अन्विषति / अन्विष्यति
विषयः - अन्विषति / अन्विष्यति
प्रश्नः
"ज्ञानार्थी उत्तराणि अन्विषति" उत "ज्ञानार्थी उत्तराणि अन्विष्यति" -- अनयोः कः प्रयोगः साधुः?
उत्तरम्
"ज्ञानार्थी उत्तराणि अन्विष्यति" इत्येव साधुः प्रयोगः |
- इष गतौ इति दिवादिगणीयः परस्मैपदी धातुः | इष् इति अनुबन्धरहितलौकिकधातुः |
- लट्-लकारस्य प्रथमपुरुषैकवचनविवक्षायां तिप्-प्रत्यये विहिते इष् + तिप् इति |
- तिप् इति कर्त्रर्थकः सार्वधातुकः प्रत्ययः इत्यस्मात् कर्तरि शप् (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, इष् + शप् + ति |
- तदा शपं प्रबाध्य दिवादिगणस्य श्यन् इति विकरणप्रत्ययः विहितः भवति दिवादिभ्यः श्यन् (३.१.६९) इत्यनेन, इष् + श्यन् + ति |
- इष् + श्यन् + ति → इष् + य + ति → इष्यति इति प्रथमपुरुषैकवचने दिवादिगणीयस्य इष्-धातोः रूपम् |
- अनु-उपसर्गपूर्वकस्य इष्-धातोः अनु + इष्यति इति स्थितिः | इको यणचि (६.१.७७) इत्यनेन यण्-सन्धिः, अनु + इष्यति → अन्विष्यति |
- यदि इष्-धातुः तुदादिगणीयः अभविष्यत् तदा तुदादिगणीयस्य श-इति विकरणप्रत्ययस्य प्रभावात् अन्विषति इति रुपम् असेत्स्यत् |
- किन्तु इष गतौ इति दिवादिगणीयः | अतः अन्विष्यति इत्येव अनु-उपसर्गपूर्वकस्य इष्-धातोः प्रथमपुरुषैकवचने रूपम् |
परिशिष्टम्
- इष अभीक्ष्ण्ये इति क्र्यादिगणीयः धातुः अस्ति | इष्णाति इति तस्य प्रथमपुरुषैकवचने रूपम् |
- 'अभीक्ष्ण्यम्' इत्यनेन पौनःपुन्यम् | अतः इष्णाति इत्यस्य 'वारं वारं करोति' इत्यर्थः |
- क्र्यादिगणीयस्य इष्-धातोः तिप्-प्रत्यये विहिते, श्ना-विकरणप्रत्यये परे इष् + श्ना + तिप् → इष् + ना + ति → इष्णाति इति रूपम् |
- इष इच्छायाम् इति तुदादिगणीयः धातुः अस्ति | इच्छति इति तस्य प्रथमपुरुषैकवचने रूपम् |
- तुदादिगणीयस्य इष्-धातोः तिप्-प्रत्यये विहिते, श-विकरणप्रत्यये परे इषुगमियमां छः (७.३.७७) इत्यनेन शिति परे छकारादेशः |
- इष् + श + तिप् → इछ् + अ + ति | तदा छे च (६.१.७३) इत्यनेन ह्रस्वस्वरस्य तुगागमः | इत्छ् + अ → इच्छ् + अ + ति इच्छति इति रूपम् |