सव्यसाची-महोदयस्य व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/savyasaci-mahodayasyavyakhyanam
Jump to navigation Jump to search

भेदः एव पृथक्त्वं इति आक्षेपस्य निरासः”


परिचयः


प्राचिनानां मतं पृथक्त्वं भेदश्च भिन्नौ स्तः, नव्य न्यायायिकानां मतं भेदः एव पृथक्त्वं | विद्याधरी पुस्तकस्य ग्रन्थकारः वदति “भेदः एव पृथक्त्वं इति आक्षेपस्य निरासः”| प्रथमे पश्यामः भेदः इत्युक्ते किं, पृथक्त्वं इत्युक्ते किं | उदाहरण स्वीकृत्य पश्यामः चेत भेदस्य प्रतीतिः एवं भवति “घटः पटो न” अथवा “घटः पटात् भिन्नः”| अत्र पट भेदः घटे अस्ति, पटः प्रतियोगो, घटः अनुयोगी| भेदः इति अन्योन्याभावः, प्रतियोगिनिं विहाय सर्वत्र भवति, तर्हि भेदः नित्यः, सर्व पदार्थवृत्तिः| प्रुथक्त्वस्य प्रतीतिः एवं भवति “घटः पटात् पृथक्”| पृथक्त्वं तु सर्वत्र न भवति| भिन्न देशे स्थितौ द्रव्ये भवति| प्राचिनानां मतं पृथक्त्वं अन्य एक गुणः, भेदः पृथक्त्वं समानं नास्ति | परन्तु नविनानां मतं तथा नास्ति, भेदः एव पृथक्त्वं ते वदन्ति | प्राचिनानां वदन्ति, भोः पश्यतु, भेदः स्थले प्रतियोगी अनुयोगीवाचकपदयोः प्रथमा विभक्ति भवति, एवं प्रुथक्व स्थले अवधिवाचक पदात् पञ्चमी, आश्रयवाचक पदात् प्रथमा, तर्हि भेदः एव पृथक्त्वं इति’ न वदेम | नविनानां वदन्ति पदभेदस्य अर्थ भेदः न भवति खलु, मया न अन्गिक्रियते इति अरोप्यन्ति | विद्याधरी पुस्तकस्य ग्रन्थकारः विश्लेषण रूपे उपस्थापनं करोति “भेदः एव पृथक्त्वं इति आक्षेपस्य निरासः” | एतत् विषये अग्रे परिषिलयामः |


ग्रन्थकारस्य विषयः संयोगः


घटकपालयोः पृथक्त्वं नास्ति परन्तु भेदः तु अस्ति इति वयं जानीमः | परन्तु घटकपालयोः संयोगः भवति वा? यत्र प्रुथगाश्र्याश्रितः अस्ति तत्र संयोगः भवति | प्रुथकश्र्याश्रितः इत्युक्ते कपालः तादात्म्य संवधेन स्वस्मिन् स्थित्वा घटः उत्पादयति, घटः कपाले आश्रितः अस्ति | घट कपालयोः प्रुथकश्र्याश्रितः नास्ति, तर्हि संयोगः न भवति | परन्तु घटभुतलयोः संयोगः भवति, किमर्थम्? घटभुतलयोः प्रुथकश्र्याश्रितः अस्ति, तर्हि संयोगः भवति|


अवधिः


विभागस्य उदाहरण स्वीकृत्य अवधिः किं इति परिशीलयामः| संयोगः इव विभागः अन्य गुणः| फलं वृक्ष्यात् पतति इति वदनेन विभागः फले अपि वृक्षे अपि, विभागः द्विनिष्ठः| फलं पतति, फले क्रिया अस्ति, वृक्ष्यात् पतति, तर्हि वृक्षः अवधिः, यत्र क्रिया नास्ति तत् अवधिः | भेद स्थले प्रतीतिः अस्ति “घटः पटात् भिन्नः”, पटः अवधिः (प्रतियोगिता आधारे)| पृथक्त्वं स्थले “घटः पटात् पृथक्”, पटः अवधिः, पटे अवधित्वं अस्ति, पटावाधिकपृथक्त्वं घटे अस्ति (अश्रयाधरे) | अवधिः वहुत्र भवितुं अर्हति, भेदः, पृथक्त्वं, एवं विभागः स्थले | प्रश्नः अस्ति कुत्र अवधिः प्रतितौ भासते? तत्र नियतावधिकत्वम् इति वदामः


नियतावधिकत्वम् कुत्र अस्ति?


