12---vyAvahArikii-shikShikA/matapitaraumatrpitarau: Difference between revisions
No edit summary |
m (Protected "मातापितरौ / मातृपितरौ" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(3 intermediate revisions by one other user not shown) | |||
Line 1:
'''<big>विषयः - <u>मातापितरौ / मातृपितरौ</u></big>'''
<big>'''प्रश्नः'''</big> ▼
▲<big>'''<u>प्रश्नः</u>'''</big>
<big>"मातापितरौ आगच्छतः" उत "मातृपितरौ आगच्छतः" -- तयोः कः साधुः ?</big>
<big>'''<u>उत्तरम्</u>'''</big>
<big>"मातापितरौ आगच्छतः" इत्येव साधुः प्रयोगः |</big>
<big>- माता च पिता च, मातापितरौ इति लोके प्रसिद्धः द्वन्द्वसमासः | अस्मिन् माता पूर्वपदं, पिता उत्तरपदं च |</big>
|
Latest revision as of 23:50, 18 July 2021
विषयः - मातापितरौ / मातृपितरौ
प्रश्नः
"मातापितरौ आगच्छतः" उत "मातृपितरौ आगच्छतः" -- तयोः कः साधुः ?
उत्तरम्
"मातापितरौ आगच्छतः" इत्येव साधुः प्रयोगः |
- माता च पिता च, मातापितरौ इति लोके प्रसिद्धः द्वन्द्वसमासः | अस्मिन् माता पूर्वपदं, पिता उत्तरपदं च |
- यथा, हरिहरौ | अस्य हरिश्च हरश्च इति लौकिकविग्रहः | हरि सुँ + हर सुँ इति अलौकिकविग्रहः |
- समासप्रक्रियायाम् अलौकिकविग्रहे स्थितस्य अवयवसमुदायस्य, "हरि सुँ + हर सुँ" इत्यस्य समाससंज्ञा प्रातिपदिकसंज्ञा च विधीयते |
- समासस्य सामान्यनियमः अस्ति यत् समासे अन्तर्भूतानां सुबन्तानां सुपः लुक् भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन |
- हरि सुँ + हर सुँ इति समासः | अस्य प्रातिपदिकत्वात् सुपो धातुप्रातिपदिकयोः इत्यनेन सुपः लुक्, हरि सुँ + हर सुँ → हरि + हर इति |
- हरि + हर → हरिहर इति | अस्मात् प्रातिपदिकसंज्ञकात् समासात् विभक्तिविहिते समस्तपदस्य विभक्तिसहितं रूपं भवति |
- हरिहर इति प्रातिपदिकं निमित्तीकृत्य यदा द्वित्वविवक्षायां विभक्तिः विधीयते हरिहरौ इति समस्तपदम् |
- इमं नियमम् अनुसृत्य, माता च पिता च मातृपितरौ इति किमर्थं न स्यात्, अपि तु मातापितरौ इति प्रश्नः उदेति | प्रश्नस्य समाधानम् अग्रे |
- 'माता च पिता च' इत्यस्य चार्थे द्वन्द्वः (२.२.२९) इत्यनेन द्वन्द्वसमासः | मातृ सुँ + पितृ सुँ इति द्वन्द्वार्थे अलौकिकविग्रहः | - आनङ् ऋतो द्वन्द्वे इत्यनेन विद्यायोनिसम्बन्धवाचकऋदन्तानां द्वन्दे 'आनङ्' इति आदेशः भवति पूर्वपदस्य | अतः मातृ इत्यस्य आनङ् आदेशः |