12---vyAvahArikii-shikShikA/hitvakasyadhatoh: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/hitvakasyadhatoh
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "'हित्वा' कस्य धातोः ?" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(5 intermediate revisions by 3 users not shown)
Line 1: Line 1:
{{DISPLAYTITLE:'हित्वा' कस्य धातोः ?}}
<please replace this with content from corresponding Google Sites page>

'''<big>विषयः -<u>हित्वा' कस्य धातोः?</u></big><u>'</u>'''



<big>'''<u>प्रश्नः</u>'''</big>

<big>"लोभं हित्वा सुखी भवेत्" -- अस्मिन् 'हित्वा' इति कस्य धातोः रूपम्‌, अर्थश्च कः ?</big>


'''<big><u>उत्तरम्</u></big>'''



<big>- हित्वा इति क्त्वान्तरूपं द्वयोः धात्वोः भवति-- हा-धातोः, धा-धातोः च | उभयत्र अर्थः भिन्नः, अतः सावधानतया इदं रूपं प्रयोक्तव्यम्‌ |</big>

<big>- उपरितने वाक्ये 'हित्वा' इति हा-धातोः क्त्वान्तरूपम् | 'ओहाक् त्यागे' इति जुहोत्यादिगणीयः परस्मैपदी, अनिट् धातुः | अनुबन्धलोपे हा अवशिष्यते |</big>

<big>- लट्-लकारे अस्य जहाति, जहीतः, जहति इत्यादीनि रूपाणि | वाक्ये प्रयोगः -- सज्जनः दुर्जनसंसर्गं जहाति (त्यजति) |</big>

<big>- हा-धातोः क्त्वा-प्रत्यये विहिते, हा + क्त्वा '''→''' हा + त्वा | '''समानकर्तृकयोः पूर्वकाले''' (३.४.२१) इति क्त्वा-विधायकं सूत्रम् |</big>

<big>- हा + त्वा इत्यस्यां दशायां '''जहातेश्च क्त्वि''' (७.४.४३) इत्यस्मात् हा-धातोः हि-आदेशः भवति क्त्वा-प्रत्यये परे |</big>

<big>- अनेन, हा + क्त्वा '''→''' हा + त्वा '''→''' हि + क्त्वा '''→''' हित्वा इति हा-धातोः क्त्वान्तरूपं निष्पन्नम् |</big>

<big>- 'हित्वा' इति जुहोत्यादिगणीयस्य 'डुधाञ् धारणपोषणयोः' इत्यस्य धातोः अपि क्त्वान्तरूपम् |</big>

<big>- 'डुधाञ्' इत्यस्य अनुबन्धलोपानन्तरं धा इति अवशिष्यते | दधाति, धत्तः, दधति इत्यादीनि लटि रूपाणि |</big>

<big>- धा-धातुतः क्त्वा-प्रत्यये विहिते '''दधातेर्हि''' (७.४.४२) इत्यनेन धा-धातोः हि-आदेशः तकारादि-किति प्रत्यये परे |</big>

<big>- अनेन,  धा + क्त्वा '''→''' धा + त्वा '''→''' हि + त्वा '''→''' हित्वा इति धा-धातोः क्त्वान्तरूपं निष्पन्नम् |</big>

<big>- धा-धातोः हि-आदेशो भवति कस्मिन्नपि तकारादि-किति प्रत्येये परे, अतः वि-उपसर्गपूर्वक-क्तान्तरूपं भवति 'विहितः' |</big>

<big>- यथा-- 'कृ-धातोः यदा तृच्‌-प्रत्ययः विहितः तदा कर्तृ इति तृजन्तरूपं निष्पद्यते' इति प्रयोगः |</big>

<big>- '''दधातेर्हि''' (७.४.४२) इति सूत्रात् एव 'हि' इति अनुवर्तते '''जहातेश्च क्त्वि''' (७.४.४३) इत्यस्मिन् |</big>

<big>- उभयोः धात्वोः हि-आदेशो भवति क्त्वान्तरूपस्य निर्माणस्य समये येन रूपसाम्यम् अस्ति |</big>

<big>- अतः वाक्ये हित्वा इति पदस्य प्रयोगं परिशील्य, वाक्यार्थस्य बलेन अस्य अर्थः निर्णेतव्यः |</big>

<big>- "लोभं हित्वा सुखी भवेत्" इत्यस्य "लोभं त्यक्त्वा सुखी भवेत्" इति अर्थः |</big>

<big>- त्यक्त्वा इति अर्थः चेत् हा-धातोः एव क्त्वान्तरूपम् अस्ति न तु धा-धातोः |</big>

Latest revision as of 23:43, 18 July 2021


विषयः -हित्वा' कस्य धातोः?'


