वेङ्कटेश-महोदयस्य व्याख्यानम्‌

From Samskrita Vyakaranam
10---nyAyashAstram/19---saMyogasya-AdhAreNa-pRuthaktvabhedayoH-parasparavailakShaNyam/01---vargasadasyAnAM-vyAkhyAnAni/venkatesa-mahodayasyavyakhyanam
Jump to navigation Jump to search

भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः|


पृष्ठभूमिका :


सिद्धान्तिनः मतं  भेदः सर्वपदार्थवृत्तिः इति | स च भेदः नाम अन्योन्याभावः, सर्वत्र वर्तते | किन्तु पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति, गुणादिसमवायीकारणता द्रव्ये एव भवति इति कारणात् | ‘घटात् पृथक्’ इति प्रत्ययः कस्यचित् गुणे जायमानोऽपि रूपम्, स च प्रत्ययः पृथक्त्वरूपं गुणं  न अवगाहते किन्तु  घटभेदमेव रूपनिष्ठम् | एतस्मात् कारणात् पृथक्त्वं भेदात् भिन्नं, स च पृथक्त्वं द्रव्ये विद्यमानः अतिरिक्त गुणः, नवद्रव्यवृत्ति इति नैयायिकैः उक्तम् |  अपि च पृथक्त्वम्   असाधारणं कारणं नाम येन पृथक् इति शब्दप्रयोगेन पदार्थेन घटादिकार्याणि न जन्यन्ते  | अस्मिन् लेखने पृथक्त्वभेदयोर  विषये पूर्वपक्षिणाम् आक्षेपाः तदर्थम् नैयायिकानां समाधानानि  च आलोच्यन्ते|


पूर्वपक्षिभिः भेदः एव पृथक्त्वं इति आक्षेपः कृयते|


अन्योन्याभावस्थले  भेदः इति प्रत्ययः प्रयुक्तः | यत्र पृथक्त्वं इति प्रत्ययस्य उपयोगः क्रियते तत्र भेदः इति पदस्य उपयोगः भवितुं अर्हति इति तु  द्वयोः पक्षिभ्यां अङ्गीक्रियते | रसः रूपं न इति प्रसङ्गे रसभेदः रूपे अस्ति इति उभयोरपि अङ्ग्कीकारः अस्ति | तत्र उभयपक्षिणोः मतभेदः नास्ति | तदेव ‘उभयवादिसिद्धस्य क्लृप्तत्वात्’ इति उक्तम् | पृथक्त्वस्य  अङ्गीकारेण रसपृथक्त्वं रूपे इति सिद्धयति  खलु ? परन्तु गुणे  गुणः न भवितुम् अर्हति | अतः गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादिप्रतीतेः अनिर्वाहात् इति उक्तम् | विकल्पद्वयं वर्तमाने सन्दर्भे, युक्तिं विना एकः विकल्पः यदि स्वीक्रियते तत्र विनिगमनाविरहः इत्युच्यते - इत्युक्ते विना आधारेण निर्णयः क्रियते इत्यर्थः| भेदपृथक्वयोः सन्दर्भे युक्तिः  अस्ति यस्मात् भेदः एव पृथक्त्वम् इति वक्तुं शक्यते इति पूर्वपक्षिणां मतम् | अतः ‘न च विनिगमनाविरहः’ | आहत्य पृथक्त्वम् इति पदस्य आवश्यकं नास्ति यतः भेदः एव पृथक्त्वम् इति तेषाम् आक्षेपः |


