ददत् / ददन्
विषयः - ददत् / ददन्
प्रश्नः
"रामः श्यामाय पुस्तकं ददत् हसितवान्" उत "रामः श्यामाय पुस्तकं ददन् हसितवान्" -- कः प्रयोगः साधुः ?
उत्तरम्
"रामः श्यामाय पुस्तकं ददत् हसितवान्" इत्येव साधुः प्रयोगः |
- दा-धातुः जुहोत्यादिगणीयः | अस्य पुंलिङ्गे ददत् इति प्रथमाविभक्त्याम् एकवचने शत्रन्तरूपम् | न तु ददन् |
- बहूनां धातूनां शत्रन्तरूपं पुंलिङ्गे एकवचने नकारान्तम् इत्यनेन दा-धातोः ददन् इति रूपं स्यात् इति शङ्खा उदेति |
- यथा, गच्छन्, खादन्, लिखन्, पिबन् इत्यादीनि शत्रन्तरूपाणि | उदाहरणम् -- बालकः गच्छन् खादति |
- किन्तु, दा-धातुः जुहोत्यादिगणीयः सन् सार्वधातुकप्रक्रियायाम् अभ्यस्तसंज्ञाम् आप्नोति इत्यतः शत्रन्तरूपाणां निर्माणविधिः किञ्चित् भिन्नः |
- दा-धातुतः शतृ-प्रत्यये विहिते, दा + शतृ इत्यस्यां दशायां शतृ-प्रत्ययस्य अनुबन्धलोपे कृते दा + अत् इति |
- शतृ-प्रत्ययः कर्त्रर्थकः सार्वधातुकः प्रत्ययः इत्यस्मात् कर्तरि शप् (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, दा + अत् → दा + शप् + अत् |
- तदा जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः), दा + शप् + अत् → दा + अत् |
- दा-धातुतः श्लौ परे श्लौ (६.१.१०) इत्यनेन दा-धातोः द्वित्वे कृते, दादा + अत् | दादा इति यत् शतृ-प्रत्ययस्य अङ्गं तस्य अभ्यस्तसंज्ञा |
- अभ्यस्तसंज्ञक-'दादा' इत्यस्मिन् अङ्गे ह्रस्वः (७.४.५९) इत्यनेन अभ्यासस्य ह्रस्वत्वम् इति अभ्यासकार्यं, ददा इति अङ्गं निष्पन्नम् |
- ददा + अत् इत्यस्यां स्थित्यां ददा इत्यस्य दीर्घ-आकारस्य लोपः जायते श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन, दद् + अत् → ददत् इति शत्रन्तं प्रातिपदिकम् |
- प्रातिपदिकनिर्माणानन्तरम् उगिदचां सर्वनामस्थानेऽधातोः (७.१.७०) इत्यनेन सर्वनामस्थानसंज्ञकप्रत्ययेषु परेषु नुमागमः विधीयते सामान्यतया | *
- पुंलिङ्गे प्रथमाविभक्ति-एकवचनप्रत्ययः सुँ इति अपि सर्वनामस्थानसंज्ञकः इत्यतः उगिदचां सर्वनामस्थानेऽधातोः इत्यस्य प्रसक्तिरस्ति सुँ-प्रत्यये परे |
- किन्तु 'दद्' इत्यस्य अभ्यस्तसंज्ञकत्वात् दद् इत्यस्मात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन नुमागमनिषेधकसूत्रेण |
- अतः ददत् इति शत्रन्तस्य प्रथमाविभक्त्याम् एकवचने ददत् + सुँ इत्यस्यां स्थित्यां न नुमागमः | सुँ-लोपे ददत् इत्येव रूपम् |
- तथैव पुंलिङ्गे प्रथमाविभक्त्यां द्विवचने ददत् + औ → ददतौ, बहुवचने च ददत् + जस् → ददतः | आहत्य प्रथमाविभक्त्यां ददत्, ददतौ, ददतः |
- अनयैव प्रक्रियया पुंलिङ्गे द्वितीयाविभक्त्याम् एकवचने ददत् + अम् → ददतं, बहुवचने ददत् + औट् → ददतौ इत्येते रूपे स्तः |
- नपुंसकलिङ्गे अपि प्रथामाविभक्त्यां द्वितीयविभक्त्यां च बहुवचनप्रत्ययौ सर्वनामस्थानसंज्ञकौ इत्यतः उगिदचां सर्वनामस्थानेऽधातोः इत्यस्य प्रसक्तिरस्ति |
- अत्रापि नाभ्यस्ताच्छतुः इत्यनेन नुमागमः निषिध्यते | किन्तु वा नपुंसकस्य (७.१.७९) इत्यनेन नपुंसकलिङ्गे वैकल्पिकः नुमागमः भवति |
- अनेन नपुंसकलिङ्गे प्रथामाविभक्त्यां बहुवचने ददत् + शि → ददति/ददन्ति, द्वितीयविभक्त्यां बहुवचने ददत् + शि → ददति/ददन्ति इति रूपद्वयस्य सिद्धत्वम् |
- आहत्य नपुंसकलिङ्गे ददत्, ददती, ददति/ददन्ति इति शत्रन्तरूपाणि प्रथमाविभक्तौ द्विदीयविभक्तौ च |
- स्त्रीलिङ्गविवक्षायां दद् + अत् + ङीप् इति स्थितौ नुमागमविधायकसूत्रं नास्ति इत्यतः स्त्रीलिङ्गे ददती इति प्रातिपदिकम् |
- तेन स्त्रीलिङ्गे ददती, ददत्यौ, ददत्यः इत्यादीनि नुमागमरहितानि शत्रन्तरूपाणि भवन्ति |
* सर्वनामस्थानसंज्ञकप्रत्ययाः
- पुंलिङ्गे पञ्च प्रत्ययाः | सुँ, औ, जस् -- प्रथमाविभक्त्याः त्रिषु वचनेषु प्रत्ययाः | अम्, औट् -- द्वीतीयाविभक्त्याः एकवचनद्विवचन-प्रत्ययौ |
- नपुंसकलिङ्गे द्वौ शि-प्रत्ययौ | प्रथमाविभक्त्यां द्वितीयाविभक्त्यां च बहुवचनप्रत्ययौ |