द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था
विषयः - द्विकर्मकधातूनां कर्तरिप्रयोगे कारकव्यवस्था
प्रश्नः
"पिता पुत्रं सन्देशं पृच्छति" उत "पिता पुत्रात् सन्देशं पृच्छति" ? कः प्रयोगः साधुः ?
उत्तरम्
उभावपि प्रयोगौ साधू | कथमिति अग्रे उच्यते |
- "पिता पुत्रं सन्देशं पृच्छति" इत्यस्मिन् वाक्ये द्वे कर्मपदे स्तः | “पुत्रम्” इति गौणकर्मपदं च “सन्देशं” प्रधानकर्मपदम् इति |
- आदौ “पिता सन्देशं पृच्छति” इति एकेन कर्मपदेन घटितं वाक्यं परिशीलयामः |
- अस्मिन् वाक्ये कर्तुरीप्सिततमं कर्म (१.४.४९) इत्यनेन सन्देश-शब्दस्य कर्मकारकं विहितं भवति |
- तदा कर्मणि द्वितीया (२.३.२) इत्यनेन सन्देश-शब्दस्य द्वितीयाविभक्त्यन्तं भूत्वा “सन्देशं” इति रूपम् |
- "पिता पुत्रं सन्देशं पृच्छति" इत्यस्मिन् कर्मपदद्वयघटितवाक्ये अकथितं च (१.४.५१) इत्यनेन पुत्र-शब्दस्य कर्मसंज्ञा |
- द्विकर्मकधातूनां प्रयोगे, वाक्ये कर्तृकारकं च कर्तुरीप्सिततमं कर्म इत्यनेन विहितं कर्मकारकं विहाय यत् कारकम् अपादानादिभिः प्रकारैः अनुक्तं तस्य कारकस्य कर्मसंज्ञा विधीयते अकथितं च इत्यनेन | अनुक्तम् इत्युक्ते वक्तुः इच्छया अनुक्तम् |
- कर्मसंज्ञायां विहितायां कर्मणि द्वितीया इत्यनेन अस्य अकथितकर्मणः द्वितीयाविभक्तिः विधीयते |
- अकथितं च इत्यनेन विहित-कर्मसंज्ञया गौणकर्मपदस्य निर्धारणम् | अत्र पुत्र-शब्दः गौणकर्मपदम् |
- गौणकर्मपदस्य अपादानादिविवक्षायां द्वितीयाविभक्त्यन्तरस्य प्राप्तिः | द्वितीयाविभक्त्यन्तरम् इत्युक्ते द्वितीयाविभक्तिभिन्नत्वम् |
- अतः वक्तुः विवक्षानुगुणम् अपादानादिविवक्षायां गौणकर्मपदस्य द्वितीयाविभक्तिभिन्ना विभक्तिः अपि भवितुम् अर्हति |
- "पिता पुत्रात् सन्देशं पृच्छति" इत्यस्मिन् अपादानविवक्षायां पुत्र-शब्दस्य “पुत्रात्” इति पञ्चमीविभक्तिघटितरूपं सिध्यति |
- अकथितं च इत्यनेन अपादानादिकारकैरविवक्षितस्य कर्मसंज्ञा केवलं षोडश-धातूनां, तत्समानार्थकधातूनां योगे एव भवति |
- एतेषु षोडशसु धातुषु एकं कर्मपदं निर्मितं कर्तुरीप्सिततमं कर्म इत्यनेन, द्वितीयं च अकथितं च इत्यनेन सूत्रेण |
- कर्मपदद्वयस्य कारणात् षोडश धातवः, तत्समानार्थकाः च द्विकर्मकाः इत्युच्यते | एते धातवः के इति अधस्तनश्लोके निर्दिष्टम् |
- दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुषाम् |
कर्मयुक् स्यादकथितं तथा स्यात् नी-हृ-कृष्-वहाम् ||
- दुहादीनां द्वादशानां च नीप्रभृतीनां चतुर्णां योगे अपादानादिभिः प्रकारैः अविवक्षितं कारकं, कर्मसंज्ञकम् इति फलितार्थः |
सूत्रपरिचयः
----------
कर्तुरीप्सिततमं कर्म (१.४.४९)
- कर्मसंज्ञाविधायकं सूत्रम् इदम् | कर्तुः क्रियया आप्तुम् इष्टतमं कारकं कर्मसंज्ञकं स्यात् इति सूत्रार्थः |
- “रामः पाठं पठति” इत्यस्मिन् वाक्ये रामः कर्ता | पठति इति क्रियापदं कर्त्रर्थे विहितः इत्यतः कर्तारं बोधयति |
- पठनक्रियायाः द्वारा रामस्य इष्टतमः, अभीष्टः अस्ति पाठः | अतः पाठः कर्मसंज्ञकः स्यात् इति सूत्रं विदधाति |
कर्मणि द्वितीया (२.३.२)
- अनभिहिते कर्मणि द्वितीया विभक्तिः भवति इति सूत्रार्थः | कर्मणः द्वितीयाविभक्ति-विधायकं सूत्रम् |
- न अभिहितः अनभिहितः, तस्मिन् अनभिहिते | अनभिहितः इत्युक्ते न उक्तः, अनुक्तः इति अर्थः |
- “रामः पाठं पठति” इत्यस्मिन् वाक्ये कर्त्रर्थे तिङ्-प्रत्यये विहिते पठति इति क्रियापदं जातम् |
- कर्त्रर्थकेन क्रियापदेन कर्ता अभिहितः अथवा उक्तः भवति | वाक्ये एकं पदम् उक्तं चेत् अन्यत् सर्वम् अनुक्तम् |
- अतः कर्तरिप्रयोगे कर्म अनभिहितम् | तादृशस्य अनभिहितस्य कर्मणः द्वितीया विभक्तिः स्यात् इति सूत्रेण उक्तम् |
अकथितं च (१.४.५१)
- अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञकं स्यात् इति सूत्रार्थः | इदमपि कर्मसंज्ञाविधायकं सूत्रम् |
- अनुवृत्ति-सहितसूत्रम्— अकथितं च कारकं कर्म |
- अपादानादि इत्युक्ते किम् ? अपादानं, सम्प्रदानं, करणं च अधिकरणम् इति कारकाणि |
- एभिः अपादानादिकारकैः यत् अविवक्षितं वा अकथितं तस्य कर्मसंज्ञा भवेत् इति इदं सूत्रं वक्ति |
- “पिता पुत्रं धर्मं ब्रूते” इत्यस्मिन् वाक्ये कर्त्रर्थे तिङ्-प्रत्यये विहिते कर्त्रर्थकं क्रियापदं “ब्रूते” इति भवति |
- कर्त्रर्थकेन क्रियापदेन “पिता” इति कर्ता कथितः | क्रियायाः द्वारा कर्तुः इष्टतमं अस्ति धर्म-पदम् |
- धर्म-पदस्य कर्मसंज्ञा कर्तुरीप्सिततमं कर्म इत्यनेन | तर्हि अवशिष्टम् अस्ति पुत्र-शब्दः |
- इदम् आपादानदिकारकैः अकथितम् | अतः पुत्र-शब्दः अकथितं कर्म भवति अकथितं च इत्यनेन |
- वक्तुः अपादानादिभिः अस्य कथनस्य इच्छा अस्ति चेत् “पिता पुत्राय धर्मं ब्रूते” इति सम्प्रदानकारकयुक्तप्रयोगः भवति |
- पुत्र-शब्दस्य चतुर्थीविभक्त्यन्तप्रयोगस्य सम्भावनायां सत्याम् अपि वक्ता सम्प्रदानकारकेण “पुत्राय” इति न कथयति इत्यतः पुत्र-शब्दस्य कर्मकारकं भवति इति सूत्रं वक्ति | इदमेव द्विकर्मकधातूनां प्रयोगे गौणकर्म इत्यपि अभिज्ञायते |