भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/bhinnamchinnamkhinnamapannamityadinipadani
Jump to navigation Jump to search

विषयः - भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि


प्रश्नः

भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् -- इमानि कीदृशानि पदानि ?


उत्तरम्

भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इत्यादीनि पदानि क्तान्तपदानि, भूतं, कृतं, गतं, श्रुतम् इव |


- भिन्नं, छिन्नं, खिन्नम्, आपन्नम् इत्यादीनि पदानि व्यवहारे असकृत् श्रूयन्ते त्रिषु वचनेषु, त्रिषु लिङ्गेषु, सप्तसु विभक्तिषु च |

- भिन्नं वस्तु, भिन्ना भाषा, भिन्नः विषयः, सन्तोषः आपन्नः, सम्पद् आपन्ना, दुःखम् आपन्नम् इत्येतादृशाः प्रयोगाः भवन्ति लोके |

- भिन्नं, छिन्नं, खिन्नम्‌, आपन्नम् इतीमानि पदानि भिद्, छिद्, खिद्, पद् इत्येषां दकारान्तधातूनां क्तान्तरूपाणि यथाक्रमम् |

- क्त-प्रत्ययः अन्ते यस्य तत्‌ क्तान्तं, बहुव्रीहिसमासः | क्तान्तं रूपं क्तान्तरूपम्‌ इति विशेषणपूर्वपदकर्मधारयसमासः |

- दकारान्तधातुभ्यः क्त-प्रत्यये विहिते रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.४.४२) इत्यनेन सूत्रेण क्तान्तनिष्पादन-प्रक्रिया प्रवर्तनीया |

- क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठा-संज्ञा भवति क्तक्तवतू निष्ठा (१.१.२६) इत्यनेन सूत्रेण |

- रदाभ्यां निष्ठातो नः पूर्वस्य च दः इत्यनेन दकारोत्तरवर्तिन्याः निष्ठायाः तकारस्य च तत्पूर्वदकारस्यापि नकारादेशः भवति |

- सूत्रे निष्ठात्‌-शब्दस्य षष्ठ्यन्तं रूपं निष्ठातः; निष्ठायाः तकारः → निष्ठायाः त्‌, निष्ठात्‌ | निष्ठात्‌ इत्यनेन क्तक्तवतु-प्रत्यययोः तकारः इति सङ्केतः |

- दृष्टान्ते, भिद् + क्त → भिद् + त | अत्र क्त-प्रत्ययस्य अनुबन्धलोपानन्तरम् अवशिष्टः तकारः निष्ठायाः त्, नाम निष्ठात् |

- भिद् + त → भिन् + न रदाभ्यां निष्ठातो नः पूर्वस्य च दः इत्यनेन सूत्रेण | भिन् + न → भिन्न इति प्रातिपदिकं निष्पन्नम् |

- एवमेव, छिद्-धातोः छिन्न, खिद्-धातोः खिन्न, पद्-धातोः पन्न, इतीमानि क्तान्तरूपाणि अनया एव रीत्या निष्पन्नानि भवन्ति |

- क्तवतु-प्रत्यये परे अपि समाना एव प्रक्रिया भवति | भिद् + क्तवतु → भिद् + तवत् → भिन् + नवत् → भिन्नवत् |

- पुंलिङ्गे भिन्नवान्, स्त्रीलिङ्गे भिन्नवती, नपुंसकलिङ्गे भिन्नवत् | एवमेव छिन्नवान्, खिन्नवान्, पन्नवान् इत्यादीनि पदानि निष्पन्नानि |

- धेयं यत् दकारान्तधातुः सेट् अस्ति चेत् क्त-प्रत्ययस्य इडागमः भवति | अयम् इडागमः धातुप्रत्यययोः मध्ये आयाति |

- तदा क्त-प्रत्ययस्य निष्ठात् तकारः धातोः साक्षात् परः नास्ति इत्यतः निष्ठातः च तत्पूर्वस्थितस्य दकारस्य नकारदेशो नास्ति |

- यथा मुद् इति धातुः सेट् | मुद् + क्त इत्यस्यां स्थित्यां क्त-प्रत्ययस्य इडागमे जाते मुद् + इ + त → मुद् + इत → मुदित |

- दकारन्त-मुद्-धातोः क्त-प्रत्यये विहिते मुद्-धातोः इकारपरत्वात्, तकारः दकारात् साक्षात् परः नास्ति इत्यस्मात् रदाभ्यां निष्ठातो नः पूर्वस्य च दः इत्यस्य प्रसक्तिर्नास्ति |


सूत्रपरिचयः

----------

रदाभ्यां निष्ठातो नः पूर्वस्य च दः (८.४.४२)

- निमित्तं - धात्वन्तदकारः अथवा रेफः, ताभ्यां परः निष्ठायाः त्, निष्ठात् | क्त-क्तवतु-प्रत्यययोः तकारः निष्ठात् इत्युच्यते |

- कार्यं - रेफदकारोत्तरवर्तिनः निष्ठातः नकारदेशः, निष्ठातः पूर्वस्थितस्य धातोः दकारस्य अपि नकारादेशः |

- खिद् + क्त → खिद् + त → खिन् + न → खिन्न, अत्र खिद्-धातोः दकारस्य च निष्ठातः नकारदेशः अनेन सूत्रेण |

रेफान्तधातोः अपि कार्यम्‌

- रेफोत्तरवर्तिनः निष्ठातः अपि नकारादेशः विधीयते अनेन सूत्रेण | तीर्णः, शीर्णः, गीर्णः इत्यादीनां निष्पत्तौ अस्यैव सूत्रस्य कार्यम् |

- दृष्टान्तत्वेन, तॄ प्लवनतरणयोः इति ॠदन्तधातोः क्तान्तनिर्माणप्रक्रिया परिशील्यते रेफोत्तरवर्तिनिष्ठातः नकारादेशस्य बोधार्थम् |

- तॄ + क्त →  तॄ + त इत्यस्यां स्थित्यां ॠत इद्‌ धातोः (७.१.१००) इत्यनेन ऋदन्तधातोः अङ्गस्य ॠकारस्य ह्रस्व-इकारादेशः |

- ह्रस्व-इकारादेशे जाते ति + त | ॠकारस्य स्थाने आदिष्टः इकारः रपरः स्यात् उरण्‌ रपरः (१.१.५१) इत्यनेन, तिर् + त |

- अधुना तिर् इति रेफान्तधातुः | हलि च (८.२.७७) इत्यनेन हलि परे रेफान्तधातूनां उपधायां स्थितस्य इकारस्य दीर्घत्वं, तीर् + त |

- तीर् + त इत्यस्यां दशायां रेफोत्तरवर्ती तकारः निष्ठात् इत्यतः रदाभ्यां निष्ठातो नः पूर्वस्य च दः इत्यनेन तस्य नकारादेशः |

- तदा तीर् + न, रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन रेफोत्तरवर्तिनकारस्य णत्वं भूत्वा तीर्ण इति क्तान्तप्रातिपदिकम् |