते, तदा स्पष्टं भवति प्रतियोगितायाः ज्ञानार्थं बहु किमपि पूर्वम् ज्ञातम् भवति - तादात्म्य संबन्धावच्छिन्न धर्मावच्छिन्न पदार्थ ज्ञानम् अपेक्षितं भवति (ज्ञानाधीन)| तत् ज्ञानम् अवलम्ब्य प्रतियोगिता ज्ञानम् उद्भवाति | परन्तु पृथक्त्वस्य अवधित्वस्य ज्ञानार्थं भिन्नदेशत्वम्  एव अपेक्षितं (साक्षात्)| सारल्येन पृथक्त्वस्य ज्ञानं भवति |


यद्यपि संयोगस्य विषये पूर्वपक्षिणः मतं न उपलभ्दं  - तथापि तेषां सर्वविध-आपादनानि चिन्तितानि , समधानानि दत्तानि , प्राचीनानां मतं सूक्ष्मबुध्या विचारितं ग्रन्थकारेण  |

एवं रीत्या ग्रन्थकारेण भिन्न भिन्न प्रत्ययान् (a.विभक्ति भेदेन, b.अवधिचिन्तनेन/प्रतियोगिना, c.नियतावधिकत्वेन \ निखिलावधिकत्वेन , d.युतसिद्धत्वेन, e.पृथगाश्रयाश्रितत्वेन, f.स्वतन्त्रक्रियावत्वेन, g.दिगुपाधिभूतत्वेन) स्वीकृत्या, प्रमाणेन / उदाहरणेन, अन्ततो गत्वा पृथक्त्वस्य भेदरूपता निवारिता एव |