क्रीडाङ्गनम्/क्रीडाङ्गणम्
विषयः— क्रीडाङ्गनम्/क्रीडाङ्गणम्
प्रश्नः
क्रीडाङ्गनम् , क्रीडाङ्गणम् -- अनयोः कः प्रयोगः साधुः ?
उत्तरम्
क्रीडाङ्गनम् , क्रीडाङ्गणम् -- उभौ प्रयोगौ साधू स्तः |
- अङ्ग, पदे लक्षणे च, इति धातुः चुरादिगणीयः अकारान्तः | अङ्गयति इति लटि प्रथमपुरुषैकवचनान्तरूपम् |
- ल्युट्-प्रत्ययः आर्धातुकः अनिट् प्रत्ययः | क्रियायाः भावं सूचयति | सर्वेभ्यः धातुभ्यः विहितः | अनिट् इत्यनेन तस्य इडागमः न भवति |
- धातुभ्यः ल्युटि विहिते यत् पदं निष्पन्नं तच्च नपुंसकलिङ्गम् | यथा— गमनं, लेखनं, कथनं, चिन्तनम् इत्यादीनि पदानि |
- अङ्ग + ल्युट् → अनुबन्धलोपे सति → अङ्ग + यु इति अवशिष्यते |
- धातुभ्यः ल्युटि विहिते युवोरनाकौ (७.१.१) इत्यस्य प्रसक्तिः | सूत्रार्थः एवम्— अङ्गात् परं यु, वु इत्यनयोः स्थाने क्रमशः अन च अक च आदेशौ भवतः |
- अनेन सूत्रेण ल्युटः अनुबन्धलोपानन्तरं यः 'यु', तस्य स्थाने अन-आदेशः | अङ्ग + यु → अङ्ग + अन |
- अङ्ग + अन इति स्थितौ अतो लोपः (६.४.४८) इत्यनेन आर्धधातुके प्रत्यये परे, अदन्ताङ्गस्य ह्रस्व-अकारलोपः भवति | अङ्ग + अन → अङ्गनम् |
- क्रीडा + अङ्गनम् इति समासे सति क्रीडायाः अङ्गनम्, क्रीडाङ्गनम् इति षष्ठीतत्पुरुषसमासः |
- यद्यपि ल्युडन्तस्य, अङ्गनशब्दस्य निर्माणावसरे णत्वस्य निमित्तं नास्ति इत्यतः णत्वं न विधीयते, तथापि अङ्गणम् इति णत्वघटितः प्रयोगः बहुत्र श्रूयते | मूले च साहित्ये शिष्टप्रयोगे अस्ति |
- अङ्गणम् इति शब्दप्रयोगः शिष्टैः कृतः इत्यस्मात् रूपं साधनीयमेव | स्मरणीयं यत् प्रथमतया भाषा, तदा एव व्याकरणं; लोके ये प्रयोगाः लभ्यन्ते, तान् प्रयोगान् व्याकरणं वर्णयति | विपरीतं तु नास्ति ! साहित्ये शब्दः प्रयोगे अस्ति चेदपि व्याकरणे निमित्तं नोक्तम् इति कृत्वा रूपं निषिद्धम् इति तु दोष एव; शब्दः लोके अस्ति चेत्, तस्य वर्णनं व्याकरणस्य कार्यम् |
- कुत्रचित् अष्टाध्याय्याम् एकस्य एव पदस्य साधनार्थम् अनेकानि नूतनसूत्राणि सूत्रकारैः विरचनीयानि स्युः; तद्दृष्ट्वा पाणिनिना चिन्तितं यत् 'मास्तु; अस्मिन् पथि लाघवं नास्ति' | अनेकनूतनसूत्राणि मास्तु इति भवतु, किन्तु रूपं तु कथञ्चित् साधनीयम् आसीत् | तदर्थम् आसु परिस्थितिषु अष्टाध्याय्याम् एकेन एव सूत्रेण रूपविधानं साक्षात् क्रियते | एतादृशकार्यं 'निपातनम्' इति वैयाकरणैः नामकरणम् |
- अत्र पृषोदराऽदीनि यथोपदिष्टम् (६.३.१०९) तादृशं सूत्रम् | अनेन शिष्टैः ये शब्दाः यथा प्रयुक्ताः तथा स्वीकरणीयाः भवन्ति |
- पृषोदरादिगणे एते शब्दाः उच्चारिताः— ‘पृषोदर’, ‘पृषोत्थान’, ‘बलाहक‘, ‘जीमूत’, ‘श्मशान’, ‘उलूखल’, ‘पिशाच’, ‘बृसी’, ‘मयूर’ | नाम एषां शब्दानां व्युत्पत्त्यर्थं प्रक्रिया नास्ति; साक्षात् 'इमे शब्दाः भवन्तु' इति सूत्रेण विधानम् | तस्य कारण्ञ्च उपर्युक्तं— तेषां व्युत्पत्त्यर्थम् अधिकाधिकानि सूत्राणि अपेक्षितानि स्युः इति कृत्वा पाणिनिना विचिन्त्य 'मास्तु' इति निश्चितम् |
- अस्तु, किन्तु अङ्गणम् इति शब्दः अस्मिन् पृषोदरादिगणे नोक्तः | अत्र पृषोदरादिगणः 'आकृतिगणः' इति बोध्यम् | आकृतिगणः नाम तादृशगणः यस्मिन् इतोऽपि शब्दान् योजयितुं शक्यन्ते |
- अनेन अङ्गणम् इति शब्दः यद्यपि पृषोदरादिगणे नोच्चारितः, किन्तु शब्दकल्पद्रुमकारेण उक्तं यत् शिष्टप्रयोगवशात् आकृतिगणत्वाच्च पृषोदरादिगणे अङ्गणशब्दः संयुक्तः | इत्थञ्च व्याकरणलोके निपातनं कृत्वा अङ्गणशब्दे णत्वं प्रदर्शितम् |
- आहत्य क्रीडाङ्गनं च क्रीडाङ्गणम्, उभयोः साधुत्वम् अस्ति |