प्रश्नः

"लोभं हित्वा सुखी भवेत्" -- अस्मिन् 'हित्वा' इति कस्य धातोः रूपम्‌, अर्थश्च कः ?


उत्तरम्


- हित्वा इति क्त्वान्तरूपं द्वयोः धात्वोः भवति-- हा-धातोः, धा-धातोः च | उभयत्र अर्थः भिन्नः, अतः सावधानतया इदं रूपं प्रयोक्तव्यम्‌ |

- उपरितने वाक्ये 'हित्वा' इति हा-धातोः क्त्वान्तरूपम् | 'ओहाक् त्यागे' इति जुहोत्यादिगणीयः परस्मैपदी, अनिट् धातुः | अनुबन्धलोपे हा अवशिष्यते |

- लट्-लकारे अस्य जहाति, जहीतः, जहति इत्यादीनि रूपाणि | वाक्ये प्रयोगः -- सज्जनः दुर्जनसंसर्गं जहाति (त्यजति) |

- हा-धातोः क्त्वा-प्रत्यये विहिते, हा + क्त्वा हा + त्वा | समानकर्तृकयोः पूर्वकाले (३.४.२१) इति क्त्वा-विधायकं सूत्रम् |

- हा + त्वा इत्यस्यां दशायां जहातेश्च क्त्वि (७.४.४३) इत्यस्मात् हा-धातोः हि-आदेशः भवति क्त्वा-प्रत्यये परे |

- अनेन, हा + क्त्वा हा + त्वा हि + क्त्वा हित्वा इति हा-धातोः क्त्वान्तरूपं निष्पन्नम् |

- 'हित्वा' इति जुहोत्यादिगणीयस्य 'डुधाञ् धारणपोषणयोः' इत्यस्य धातोः अपि क्त्वान्तरूपम् |

- 'डुधाञ्' इत्यस्य अनुबन्धलोपानन्तरं धा इति अवशिष्यते | दधाति, धत्तः, दधति इत्यादीनि लटि रूपाणि |

- धा-धातुतः क्त्वा-प्रत्यये विहिते दधातेर्हि (७.४.४२) इत्यनेन धा-धातोः हि-आदेशः तकारादि-किति प्रत्यये परे |

- अनेन,  धा + क्त्वा धा + त्वा हि + त्वा हित्वा इति धा-धातोः क्त्वान्तरूपं निष्पन्नम् |

- धा-धातोः हि-आदेशो भवति कस्मिन्नपि तकारादि-किति प्रत्येये परे, अतः वि-उपसर्गपूर्वक-क्तान्तरूपं भवति 'विहितः' |

- यथा-- 'कृ-धातोः यदा तृच्‌-प्रत्ययः विहितः तदा कर्तृ इति तृजन्तरूपं निष्पद्यते' इति प्रयोगः |

- दधातेर्हि (७.४.४२) इति सूत्रात् एव 'हि' इति अनुवर्तते जहातेश्च क्त्वि (७.४.४३) इत्यस्मिन् |

- उभयोः धात्वोः हि-आदेशो भवति क्त्वान्तरूपस्य निर्माणस्य समये येन रूपसाम्यम् अस्ति |

- अतः वाक्ये हित्वा इति पदस्य प्रयोगं परिशील्य, वाक्यार्थस्य बलेन अस्य अर्थः निर्णेतव्यः |

- "लोभं हित्वा सुखी भवेत्" इत्यस्य "लोभं त्यक्त्वा सुखी भवेत्" इति अर्थः |

- त्यक्त्वा इति अर्थः चेत् हा-धातोः एव क्त्वान्तरूपम् अस्ति न तु धा-धातोः |