अधेतुम्/अध्येतुम्/अधीतुम्
विषयः--अधेतुम् /अध्येतुम् /अधीतुम्
प्रश्नः
"छात्रा व्याकरणम् अधीतुम् इच्छति", "छात्रा व्याकरणम् अध्येतुम् इच्छति", "छात्रा व्याकरणम् अधेतुम् इच्छति" -- एषु कः प्रयोगः साधुः ?
उत्तरम्
"छात्रा व्याकरणम् अध्येतुम् इच्छति" इत्येव साधुः प्रयोगः |
- इङ् अध्ययने इति अदादिगणीयः, अनिट् धातुः | अयं नित्यम् अधि-उपसर्गपूर्वकः धातुः |
- अस्मात् धातोः तुमुन् प्रत्यये परे, अधि + इ + तुमुन् → अधी + तुम् → अधेतुम् इति रूपं स्यात्, इति शङ्का उदेति |
- पुनश्च अधीतावान्/अधीतवती, अधीतः/अधीता इत्यादिषु कित्-प्रत्ययान्तेषु इकारस्य दैर्घ्यं दृष्ट्वा अधीतुम् इति तुमुनन्तरूपम् इत्यपि सन्देहः स्यात् |
- वस्तुतः व्याकरणे अङ्गकार्यं क्रियते प्रथमं, तदा उपसर्गस्य संयोजनम् | अनेन अधि + इ + तुमुन् इत्यस्यां दशायां तुमुन्-प्रत्ययनिमित्तिकम् अङ्गकार्यं प्रथमम् |
- तुमुन्-प्रत्ययस्य आर्धधातुकत्वात् धात्वाङ्गे सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यम् | अधि + इ + तुमुन् → अधि + ए + तुमुन् |
- अधुना उपसर्गस्य संयोजनम् | अधि + ए + तुमुन्, इत्यस्यां स्थित्याम् इको यणचि (६.१.७७) इत्यनेन उपसर्ग-अङ्गयोः मध्ये यण्-सन्धिः, अधि + ए + तुमुन् → अध्ये + तुम् → अध्येतुम् |
- अपरेषु तुमुन्-भिन्न-प्रसङ्गेषु, यत्र गुणः निषिद्धः तत्र उपसर्ग-अङ्गयोः मध्ये अकः सवर्णे दीर्घः (६.१.१०१) इत्यनेन सवर्णदीर्घ-सन्धिः भवति |
- यथा, अधि + इ + क्तवतु; अत्र क्तवतु-प्रत्ययस्य कित्त्वात् गुणः निषिध्यते | अनेन इ-धातुः यथावत् तिष्ठति, अधि + इ + क्तवतु → अधी + तवत् → अधीतवान्/अधीतवती इति रूपम् |
- तथैव क्त-प्रत्यये परे अपि गुणनिषेधः, सवर्णदीर्घसन्धिः च | अधि + इ + क्त → अधी + त → अधीतः/अधीता/अधीतम् इति दीर्घ-इकारयुक्तं रूपम् |
- अयं धातुः नित्यम् उपसर्गपूर्वकः इत्यतः अस्य क्त्वान्त-रूपम् नास्ति | ल्यपि अधीत्य इति रूपम् |