मातापितरौ / मातृपितरौ

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/matapitaraumatrpitarau
Jump to navigation Jump to search

विषयः - मातापितरौ / मातृपितरौ


प्रश्नः

"मातापितरौ आगच्छतः" उत "मातृपितरौ आगच्छतः" -- तयोः कः साधुः ?


उत्तरम्

"मातापितरौ आगच्छतः" इत्येव साधुः प्रयोगः |


- माता च पिता च, मातापितरौ इति लोके प्रसिद्धः द्वन्द्वसमासः | अस्मिन् माता पूर्वपदं, पिता उत्तरपदं च |

- यथा, हरिहरौ | अस्य हरिश्च हरश्च इति लौकिकविग्रहः | हरि सुँ + हर सुँ इति अलौकिकविग्रहः |

- समासप्रक्रियायाम् अलौकिकविग्रहे स्थितस्य अवयवसमुदायस्य, "हरि सुँ + हर सुँ" इत्यस्य समाससंज्ञा प्रातिपदिकसंज्ञा च विधीयते |

- समासस्य सामान्यनियमः अस्ति यत्‌ समासे अन्तर्भूतानां सुबन्तानां सुपः लुक् भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन |

- हरि सुँ + हर सुँ इति समासः | अस्य प्रातिपदिकत्वात् सुपो धातुप्रातिपदिकयोः इत्यनेन सुपः लुक्, हरि सुँ + हर सुँ हरि + हर इति |

- हरि + हर हरिहर इति | अस्मात् प्रातिपदिकसंज्ञकात् समासात् विभक्तिविहिते समस्तपदस्य विभक्तिसहितं रूपं भवति |

- हरिहर इति प्रातिपदिकं निमित्तीकृत्य यदा द्वित्वविवक्षायां विभक्तिः विधीयते हरिहरौ इति समस्तपदम् |

- इमं नियमम् अनुसृत्य, माता च पिता च मातृपितरौ इति किमर्थं न स्यात्, अपि तु मातापितरौ इति प्रश्नः उदेति | प्रश्नस्य समाधानम् अग्रे |

- 'माता च पिता च' इत्यस्य चार्थे द्वन्द्वः (२.२.२९) इत्यनेन द्वन्द्वसमासः | मातृ सुँ + पितृ सुँ इति द्वन्द्वार्थे अलौकिकविग्रहः | - आनङ् ऋतो द्वन्द्वे इत्यनेन विद्यायोनिसम्बन्धवाचकऋदन्तानां द्वन्दे 'आनङ्' इति आदेशः भवति पूर्वपदस्य | अतः मातृ इत्यस्य आनङ् आदेशः |