12---vyAvahArikii-shikShikA/hanti-ghnanti: Difference between revisions
m (Aurobind Padiyath moved page हन्ति/घ्नन्ति to हन्ति/घ्नन्ति without leaving a redirect) |
m (Protected "हन्ति/घ्नन्ति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(3 intermediate revisions by one other user not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE:हन्ति/घ्नन्ति}} |
|||
'''<big>विषयः--''' '''<u>हन्ति/घ्नन्ति</u>'''</big> |
|||
<big>'''प्रश्नः'''</big> |
<big>'''प्रश्नः'''</big> |
||
<big>"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?</big> |
<big>"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?</big> |
||
'''<big>उत्तरम्</big>''' |
'''<big>उत्तरम्</big>''' |
||
<big>"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |</big> |
<big>"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |</big> |
||
<big>- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |</big> |
<big>- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |</big> |
Latest revision as of 23:52, 18 July 2021
विषयः-- हन्ति/घ्नन्ति
प्रश्नः
"दुर्जनाः प्राणिनं हन्ति" , "दुर्जनाः प्राणिनं घ्नन्ति", "दुर्जनः प्राणिनं हन्ति" -- एषु प्रयोगेषु कः प्रयोगः साधुः ?
उत्तरम्
"दुर्जनः प्राणिनं हन्ति", "दुर्जनाः प्राणिनं घ्नन्ति" -- इमौ द्वौ प्रयोगौ साधू स्तः |
- हन्-धातुः अदादिगणीयः | अदादिगणे कर्त्रर्थे सार्वधातुकप्रत्यये परे अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन सूत्रेण धातुतः विहितस्य शपः लुक्, नाम शपः लोपः भवति |
- उदाहरणत्वेन, हन् + शप् + ति → हन् + ति इति भवति अदिप्रभृतिभ्यः शपः इत्यनेन सूत्रेण | शपः लोपे हन् इति अनुनासिकान्तम् अङ्गम् अवशिष्यते प्रत्ययात् पूर्वम् |
- लट्-लकारे प्रथमपुरुषस्य एकवचने हन् + ति इत्यस्यां दशायां धातुप्रत्यययोः मेलनं भूत्वा हन्ति इति रूपं निष्पन्नं भवति | अतः "दुर्जनः प्राणिनं हन्ति" इति साधुः प्रयोगः |
- हन् + ति → हं + ति, नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन नकारस्य अनुस्वारः | तदा अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन परसवर्णादेशः, हं + ति → हन् + ति → हन्ति |
- लट्-लकारे प्रथमपुरुषस्य बहुवचने "अन्ति" इति तिङ्-प्रत्ययः | अयम् अजादिः प्रत्ययः | सार्वधातुकः च अपित् प्रत्ययः इत्यतः, ङित् इव भवति |
- "अन्ति" ङिद्वत्, अजादिः इत्यतः हन् + अन्ति → ह् न् + अन्ति इति भवति गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यनेन सूत्रेण |
- गमहनजनखनघसां लोपः क्ङित्यनङि इत्यनेन सूत्रेण हन्-धात्वङ्गे उपधायां स्थितस्य अकारस्य लोपः अजादि-कित्ङित्-प्रत्यये परे |
- ह् न् + अन्ति इत्यस्यां दशायां हकारात् परे नकारः अस्ति | हो हन्तेर्ञ्णिन्नेषु (७.३.५४) इत्यनेन हन्-धातोः हकारस्य स्थाने कवर्गादेशो भवति नकारे परे च |
- ह् न् + अन्ति → घ् न् + अन्ति → घ्नन्ति |
- हो हन्तेर्ञ्णिन्नेषु इत्यनेन हकारस्य स्थाने यदा कवर्गादेशो भवति तदा स्थानेऽन्तरतमः (१.१.५०) इत्यनेन तुल्यतमः आदेशः स्यात् |
- कवर्गेषु वर्णेषु घकारः हकारस्य तुल्यतमः वर्णः इत्यतः घकारः आदिष्टः भवति हकारस्य स्थाने |
- आहत्य लट्-लकारे प्रथमपुरुषस्य बहुवचने हन्-धातोः घ्नन्ति इति रूपम् | अतः "दुर्जनाः प्राणिनं घ्नन्ति" इति साधुः प्रयोगः |