'हित्वा' कस्य धातोः ?
विषयः -हित्वा' कस्य धातोः?'
प्रश्नः
"लोभं हित्वा सुखी भवेत्" -- अस्मिन् 'हित्वा' इति कस्य धातोः रूपम्, अर्थश्च कः ?
उत्तरम्
- हित्वा इति क्त्वान्तरूपं द्वयोः धात्वोः भवति-- हा-धातोः, धा-धातोः च | उभयत्र अर्थः भिन्नः, अतः सावधानतया इदं रूपं प्रयोक्तव्यम् |
- उपरितने वाक्ये 'हित्वा' इति हा-धातोः क्त्वान्तरूपम् | 'ओहाक् त्यागे' इति जुहोत्यादिगणीयः परस्मैपदी, अनिट् धातुः | अनुबन्धलोपे हा अवशिष्यते |
- लट्-लकारे अस्य जहाति, जहीतः, जहति इत्यादीनि रूपाणि | वाक्ये प्रयोगः -- सज्जनः दुर्जनसंसर्गं जहाति (त्यजति) |
- हा-धातोः क्त्वा-प्रत्यये विहिते, हा + क्त्वा → हा + त्वा | समानकर्तृकयोः पूर्वकाले (३.४.२१) इति क्त्वा-विधायकं सूत्रम् |
- हा + त्वा इत्यस्यां दशायां जहातेश्च क्त्वि (७.४.४३) इत्यस्मात् हा-धातोः हि-आदेशः भवति क्त्वा-प्रत्यये परे |
- अनेन, हा + क्त्वा → हा + त्वा → हि + क्त्वा → हित्वा इति हा-धातोः क्त्वान्तरूपं निष्पन्नम् |
- 'हित्वा' इति जुहोत्यादिगणीयस्य 'डुधाञ् धारणपोषणयोः' इत्यस्य धातोः अपि क्त्वान्तरूपम् |
- 'डुधाञ्' इत्यस्य अनुबन्धलोपानन्तरं धा इति अवशिष्यते | दधाति, धत्तः, दधति इत्यादीनि लटि रूपाणि |
- धा-धातुतः क्त्वा-प्रत्यये विहिते दधातेर्हि (७.४.४२) इत्यनेन धा-धातोः हि-आदेशः तकारादि-किति प्रत्यये परे |
- अनेन, धा + क्त्वा → धा + त्वा → हि + त्वा → हित्वा इति धा-धातोः क्त्वान्तरूपं निष्पन्नम् |
- धा-धातोः हि-आदेशो भवति कस्मिन्नपि तकारादि-किति प्रत्येये परे, अतः वि-उपसर्गपूर्वक-क्तान्तरूपं भवति 'विहितः' |
- यथा-- 'कृ-धातोः यदा तृच्-प्रत्ययः विहितः तदा कर्तृ इति तृजन्तरूपं निष्पद्यते' इति प्रयोगः |
- दधातेर्हि (७.४.४२) इति सूत्रात् एव 'हि' इति अनुवर्तते जहातेश्च क्त्वि (७.४.४३) इत्यस्मिन् |
- उभयोः धात्वोः हि-आदेशो भवति क्त्वान्तरूपस्य निर्माणस्य समये येन रूपसाम्यम् अस्ति |
- अतः वाक्ये हित्वा इति पदस्य प्रयोगं परिशील्य, वाक्यार्थस्य बलेन अस्य अर्थः निर्णेतव्यः |
- "लोभं हित्वा सुखी भवेत्" इत्यस्य "लोभं त्यक्त्वा सुखी भवेत्" इति अर्थः |
- त्यक्त्वा इति अर्थः चेत् हा-धातोः एव क्त्वान्तरूपम् अस्ति न तु धा-धातोः |