भुनक्ति / भुङ्क्ते
विषयः - भुनक्ति / भुङ्क्ते
प्रश्नः
"सः आहारं भुनक्ति" उत "सः आहारं भुङ्क्ते" -- अनयोः कः प्रयोगः साधुः ?
उत्तरम्
"सः आहारं भुङ्क्ते" इत्येव साधुः प्रयोगः |
- भुज पालनाभ्यवहारयोः इति रुधादिगणीयः उभयपदी धातुः | पालनम् इत्युक्तौ संरक्षणम् | अभ्यवहारः इत्युक्तौ भोजनम् |
- धेयं यत् 'भुनक्ति' इति रूपं न भवति इति तु नास्ति; तस्य प्रयोगः कथं भवति इत्यस्य बोधनार्थम् अग्रे पठ्यताम् |
- भुज् इति लौकिकधातुः | रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन श्नम्-प्रत्यये विहिते भुज् + श्नम् → भुनज् इति अङ्गम् |
- रुधादिगणे श्नम्-विकरणप्रत्ययः धातोः मध्ये उपविशति, श्नम् इति प्रत्ययस्य मित्त्वात् | अतः भुज् + श्नम् → भुज् + न → भुनज् |
- अस्य भुज्-धातोः भुजोऽनवने (१.३.६६) इत्यनेन सूत्रेण अभ्यवहारे, नाम खादनार्थे, आत्मनेपदत्वम् |
- खादनार्थे लटि प्रथमपुरुषस्य एकवचने, आत्मनेपदिनि तिङ्-प्रत्यये विहिते भुनज् + ते इति स्थितिः |
- अयम् आत्मनेपदी ते-प्रत्ययः अपित् इत्यततः सार्वधातुकमपित् (१.२.४) इत्यनेन सूत्रेण ङिद्वत् भवति |
- ते-प्रत्ययस्य ङिद्वद्भावात् श्नसोरल्लोपः (६.४.१११) इत्यनेन श्नम्-प्रत्ययस्य अकारस्य लोपः ते-प्रत्यये परे |
- भुनज् + ते इत्यस्यां दशायां श्नसोरल्लोपः इत्यनेन अकारलोपे जाते भुन् ज् + ते → भुन्ज् + ते इति |
- तदा भुन्ज् इत्यस्मिन् अङ्गे अनुस्वारादेशः, सन्धिकार्यं, परसवर्णादेशः च जायन्ते | भुन्ज् + ते → भुङ्क् + ते → भुङ्क्ते इति रूपम् |
- यदि अयं धातुः पालनार्थे उपयुक्तः तर्हि अस्य परस्मैपदत्वम् | पालनार्थे लटि प्रथमपुरुषस्य एकवचने तिप् इति प्रत्ययः विहितः भवति |
- तिप्-प्रत्यये विहिते, तिपः पित्त्वात् श्नसोरल्लोपः इत्यस्य प्रसक्तिः नास्ति | भुनज् + तिप् → भुनक् + ति → भुनक्ति इति रूपम् |
- पालनार्थे उदाहरणम् - नृपः राज्यं भुनक्ति | अभ्यवहारे तु भुजोऽनवने इत्यनेन आत्मनेपदत्वे भुङ्क्ते इति एव साधुः प्रयोगः |