10---nyAyashAstram/26---dalasArthakya-cintanam/ghrANagrAhyoguNogandhaH: Difference between revisions
10---nyAyashAstram/26---dalasArthakya-cintanam/ghrANagrAhyoguNogandhaH
Content added Content deleted
m (Vidhya moved page घ्राणग्राह्यो गुणो गन्धः to 10---nyAyashAstram/26---dalasArthakya-cintanam/untitled without leaving a redirect) |
m (Protected "घ्राणग्राह्यो गुणो गन्धः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(2 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE: घ्राणग्राह्यो गुणो गन्धः}} |
|||
<big>'''(५) तर्कसङ्ग्रहे मूलवाक्यं 'घ्राणग्राह्यो गुणो गन्धः' | घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणम् |'''</big> |
<big>'''(५) तर्कसङ्ग्रहे मूलवाक्यं 'घ्राणग्राह्यो गुणो गन्धः' | घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणम् |'''</big> |
||
Latest revision as of 23:28, 18 July 2021
(५) तर्कसङ्ग्रहे मूलवाक्यं 'घ्राणग्राह्यो गुणो गन्धः' | घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणम् |
घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्त्वे सति गुणत्वं गन्धस्य लक्षणम् |
द्वे दले :
१) घ्राणेन्द्रियग्राह्यत्वम् | घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयता |
२) गुणत्वम्
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
घ्राणेन्द्रियग्राह्यत्वम् | अतिव्याप्तिः | गन्धत्वजात्याम् | गुणत्वम् |
गुणत्वम् | अतिव्याप्तिः | अन्येषु गुणेषु | घ्राणेन्द्रियग्राह्यत्वम् |
घ्राणेन्द्रियग्राह्यत्वे सति गुणत्वम् | नास्ति | नास्ति | नास्ति |
एवमेव रसनग्राह्यो गुणो रसः, श्रोत्रग्राह्यो गुणो शब्दः इति रसस्य च शब्दस्य लक्षणवाक्ये दलसार्थक्यं साधनीयम् |
घ्राणरसनश्रोत्रेन्द्रियाणां गुणमात्रग्राहकत्वात्, तदाश्रयद्रव्यस्य अग्राहकत्वात् च रूपस्य लक्षणवाक्यवत् गन्धरसशब्दानां लक्षणवाक्ये मात्र-शब्दस्य योजनं न आवश्यकम् |