पुनश्च ताद्त्म्यसम्बन्धावच्छिन्न प्रतियोगिताकाभावः अन्योन्याभावः एव भेदः| अन्योन्याभावस्य निरूपणार्थं ‘घटः पटो न’ इति आकारः पूर्वं प्रयुक्तः प्राचीननैयायिकैः | अतः अस्मिन् वाक्ये घटपटयोः प्रतियोगी अनुयोगी वाचकपदयोः प्रथमाविभक्ति प्रयोगेन भेदस्य साधनं कृतं तैः| पृथक्त्वस्य निरूपणार्थं ‘घटः पटात् पृथक्’ इति प्रत्ययः स्वीकृतः प्राचीनैः| अत्र पृथक्त्वस्य आश्रयः घटः| आश्रयवाचकपदस्य प्रथमाविभक्तिः  अपि च अवधिवाचकपदस्य पञ्चमीविभक्तिः च प्रयुक्तः | नवीन नैयायिकाः तु एतेन वाक्येनापि भेदसाधकमेव बोध्यं न तु पृथक्त्वं इति आक्षेपितवन्तः| तेषां वादः तु एतस्मात् वाक्यात् प्रक्रियाम् अनुसृत्य भिन्नवाक्यं सिद्धयति  परन्तु  भिन्न अर्थः नैव इति| (नञ्पदसमभिव्याहारे एव तादृश तादृशविभक्तिनियमस्य उपयोगात् ) अपि च डुकृञ् (करणे) सकर्मकः धातुः, कर्मपदं अपेक्षते | कर्तरिप्रयोगे कर्मपदं द्वितीया विभक्त्यन्तं भवति | यतते इति समानार्थ धातुः अकर्मकः धातुः, कर्मपदस्य निरपेक्षा अत्र |  सः पठनं करोति, सः पठितुं यतते इति वाक्ययोः वाक्यशैली पदभेदेन भिन्ना दृश्यते परन्तु अर्थः तु समानः एव | अतः  कृञः द्वीतीयासाकाङ्क्षत्वात् यततेस्तु तदभावात्, आद्येन कर्मसापेक्षकृतेः द्वीतीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकारापत्तेः इति आक्षेपः पूर्वपक्षिणाम् ।


मूर्तद्रव्ये भूयमाना क्रियया अन्यमूर्तद्रव्येण सह वा विभुना सह वा संयोगः जायते | हस्तपुस्तकयोः संयोगः अत्र उदाहरणार्थं स्वीकुर्मः| हस्तः मूर्तद्रव्यंम् | पुस्तकम् अन्यं मूर्तद्रव्यम् | हस्तस्य अवयवः भिन्नाः तथा च पुस्तकस्य अवयवः भिन्नाः | द्वयोः अवयवयोः अपि तयोः अवयविनः आश्रयः | अतः तौ द्वौ प्रुथगाश्रितौ | अतः हस्तपुस्तकयोः मद्ये संयोगः भवितुम् अर्हति | तथैव मूर्तविभुसंयोगस्थलेsपि द्वयोः पृथगाश्रयाश्रित्वस्य असम्भवे अपि एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगोपपत्तिः | अत्र मूर्तान्तरेण संयोगः स्वीक्रियते | हस्तपुस्तकसंयोगः |


इदानीं हस्ते एका क्रिया जाता - उदाहरणार्थं ग्रहणक्रिया इति चिन्तयामः | तया क्रियया हस्तपुस्तकयोः मद्ये संयोगः जायते | क्रियया उत्पन्नः इति कारणात् स च संयोगः कर्मजः संयोगः| परन्तु किञ्चित् गभीरचिन्तनम् अत्र कुर्मः| हस्तस्य अवयः अङ्गुल्यः | तर्हि स च ग्रहणक्रिया केवलम् अङ्गुलीषु एव जातः न च सम्पूर्ण हस्ते इति चिन्तने सति हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः यतः क्रिया समग्रहस्ते न जाता|


तत्र अङ्गुलीषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथासिद्धा इति उच्यते | कुलालस्य उदाहरणेन एतस्य स्पष्टीकरणं भवति | कुलालः घटं निर्माति | कुलालस्य पिता यद्यपि कुलालं प्रति कारणं परन्तु कुलालेन निर्मितं घटं प्रति न | अन्यतासिद्धयः पञ्चविधाः | ताः अनन्तरं वक्ष्यन्ते | इदं चतुर्थमिति अवगच्छामः अधुना |


