लिखित्वा/लेखित्वा
विषयः--लिखित्वा/लेखित्वा
प्रश्नः
"सः भाषणं लिखित्वा पठति" उत "सः भाषणं लेखित्वा पठति" -- अनयोः कः साधुः ?
उत्तरम्
"सः भाषणं लिखित्वा पठति", "सः भाषणं लेखित्वा पठति" -- उभौ प्रयोगौ साधू स्तः |
- लिख्-धातुः, अक्षरविन्यासे इति तुदादिगणीयः, सेट् धातुः | अयं हलादिः, रलन्तः, इदुपधः धातुः च |
- क्त्वा-प्रत्ययः वलादिः, आर्धधातुकः प्रत्ययः; अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन तस्य इडागमः विधीयते |
- क्त्वा-प्रत्ययः कित्; अस्य कित्त्वात् क्त्वा-प्रत्यये परे धात्वङ्गे गुणस्य निषेधः भवति इति सामान्यः नियमः |
- अधुना लिख् + क्त्वा इत्यस्यां दशायां लिख् सेट्, क्त्वा अपि सेट् इत्यतः इडनुकूलता वर्तते | लिख् + क्त्वा → लिख् + इ + त्वा |
- इडनुकूलतायां सत्यां न क्त्वा सेट् (१.२.१८) इत्यनेन 'क्त्वा कित् नास्ति' इति आरोपो भवति | इदम् अतिदेशसूत्रम् |
- यत्र क्त्वा-प्रत्ययस्य इडागमो भवति, तत्र गुणः अपेक्षितः | गुणस्य रक्षणार्थं कित्त्वं बाधितं न क्त्वा सेट् इत्यनेन सूत्रेण |
- यथा, स्विद् → स्वेदित्वा, दिव् → देवित्वा, वृत् → वर्तित्वा - एषु इडागमः विहितः, गुणः इष्टः च | अतः क्त्वा-प्रत्ययस्य कित्त्वं बाधितम् |
- एवं रीत्या लिख् सेट् अतः न क्त्वा सेट् इत्यनेन क्त्वा-प्रत्ययस्य कित्वाभावे लिख्-धातौ अपि गुणः सम्भवति पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन | लिख् + इ + क्त्वा → लेखित्वा |
- पुनः, केषुचित् स्थलेषु इदं गुणकार्यं वैकल्पिकं भवति रलो व्युपधाद् हलादेः संश्च (१.२.२६) इत्यस्य सूत्रस्य कारणेन |
- रलो व्युपधाद् हलादेः संश्च इत्यनेन इकारोपधात् उकारोपधात् च हलादेः रलन्तात् धातोः परस्य क्त्वा-प्रत्ययस्य कित्त्वं वैकल्पिकम् |
- अनेन हलादि-इदुपध-रलनत-लिख्-धातूत्तरस्य क्त्वा-प्रत्ययस्य कित्त्वं वैकल्पिकम् | लिख्-धातुतः विहितः क्त्वा-प्रत्ययः विकल्पेन कित् |
- कित्त्वं न बाधितं चेत् गुणकार्यं बाधितम् | तदा लिख् + इ + क्त्वा → लिखित्वा इति रूपम् | कित्त्वं बाधितम् चेत् गुणत्वात् लेखित्वा इति रूपम् |
- अतः लिख्-धातोः लिखित्वा-लेखित्वा इति क्त्वान्तरूपद्वयं सिध्यति | उभे रूपे सधू स्तः |
- कृ-धातुः सेट् नास्ति इत्यतः न क्त्वा सेट् (१.२.१८) इत्यस्य प्रसक्तिर्नास्ति; कित्त्वात् गुणनिषेधः | कृ + क्त्वा → कृत्वा |
- लिख्-धातुतः क्तवतु-प्रत्यये परे, यद्यपि लिख्-धातुः सेट्, किन्तु क्तवतौ न क्त्वा सेट् (१.२.१८) इत्यस्य प्रसक्तिर्नास्ति; कित्त्वात् गुणनिषेधः | लिख् + इ + क्तवतु → लिखितवान् |
- तुमुन्-प्रत्यये परे तु गुणः न निषिध्यते यतोहि तुमुन् कित् नास्त्येव | लिख् + तुमुन् → लिख् + इ + तुमुन् → लेखितुम् |