10---nyAyashAstram/26---dalasArthakya-cintanam/adyapatanasamavayikaranamgurutvam: Difference between revisions
m (Vidhya moved page आद्यपतनासमवायिकारणं गुरुत्वम् to आद्यपतनासमवायिकारणं गुरुत्वम् without leaving a redirect) |
m (Protected "आद्यपतनासमवायिकारणं गुरुत्वम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(One intermediate revision by the same user not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE: आद्यपतनासमवायिकारणं गुरुत्वम्}} |
|||
<big>'''(४) तर्कसङ्ग्रहे''' '''मूलवाक्यम् 'आद्यपतनासमवायिकारणं गुरुत्वम्' |'''</big> |
<big>'''(४) तर्कसङ्ग्रहे''' '''मूलवाक्यम् 'आद्यपतनासमवायिकारणं गुरुत्वम्' |'''</big> |
||
Latest revision as of 23:28, 18 July 2021
(४) तर्कसङ्ग्रहे मूलवाक्यम् 'आद्यपतनासमवायिकारणं गुरुत्वम्' |
आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् |
त्रीणि दलानि : १) आद्यपतनत्वावच्छिन्नकार्यता २) समवायसम्बन्धावच्छिन्नकार्यता * ३) समवायसम्बन्धावच्छिन्नकारणता
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् | अतिव्याप्तिः | सर्वेषु असमवायिकारणेषु | आद्यपतनत्वावच्छिन्नकार्यता |
आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वम् | अतिव्याप्तिः | आद्यपतनस्य समवायिकारणे | समवायसम्बन्धावच्छिन्नकारणता |
आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् ** | नास्ति | नास्ति | नास्ति |
* आद्यपतनासमवायिकारणं गुरुत्वम् इति तर्कसङ्ग्रहस्य मूलवाक्यम् | तस्मिन् असमवायिकारणम् इति उल्लिखितम् | समवायिकारणे च निमित्तकारणे अतिव्याप्तिवारणाय असमवायिकारणम् इत्यस्य वदनम् आवश्यकञ्च | समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति असमवायिकारणस्य लक्षणम् |
** तर्कसङ्ग्रहस्य मूलवाक्यम् अनुसृत्य यद्यपि आद्यपतनत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति गुरुत्वस्य तटस्थलक्षणवाक्यस्य कथनावसरे दलत्रयं स्वाभाविकतया प्रविष्टं स्यात् तथापि कार्यतायाम् आद्यपतनत्वावच्छिन्नत्वम् इति विशेषदलस्य उपादानेन सर्वेषु असमवायिकारणेषु अव्याप्तिदोषस्य वारणत्वात् समवायसम्बन्धावच्छिन्नकार्यता इत्यस्य दलस्य व्यर्थता सिध्यति | अतः तत् दलं त्यक्तव्यम् एव | कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् इति दलं न उपात्तं चेदपि आद्यपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं गुरुत्वस्य लक्षणम् इत्यनेन न क्वचित् दोषः |