एवं रीत्या हस्तः शरीरस्य अवयवः | शरीरः हस्तस्य  अवयवी | अतः हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते | तत्र कोऽपि विवादः नास्ति | एतदेव अवयवसंयोगेन द्रव्यान्तरेण अवयविनः संयोगः जायते इत्यपि अविवादम् इति उक्तम् | परन्तु एतद् तु अवश्यं ज्ञातव्यं भवति कायपुस्तकयोः संयोगः संयोगजः न तु कर्मजः इति | अतः अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगजः संयोगः जायते | परन्तु प्रश्नः उदेति यद्यपि हस्तः शरीरस्य अवयः अतः हस्ते जाता क्रिया कथं वा शरीरे न जाता इति वक्तुं शक्नुमः| न्याशास्त्रे यद्यपि हस्तः शरीस्य अवयवः तथापि हस्तः भिन्नः शरीरं भिन्नं इति स्वीक्रियते | अवयवः अवयवी च परस्परं भिन्नम् | अवयः पदार्थः भिन्नः अवयवीपदार्थः भिन्नः | पदार्थौ भिन्नौ इति कारणं स्वीकृत्य समाधानं दीयते यत् हस्ते जाता क्रिया शरीरे जाता क्रिया च समाना न इति | शरीरहस्तयोर् मद्ये कार्यकारण भावः | यदा हस्ते जाता क्रिया इति विशेषेण उच्यते तदा प्रथमक्षणे हस्ते जायते अनन्तरं द्वीतियक्षणे एव काये जायते इति स्वीक्रियते | अतः आदौ क्रिया अवयवे अनन्तरं अवयविनि | घट्स्पर्शणम् उदाहरणेन स्वीकुर्मस्चेत्  स्पर्शः घटस्य अवयवे कपाले प्रथमक्षणे भवति तदुत्तरक्षणे अवयवी | स्पर्शणक्रिया अवयवे भवति इति कारणतः कपाले जायमानः संयोगः कर्मजः संयोगः अपि च अवयविनि घटे अनन्तरक्षणे जायमानः संयोगः संयोगजः इति | एवमेव  विचारः अवयवे जायमानः संयोगजः अपि अवयविनि अनन्तरक्षणे | इदानीं  "स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम् अन्यथा .. इति वाक्यं विचार्यते |


पुनः घटस्य उदाहरणं स्वीकुर्मः| घटस्य अवयवः कपालः| द्वयोः कपालयोः परस्परसंयोगेन अवयविनि घटे अन्येन मूर्तद्रव्येण सह संयोगः जायते वा इति प्रश्ने सति निश्चयेन न जायते इत्येव उत्तरम् | अतः एकस्य कपालस्य अन्यकपालेन सह यदा संयोगः भवति तेन संयोगेन अवयविनि घटे कर्मजः वा संयोगजः संयोगः न जायते | यतः अवयव परस्परसंयोगः अवयविनि कमपि संयोगं न उत्पादयति| कपालद्वयोः संयोगः घटस्य अन्यमूर्तद्रव्येण सह संयोगं प्रति कारणं न भवति | यदा कपालस्य अन्यद्रव्येण सह संयोगः भवति तदा एव तस्य अवयविनि घटे संयोगसम्भावना अस्ति | अयं विषयः हस्तपुस्तकसंयोगेन विवृतः पूर्वमेव|


यदि विपरीत्या कपालद्वयोः परस्परसंयोगेन घटे अन्यमूर्तान्तरद्रव्येण सह संयोगः जन्यते इति स्वीकुर्मः चेत् कपालः घटेन संयुक्तः इति स्वीकर्तव्यः| कपालः कपालसंयोगेन घटेन संयुक्तः, कपाल घटयोर् मद्ये संयोग सम्बन्धः इति भवति| अयं दोषपूर्णः विषयः | स च विषयः अनुभवविरुद्धः यतः लोके न दृष्टः न च सम्भवति तथा | कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति,  कपालः घटं प्रति समवायिकारणम्, अवयवावयविनोः मद्ये समवायसम्बन्धः इत्यादयः पूर्वाङ्गीकृत स्वीकृत विषयाः आपद्यन्ते |


घटस्य अवयवः कपालः | अतः घटः समवायसम्बन्धेन कपाले आश्रितः संयोगसंबन्धेन न | अतः तयोर्मद्ये संयोगः न भवति | यत्र संयोगः न भवति तत्र विभागोऽपि न भवति | अपि च युतसिद्धयोः  द्रव्ययोः मद्ये  एव कर्मजः संयोगजः वा संयोगः वा भवति | अयुतसिद्धयोः द्रव्ययोः मद्ये कदापि संयोगः न भवति | अयुतसिद्धत्वं नाम द्वयोः द्रव्ययोः मद्ये एकस्य द्रव्यस्य नाशपर्यन्तं तद् द्रव्यम् अन्यं द्रव्यं आश्रित्य एव तिष्ठति | घटस्य नाश पर्यन्तं घटः कपालम् आश्रित्य तिष्ठति | अतः घटकपालयोर्मद्ये अयुतसिद्धत्वम् | घटस्य अवयवः कपालः इत्यस्मात् अवयवावयिभावापन्नयोः द्रव्ययोः अयुतसिद्धत्वम् इति स्पष्टम् | कपालघटयोः मद्ये अन्योन्याभावः नाम भेदः अवश्यं वर्तते | परन्तु तौ द्वौ भिन्नदेशयोः न स्तः| अतः तत्र पृथक्त्वं नोत्पद्यते | पृथगाश्रयाश्रित युतसिद्धद्रव्ययोर् मद्ये एव उभयविधसंयोगः भवति | तर्हि पृथक्त्वस्य  कृते भिन्नदेशव्याप्तिः आवश्यकी इति च सिद्धम् | अनेन समीहितं गुणान्तरं पृथक्त्वमं सिद्धम्  |


