प्रभावेन / प्रभावेण
विषयः—प्रभावेन / प्रभावेण
प्रश्नः
"अध्ययनस्य प्रभावेन अज्ञानं नश्यति" उत "अध्ययनस्य प्रभावेण अज्ञानं नश्यति" -- अनयोः कः प्रयोगः साधुः ?
"शीतजलस्य प्रयोगेन स्नानं समीचीनम्" उत "शीतजलस्य प्रयोगेण स्नानं समीचीनम्"-- अनयोः कः प्रयोगः साधुः ?
उत्तरम्
"अध्ययनस्य प्रभावेन अज्ञानं नश्यति", "अध्ययनस्य प्रभावेण अज्ञानं नश्यति"-- उभौ प्रयोगौ साधू स्तः |
किन्तु "शीतजलस्य प्रयोगेण स्नानं समीचीनम्" इत्येव साधुः |
- असमस्तपदे (समानपदे) रकारात्, ऋकारात्, षकारात् च साक्षात् परं नकारः अस्ति चेत् तस्य णत्वं भवति रषाभ्यां नो णः समानपदे (८.४.१) इत्यनेन सूत्रेण |
- नाम, यत्र निमित्तनकारयोः अव्यवहितसम्बन्धः—द्वयोः मध्ये यत्र अन्यः कोऽपि वर्णो नास्ति—तत्र रषाभ्यां नो णः समानपदे (८.४.१) इति णत्वविधायकसूत्रम् | यथा पूर्णः, जीर्णः, ऋणम्, उष्णः, कृष्णः |- असमस्तपदे (समानपदे) निमित्तनकारयोः मध्ये वर्णः अट्-प्रत्याहारस्थः (स्वरः, ह्, य्, र्, व्), कवर्गीयः, पवर्गीयः, आङ् च नुम् अस्ति चेदपि णत्वं भवति अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) इति सूत्रेण |- यथा ग्रहणम्, रामायणम्, क्रियमाणः, पोषणम्, विष्णुः | विभक्तिषु अपि णत्वम् एवमेव, यथा रामेण, हरिणा, गुरुणा |- इमे द्वे सूत्रे सामान्यज्ञानं— णत्वविषये प्रमुखसूत्रद्वयम् इदमेव |
- पाणिनीयव्याकरणज्ञानं सामान्यविशेष्ययोः | प्रत्येकस्मिन् व्याकरणविभागे सामान्यमपि अस्ति, विशेषोऽपि अस्ति |
- णत्वमपि तथा; "रकारः, ऋकारः, षकारः इत्येषु अन्यतमं निमित्तं पूर्वं, समानपदे परस्य नकारस्य णत्वं भवति" इति सामान्यज्ञानम् |- येषां मनसि इदं सामान्यज्ञानं वर्तते, ते जानन्ति यत् णत्वं तदानीं भवति यदा निमित्तञ्च नकारश्च, द्वावपि समानपदे स्तः |- समानपदम् इत्युक्ते अखण्डपदं— तादृशं पदं यस्य खण्डनं न भवितुम् अर्हति |- समासस्य खण्डनं सम्भवति— तस्य विग्रहवाक्यं भवति, सामान्यतया व्यस्तप्रयोगश्च भवति, अतः समासः अखण्डपदं नास्ति |- अतः उपर्युक्ताभ्यां सामान्यसूत्राभ्याम् इदमपि सामान्यज्ञानं यत् समस्तपदे णत्वं न भवति |- नाम यत्र निमित्तं समासस्य पूर्वपदे, नकारश्च उत्तरपदे, तत्र णत्वं न भवति इति सामान्यज्ञानम् |- बहूनां जनानाम् इदं णत्व-सामान्यज्ञानं वर्तते; किन्तु किञ्चित् विशेषज्ञानम् अपि न भवति चेत्, तत्र अस्माकं दोषो भविष्यति |- अष्टाध्याय्यां णत्वसम्बद्धानि ३९ सूत्राणि सन्ति; प्रथमसूत्रद्वयं रषाभ्यां नो णः समानपदे (८.४.१), अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) च | अनेन सामान्यज्ञानम् |- तत्पश्चात् ३७ सूत्रैः विशेषज्ञानं भवति, नाम सामान्यं वर्जयित्वा कुत्र कुत्र विशिष्टपरिस्थितिषु णत्वं भवति | एषु विशेषसूत्रेषु कुत्र कुत्र निमित्तं समासस्य पूर्वपदे, नकारश्च उत्तरपदे चेदपि णत्वम् इति प्रधानविषयः |- दृष्टान्ते यत् पदम् उपसर्गपूर्वकं भवति तत् पदं समस्तपदं च सखण्डपदम् इति उच्यते | यतोहि उपसर्गः पृथक् पदम् एव |
- यथा, प्र + भावः → प्रभावः, प्र + योगः → प्रयोगः, प्र + वासः → प्रवासः इत्यादीनि समस्तपदानि च सखण्डपदानि |
- प्रभावः, प्रयोगः, प्रवासः इत्येषु समस्तपदेषु प्र-उपसर्गः समासस्य 'पूर्वपदम्'; तस्मिन् च पूर्वपदे णत्वस्य निमित्तं (रेफः) विद्यते |
- प्रभावः इत्यस्य त्रितीयाविभक्त्यन्तरूपे णत्वस्य निमित्तं रेफः पुर्वपदे, नकारः च उत्तरपदे |
- अतः अस्मिन् प्रसङ्गे निमित्तं च नकारः च समानपदे न स्तः | प्र + भाव + इन → प्र (पूर्वपदम्) + भावेन (उत्तरपदम्) | सामान्यज्ञानेन णत्वं न स्यात् |
- अत्र विशेषज्ञानम् अपेक्षितं— यदि णत्वं पूर्वपदे, उत्तरपदस्थः नकारः विभक्तिसम्बद्धः तर्हि तस्य विकल्पेन णत्वं प्रातिपदिकान्तनुम्विभक्तिषु च (८.४.११) इत्यनेन सूत्रेण |
- प्र + भावेन इत्यस्मिन् नकारः विभक्तिसम्बद्धः इत्यनेन सखण्डपदेऽपि अस्य विकल्पेन णत्वम् | अतः प्र + भावेन → प्रभावेन, प्रभावेण इति द्वयमपि साधु |
- प्रातिपदिकान्तनुम्विभक्तिषु इत्यस्मिन् 'अट्कुप्वाङ्नुम्व्यवायेऽपि' च 'रषाभ्यां नो णः' इत्यनयोः अनुवृत्तिः | 'समानपदे' इत्यस्य अनुवृत्तिर्नास्ति |
- अनेन प्र + भावेन इत्यस्मिन् पूर्वपदे स्थितस्य रकारस्य च उत्तरपदे स्थितस्य नकारस्य मध्ये पवर्गीय-अट्-प्रत्याहारस्थेषु वर्णेषु सत्सु अपि णत्वं भवति |
- विशेषस्य पुनः विशेषः— प्र + योगेन इत्यस्मिन् उत्तरपदे कवर्गीयः गकारः अस्ति इत्यतः विभक्त्यां नकारस्य णत्वं नित्यं न तु वैकल्पिकं कुमति च (८.४.१३) इत्यनेन सूत्रेण | प्रातिपदिकान्तनुम्विभक्तिषु च (८.४.११) इति विशेषस्य अपवादः | प्र + योगेन → प्रयोगेण नित्यम् |
- प्र + वासः → प्रवासेन इत्यस्मिन् णत्वं न भवति एव, सकारस्य व्यवधानात् |