10---nyAyashAstram/26---dalasArthakya-cintanam/sanskaramatrajanyamjnanamsmrtih

From Samskrita Vyakaranam
Jump to navigation Jump to search

(१०) तर्कसङ्ग्रहे मूलवाक्यं ‘संस्कारमात्रजन्यं ज्ञानं स्मृतिः’ | संस्कारभिन्नजन्यत्वाभावत्त्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतेः लक्षणम् |


मात्र = तद्भिन्नः + तद्भिन्नाभावः | अत्र संस्कारभिन्नम् इत्युक्तौ इन्द्रियम् इति बोध्यम् |


त्रीणि दलानि :

१) संस्कारजन्यत्वम् |

२) संस्कारभिन्नजन्यत्वाभावः (संस्कारभिन्नाजन्यत्वम्)|

३) ज्ञानत्वम् |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
संस्कारजन्यत्वम् अतिव्याप्तिः संस्कारध्वंसे ज्ञानत्वम्
संस्कारभिन्नजन्यत्वाभावः अतिव्याप्तिः आकाशे, नित्यद्रव्येषु संस्कारजन्यत्वम्
ज्ञानत्वम् अतिव्याप्तिः अनुभवे संस्कारभिन्नजन्यत्वाभाववत्त्वम्
संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वाभाववत्त्वम् अतिव्याप्तिः संस्कारध्वंसे ज्ञानत्वम्
संस्कारजन्यत्वे सति ज्ञात्वम् अतिव्याप्तिः प्रत्यभिज्ञायाम्

(सोऽयं देवदत्तः)

संस्कारभिन्नजन्यत्वाभाववत्त्वम्
संस्कारभिन्नजन्यत्वाभाववत्त्वे सति ज्ञानत्वम् अतिव्याप्तिः ईश्वरीयज्ञाने

ईश्वरस्य ज्ञानं सर्वदा वर्तते इत्यस्मात् |

संस्कारजन्यत्वम्
संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वाभाववत्त्वे सति ज्ञानत्वम् नास्ति नास्ति नास्ति

स्पर्शलक्षणे 'त्वगिन्द्रियमात्रग्राह्यो गुणो स्पर्शः' इत्यत्रापि त्रीणि दलानि सन्ति, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रियाग्राह्यत्वं च गुणत्वम् | दलसार्थक्यम् एवमेव करणीयम् |