इदानीं पूर्वपक्षीणाम् आपादनद्वयं कथं निवार्यते सिद्धान्तिभिः इति वक्ष्यते |


पूर्वपक्षिणः प्रथम आपादनम् अस्ति "न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्" यद्विषयकप्रतीतौ नियमेन अवधिः भासते तस्य नियतावधिकत्वम् इति उच्यते | भेदः, विभागः, पृथक्त्वं, पतनम्  एते सावधिकपदार्थाः| केवलं भेदः इति वदनेन शब्द्बोधः न जायते | पृथक्त्वस्थले अपि तथैव | कस्मात् भेदः, भिन्नः, पृथक् इति अवधेः उल्लेखः कर्तव्यः| तर्हि भेदपृथक्त्वस्थलयोः अवधिः नियमेन भासते | अतः भेदे पृथक्त्वे च नियतावधिकत्वम् |   अस्मिन् आपादने तस्य इत्युक्ते पृथक्त्वस्य इति भवति पूर्वोक्तस्य "तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वं" इति वाक्यस्य अनुसरणेन|


यद्यपि सिद्धान्तिनः मतम्  अस्ति पृथक्त्वं गुणः इति, तथापि पूर्वपक्षिणां  मतं भिन्नम् | ते संयोगादीन् अन्य सिद्धगुणान् स्वीकृत्य एतेषु गुणेषु नियतावधिकत्वम् इति स्वभावः नास्ति इति कारणात् पृथक्त्वं सिद्धगुणः न इति प्रथमम् आपादनं  स्थापितवन्तः| अतः तेषां मतिः पृथक्त्वे नियतावधिकत्वात् तदपि भेदरुपता एव न तु पृथक्त्वं सिद्धगुणः इति | भेदः नित्यः इति कारणतः न केवलं द्रव्ये अपि तु सत्सु पदार्थेषु प्रतियोगिनं विहाय सर्वत्र सर्वदा वर्तते | अतः पूर्वपक्षिणाम् आपादनं पृथक्त्वं गुणत्वं न परन्तु भेदत्वम्  इत्यतः मूर्तोत्पत्तेः द्वितीयक्षणे जायमानं नास्ति इति|

 

पूर्वपक्षिणाम् द्वीतीयम्  आपादनं अस्ति "भूतलावधिकत्वस्येव कपालवधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यमिति  वाच्यम् " - यदि पृथक्त्वस्य गुणरुपेण नियतावदिकत्वं स्वीकुर्मश्चेदपि यथा भूतलावधिकपृथक्त्वरूपगुणः घटे प्रतीयते तथैव कपालावधिकपृथक्त्वस्य प्रत्ययः स्यात् इति तेषाम् आपादनम् | तथा नास्ति इति कारणात् तद्दोषतादवस्त्यम् | घटकपालयोः संयोगापत्तेः क्लृप्तत्वात् |


अधुना सिद्धान्तिभिः आपादनद्वयं  कथं निवार्यते इति वक्ष्यते|  


पूर्वपक्षिणः द्वयोः आपादनयोः अपि फलत्वेन पूर्वतनदोषः आयाति इति सिद्धान्तिनः वदन्ति अनेन वाक्येन – गुणरूपस्य तस्य (पृथक्त्वस्य) रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वात् तद्दोषतादवस्थ्यम् । तर्हि सः कः दोषः इति पश्यामः।

यदि कपालावधिकपृथक्त्वम्  अस्ति इति स्वीकुर्मः तर्हि कपालावधिकपृथक्त्वं घटे अस्ति इति अपि च घटावधिकपृथक्त्वं कपाले च इति भवति। कपालघटयोर् मद्ये पृथगाश्रयाश्रितत्वं भवति तस्मात् कपालः घटः च युतसिद्धौ भवतः इति भवति। अनेन कपालघटयोर् मध्ये युतसिद्धत्वम् अस्ति इति आगतम्। तर्हि कपालघटयोः संयोग आपत्तिः।