यत्र अवधिः प्रतितौ नियमेन भासते तदा नियतावधिकत्वम् अस्ति इति वदामः | भेद एवं पृथक्त्वं स्थले अवधिः नियमेन भासते | भेद स्थले “घटः पटात् भिन्नः”, पटः अवधिः, पृथक्त्वं स्थले “घटः पटात् पृथक्”, पटः अवधिः | परन्तु संयोग, विभाग स्थले प्रतीतिः नियमेन न भासते | “फलं वृक्ष्यात् विभक्तः” वदामः चेत् विभागः उभयत्र अस्ति फले अपि, वृक्ष्ये अपि, तर्हि द्विनिष्ठः| अनय्रित्या वृक्ष्यावधिक विभागः फले अस्ति अपि वक्तुं शक्नुमः, तर्हि अत्र वृक्ष्यः अवधिः | विभाग स्थले नियमेन न भासते, परन्तु अन्यरित्या वक्तुं सक्नुमः | संयोगः तथा, हस्तपुस्तकयोः संयोगः वदामः चेत् संयोगः उभयत्र अस्ति | परन्तु “हस्तावधिक संयोगः पुस्तके अस्ति” इति वदामः चेत् हस्तः अवधिः


निखिलावधिकत्वं कुत्र अस्ति?


स्वं विहाय जगति सर्वत्र अस्ति चेत् निखिलावधिकत्वं वदामः | प्रुथक्त्वस्य उदाहरणे “घटः पटात् पृथक्”, पृथक्त्वं घटे, अवधिः पटः, पटावधिक पृथक्त्वं घटे अस्ति | एवमेव कृत्वा वक्तुं सक्नुमः यत् पर्थ्कत्वं घटे अस्ति, तस्य अवधिः वृक्ष्य, पुस्तकः, पर्वतः, जगति सर्वे पदार्थाः भवितुं अर्हन्ति | इदानीं पश्यामः कपालः, घटस्य अवयवः, कपालावधिकप्रुथक्त्वं घटे अस्ति वा? नास्ति, तर्हि पृथक्त्वे निखिलावधिकत्वं नास्ति | संक्षेपेण वदामः चेत् निखिलावधिकत्वं संयोगः, विभागः, एवं भेद स्थले अपि नास्ति |


अनेकावधिकत्वं कुत्र अस्ति?


अवधिः अनेकाः भवितुं अर्हन्ति चेत् अनेकावधिकत्वं वदामः | पूर्व परिछेदे वयं द्रुष्टवन्तः पृथक्त्व स्थले अवधिः अनेकाः भवन्ति | तर्हि पृथक्त्वं अनेकावधिकत्वं | एवं कृत्वा अनेकावधिकत्वं संयोगः, विभागः, एवं भेद स्थले अपि भवति | अधः पश्यामः चेत्, कोष्ठके निरूपितं अस्ति अनेकावधिकत्वम्, नियतावधिकत्वं, निखिलावधिकत्वम् कुत्र भवितुं अर्हति |


भेदः एव पृथक्त्वं इति आक्षेपस्य निरासः”


पुर्वपक्षिणः इति नव्यन्यायायिकानां, अथवा ये अरोप्यन्ति | सिद्धान्तिनः इति यस्य सिद्धान्तः, अत्र प्राचिन न्यायायिकानाम् | विद्याधरी पुस्तके इदं वाक्यं अस्ति "कपालभूतलयोः ...वाच्यम्”| अत्र आपादन द्वयम् अस्ति | प्रथम आपादनम् “न च गुणरुपस्य तस्य रुपादिवत् मुर्तोत्पतीद्वितियक्षयणे जायमानस्य नियतावधिकत्वे मानाभावात्” | अत्र तस्य इति प्रुथक्त्वस्य, पृथक्त्वं एक गुणः इति द्वयोः न अन्गिकुइर्वन्ति, परन्तु संयोगः एकः गुणः इति उभयः स्वीकुर्वन्ति| ये सिद्धा गुणाः तत्र नियतावधिकत्वं नास्ति | नियतावधिकत्वं कुत्र अस्ति ? भेद स्थले | पृथक्त्व स्थले अपि नियतावधिकत्वं अस्ति, तर्हि पृथक्त्वं गुणः न, भेदरुपत्वा इव इति पुर्वपक्षिणः वदन्ति |


द्वितीय आपादनम् अस्ति, यद्यपि गुनक्षेत्रे नियतावधिकत्वं न भवति, तर्हि पृथक्त्वं गुणः नास्ति | नियतावधिकः गुणः स्वीकुर्मः चेत् अपि “भुतलावधिकत्वस्येपि कपालवधिकत्वस्येपि आवश्यकम्” | “घटः भूतलात् पृथक्” , तथा घटः कपालात् पृथक्” अपि वक्तुं शक्नुमः ? सिद्धान्तिः वदति कपालवधिकप्रुथकत्वं घटे स्वीकुर्मः चेत् , परस्पर प्रुथकश्रयाश्रितत्वं भवति वा? घटस्य आश्रयः कपालः, तर्हि प्रुथकश्रयाश्रितत्वं नास्ति| तर्हि संयोगः न भवति विभागः अपि न भवति, किमर्थम्? युतसिद्धत्वं नास्ति घटकपालयोः संयोगः नास्ति, विभागः अपि नास्ति | तर्हि कपालवधिक पृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति | भदेस्थले किं वदामः? कपालवधिकभेदः घटे अस्ति एवं घटावधिकभेदः कपाले अस्ति,तर्हि भेदः एव पृथक्त्वं इति तु न भवति | तर्हि पृथक्त्वं भेदः न इति प्रमाणं जातम् |