नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/naike-anekeananyah-nanyahityadayahprayogah
Jump to navigation Jump to search

विषयः नैके-अनेके, अनन्यः-नान्यः इत्यादयः प्रयोगाः


प्रश्नः

"वने अनेके वृक्षाः सन्ति" उत "वने नैके वृक्षाः सन्ति" ? कः प्रयोगः साधुः ?


उत्तरम्

"वने अनेके वृक्षाः सन्ति" वा "वने नैके वृक्षाः सन्ति" उभयथा अपि प्रयोगः साधुः |


- व्यावहारिके विद्वन्मुखात् असकृत् श्रूयन्ते नान्यः-अनन्यः, नैके-अनेके, नाश्वः-अनश्वः इत्यादयः प्रयोगाः | कथमत्र व्यवस्था इति पश्येम |

- नान्यः, नैके, नाश्वः इत्यादिषु प्रयोगेषु 'न' इति निषेधार्थकम् अव्ययम् | तस्माद् अचि परे सवर्णदीर्घादिषु कृतेषु एवं रूपाणि भवन्ति |

- अनन्यः, अनेके, अनश्वः इत्यादिषु 'नञ्' इति निषेधार्थकम् अव्ययम् नञ्तत्पुरुषसमासः च |

- नञ् + अन्य इत्यस्यां दशायां नलोपो नञः (६.३.७३) इत्यनेन सूत्रेण नलोपे अ + अन्य |

- तदा तस्मान् नुडचि (६.३.७४) इत्यनेन नुडागमे अ + नुट् + अन्य |

- उकारटकारयोः इत्संज्ञायां लोपे अ + न् + अन्य -> अनन्य इति रूपम् |

- नान्यः, अनन्यः उभयोरर्थे नास्ति भेदः | समासकार्ये उभयोर्मध्ये भेदः भवति |

- 'न' अव्यये समासो भवति | सह सुपा (२.१.४) इत्यनेन सूत्रेण केवलसमासः | नान्य इति समस्तप्रयोगः |

- 'नञ' अव्यये समासो भवति | सः नञ्तत्पुरुषसमासः अस्ति | अनन्य इति समस्तप्रयोगः |

- नञ्तत्पुरुषे नकारस्य लोपः नुडागमश्च भवति | परन्तु 'न' इति अव्ययेन समासे कृते तथा न भवति |