पुनःस्मरणार्थं युतसिद्धत्वं नाम - यावत् पर्यन्तं एकस्य द्रव्यस्य नाशो भवति तावत् पर्यन्तं तत् अन्यत् द्रव्यम् आश्रित्य एव तिष्ठति इति न कोपि नियमः। तथास्ति चेत् तयोः द्रव्ययोः मद्ये युतसिद्धत्वम् अस्ति । घटभूतलयोः उदाहरणम् अत्र स्वीकर्तुं शक्नुमः। संयोगः अनयोः द्रव्य्ययोः मद्ये एव भवितुम् अर्हति।


परन्तु घटस्य अवयः कपालः। कपालस्य अवयवी घटः। कपालघटयोर् मद्ये समवायसम्बन्दः | यत्र यत्र समयवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्। अवयवावयविभावापन्नयोः (अवयव अवयवि भाव आपन्नयोः) द्रव्ययोः अयुतसिद्धत्वम्। संयोगस्य कृते पृथगाश्रयाश्रितत्वम्  अपेक्षते | अतः एतयोर् मद्ये (घटकपालयोः मद्ये) संयोगः कदापि न भवति। एतत् पूर्वं साधितम् अङ्गीकृतं च। कपालावधिकत्वं घटे इति स्वीकरणेन संयोग आपत्तिः भवति । अपि च तयोर् विभागः न जायते यत्र संयोगोपि न जायते। अतः तद्दोषतादवस्थ्यमिति न च वाच्यं | अनेन घटकपालयोः संयोगापत्तेः क्लृप्तत्वात् इति सिद्धान्तिनः वाच्यं स्पष्टं स्यात् ।

तर्हि अग्रे घटकपालयोः युतसिद्धत्वं निवारितव्यम्। कपालावधिकत्वं नास्ति घटे अपि च घटावधिकत्वं कपाले नास्ति इति स्वीकरणेन निवार्यते इदं युतसिद्धत्वम्। परन्तु तस्मिन्नेव प्रसङ्गे कपालावधिकत्वभेदः घटे नास्ति इति अपि न वक्तुं शक्यते | भेदः नाम  तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकाभावः - घटभेदः तु घटं विहाय सर्वत्र भवति एव,  भेदः नित्यं च । अतः कपालावधिकत्वभेदः घटे अपि च घटावधिकत्व भेदः कपाले स्तः । अनेन पृथक्त्वभेदयोः वैलक्षण्यं सम्पन्नम्।


पूर्वपक्षिणः द्वितीय आपादनस्य निवारणार्थं सिद्धान्तिनः वदन्ति एवम् -  

"वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वीतीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाशसंयोगाश्रयावधिकत्वमेवहि नियमेन स्वीक्रियते " | सिद्धान्तिनां मतानुसारं भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि  इति यदा वक्तुं शक्यते पृथक्त्वस्य निखिलावधिकत्वं यदि अभविष्यत् तदा | पृथक्त्वे न निखिलावदिकत्वं परन्तु अनेकावधिकत्वमेव| वस्तुततया जगति निखिलावधिकत्वं कस्यापि नास्ति | ते विभागस्य उदाहरणं दत्वा अस्य आपादनस्य निरासं कुर्वन्ति | स्वेन नाशयः यः संयोगः तदधिकरणे एव विभागः जायते| इत्युक्ते यत्र संयोगः भवितुम् अर्हति तत्रैव विभागः जायते| घटभूतलयोः संयोगः इव घटकपालयोः संयोगः न सम्भवति | अतः तयोः विभागः अपि न| अपि च विभागः ययोर्मद्ये भवति तत्र तदवधिकत्वं न स्वीक्रियते इति नियमः| यथा विभागस्थले किञ्चित् अवधिकत्वं वार्यते किञ्चित् स्वीक्रियते तथैव पृथक्वसथले अपि किञ्चित् अवधिकत्वं वार्यते| स्वायवयवपरम्परायां विध्यमानानां अवधिकत्वं न स्वीक्रियते | इतुक्ते कपालावधिकत्वं घटे घटावधिकत्वं कपाले च इति न स्वीक्रियते इत्यर्थः बोध्यः| यदा ययोर्मद्ये  तदवधिकत्वं वारितं तदा परस्पर तदवधिकपृथक्त्वप्रत्ययः अपि न प्रयोक्तव्यः | तर्हि पृथक्त्वप्रत्ययभावात् युतसिद्धत्वं न भवति| अयुतसिद्धत्वयोर्मद्ये संयोगः इति भवति | अयं दोषः |


