12---vyAvahArikii-shikShikA/nirmayanirmiya: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/nirmayanirmiya
Jump to navigation Jump to search
No edit summary
m (Aurobind Padiyath moved page निर्माय/निर्मीय to निर्माय/निर्मीय without leaving a redirect)
(No difference)

Revision as of 13:49, 18 June 2021

विषयः—  निर्माय/निर्मीय

प्रश्नः

"सः नूतनं गृहं निर्माय वसति" उत "सः नूतनं गृहं निर्मीय वसति" ? कस्साधुः ?

उत्तरम्

"सः नूतनं गृहं निर्माय वसति" इत्येव साधुः प्रयोगः |

- निर् उपसर्गपूर्वकः माधातोः (माङ् -माने जुहोत्यादिः, माङ् - माने दिवादिः, मा - माने अदादिः) क्त्वा प्रत्यये परे "समासेऽनञ्पूर्वे क्त्वो ल्यप्‌" इत्यस्मात् ल्यबादेशः भवति | तेन निर् + मा + ल्यप् |

- लकारपकारयोः इत्संज्ञायां लोपे च कृते निर् + मा + य |

- "घुमास्थागापाजहातिसां हलि" इति सूत्रेण ईत्वं भवति स्म -> निर् + मी  + य |

- किन्तु "न ल्यपि" इति सूत्रेण ईत्वनिषेधे निर् + मा + य  इत्येव तिष्ठति |

अतः निर्माय इत्येव साधुः न तु निर्मीय।

उदा--

तथेति गिरिशादिष्टो मयः पर-पुरं-जयः

पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम्