पक्वः/पक्तः
विषयः--पक्वः/पक्तः
प्रश्नः
"पाचकेन तण्डुलः पक्वः" उत "पाचकेन तण्डुलः पक्तः" -- अनयोः कः प्रयोगः साधुः ?
उत्तरम्
"पाचकेन तण्डुलः पक्वः" इत्येव साधुः प्रयोगः |
- डुपचष् पाके इति भ्वादिगणीयः, अनिट् धातुः | अनुबन्धलोपानन्तरं पच् इति लौकिकधातुः अवशिष्यते |
- क्त-प्रत्ययः आर्धधातुकः, सेट् च कित् प्रत्ययः | क्तक्तवतू निष्ठा (१.१.२६) इत्यनेन सूत्रेण क्त-प्रत्ययस्य क्तवतु-प्रत्ययस्य च निष्ठासंज्ञा |
- पच्-धातुतः झलादि-क्त-प्रत्यये विहिते चोः कुः (८.२.३०) इत्यनेन सूत्रेण पच्-धात्वाङ्गे चकारस्य स्थाने ककारादेशः, पच् + क्त → पक् + त |
- पक् + त इत्यस्यां दशायां पचो वः (८.२.५२) इत्यनेन निष्ठासंज्ञकस्य क्त-प्रत्ययस्य तकारस्य स्थाने वकारादेशः, पक् + त → पक् + व |
- आहत्य पच्-धातोः क्त-प्रत्यये परे पच् + क्त → पक् + त → पक् + व → पक्व इति प्रातिपदिकं निष्पन्नम्। स्त्रीलिङ्गे पक्वा, पुंलिङ्गे पक्वः, नपुंसकलिङ्गे पक्वम् |
- अत्र पच् + क्त इति स्थितौ चोः कुः, पचो वः द्वयोः अपि सूत्रयोः युगपत् प्रसक्तिः | द्वे अपि त्रिपादिसूत्रे इत्यतः पूर्वत्रासिद्धम् (८.२.१) इत्यनेन परशास्त्रम् असिद्धं भवति |
- तस्मात् पूर्वसूत्रस्य, नाम चोः कुः इत्यस्य कार्यं प्रथमम् आयाति |
- यदि पचो वः इत्यस्य कार्यं प्रथमम् अभविष्यत् तर्हि पच्-धतोः चकारस्य वकारपरत्वात् चोः कुः इति अप्रसक्तम् अभविष्यत्, वकारः झलि नास्ति इत्यतः | अनेन पक्व इति इष्टं रूपं नासेत्स्यत् |
- अतः पक्व इति इष्टं रूपं साधयितुं चोः कुः इत्यनेन चकारस्य स्थाने ककारः इति सन्धिकार्यं प्रथमं भवति | तदनन्तरम् एव पचो वः इत्यनेन क्त-प्रत्ययस्य तकारस्य वकारदेशः |
- अनया एव रीत्या पच्-धातुतः निष्ठासंज्ञके क्तवतु-प्रत्यये विहिते पक्ववत् इति प्रातिपदिकम्, स्त्रीलिङ्गे पक्ववती, पुंलिङ्गे पक्ववान् |
- निष्ठासंज्ञकप्रत्ययौ विहाय अपरेषु प्रत्ययेषु परेषु पचो वः (८.२.५२) इत्यनेन वकारादेशः नास्ति; एषु अपरेषु झलादि-प्रत्ययेषु चोः कुः इत्यनेन च-कारस्य स्थाने क-कारः इति सन्धिकार्यमेव |
- यथा, पच् + तुमुन् → पक्तुम्, पच् + क्त्वा → पच् + त्वा '→' पक्त्वा, पच् + तव्यत् → पक्तव्य इत्यादीनि रूपाणि |