तथा  इदं पृथक्त्वमपि द्वीतीयादिक्षणे जायमानं स्वाश्रयसमवायिकारणपरम्परायां परमाणवन्तं यन्मूर्तं तदतिरिक्तावधिकमेव जायते इति स्वीकारात् | - अतः यस्मिन्देशेव्याप्ते यस्मिन्मूर्तद्रव्येऽपि तस्मिन्नेवदेशे व्याप्ताः ये अवयवाः तदवधिकत्वं तस्मिन् द्रव्यपृथक्त्वे नास्ति इत्यर्थः | अतः पृथक्त्वे निखिलावधिकत्वं नास्ति| न निखिलावधिकत्वं अपि तु स्वस्य अवयवान् अतिरिक्ते |  एतस्मात् स्वावयपरम्परायां विद्यमानं यद्यत् मूर्तं, तदरिक्त तदवधिकत्वं पृथक्त्वमेव स्वस्मिन् भवति इति द्वीतियापादनस्य समाधानं भवति|


न चैवं परमाणुद्रव्यसंयोगानुपपत्तिः | तयोः अनाश्रितत्वादिति वाच्यम् | तत्र स्वतन्त्रक्रियावत्वस्य निमित्तत्वात् | संयोगसम्भावना पृथगाश्रयाश्रितोः द्रव्ययोः मद्ये भवति इति पूर्वमेव विवृतम् | परन्तु परमाणोः आश्रयः नास्ति तथापि द्वयोः परमाणोः मद्ये संयोगः भवति तयोः स्वतन्त्रक्रियावतोः कारणतः| परमाणोः अवयवाः न सन्ति इत्यतः तत्र  समवायिकारणं नास्ति |


इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः पृथगाश्रयाश्रितत्वस्य असम्भवेऽपि एकस्य मूर्तस्य पृथगाश्रयाश्रितत्वात् संयोगोपपत्तिः| मूर्तविभुद्रव्ययोः मद्ये  संयोगः विभागः च उपाधिभेदात् जायते यतः तत्र पृथगाश्रितत्वस्य सम्भवः नास्ति इति कारणात् |


नचैवं घटकपालयोः मद्येऽपि कपालस्य कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात्  पृथगाश्रयाश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोगापत्तिः सर्वादौ उक्त्वा अनिर्वाया एव इति वाच्यम् | समानदिग्भागव्यापिनां दिगुपाधिभूतानां घटवयवपरम्परागतानां कपालकपालिकादिनां परस्परावधिकपृथक्त्वस्य अस्वीकारात् |


कपालस्य आश्रयः कपालिका, घटस्य आश्रयः कपालः इति मत्वा तयोः मद्ये पृथगाश्रितत्वम् अस्ति, तस्मात् कारणात् घटकपालयोः मद्ये संयोगः भवेत् इति अपराधः अनिवार्यः|  पृथगाश्रयाश्रितत्वस्य कृते आश्रयौ भिन्नौ देशौ भवितव्यौ| कपालघटौ समानदिग्व्यापिनौ इत्युक्ते एकस्मिन् देशे एव स्तः|  अपि च मूर्तद्रव्यस्य दिगुपाधित्वं भवति| दिक् विभ्वी | सा विभज्या न भवति| परन्तु स च दिक् यदा मूर्तद्रव्यावच्छिन्ना भवति तेन अवच्छिन्नादिक् (देशः) प्राप्यते| यदा दिगुपाधयः समाने भवन्ति तदा पृथक्त्वं न कल्प्यते| अतः पुनः कपालघटौ समानदिगुपाधिभूतौ  इति कारणात् तयोर्मद्ये परस्परावधिकपृथक्त्वस्य  अस्वीकारः |


अनेन विभागे भिन्नदेशव्यापिमूर्तवृत्तिपृथक्वे च यत् अवधित्वं प्रतीयते तत्  स्पष्टम् | स च अवधित्वं भेदस्थले प्रतियमानायाः प्रतियोगितायाः अपेक्षया समाना  न इति लक्षिता| अपरं च भेदस्य विषये तादात्मीयसम्बधादयः अवगन्तुं  किञ्चित् विशिष्टं ज्ञानं अपेक्षते | पृथक्त्वस्य स्थले तथा किमपि नोपेक्षितम् | केवलं पृथक्त्वस्य गुणत्वात् एव ज्ञातुं शक्यते ‘एतस्मात् एतत् पृथक्’ इति| अनेन पृथक्त्वम् अतिरिक्तः गुणः इति प्राचिनानां मतं विस्पष्टम् | अयं विषयः स्थूलबुद्ध्या न विचारणीयः इति विध्याधरी ग्रन्थकारकस्य अभिप्रायः |