12---vyAvahArikii-shikShikA/pratyahahpratyaham: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/pratyahahpratyaham
Jump to navigation Jump to search
Content added Content deleted
(Created page with "<please replace this with content from corresponding Google Sites page> ")
 
m (Protected "प्रत्यहः/प्रत्यहम्" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(4 intermediate revisions by one other user not shown)
Line 1: Line 1:
{{DISPLAYTITLE:प्रत्यहः/प्रत्यहम्}}
<please replace this with content from corresponding Google Sites page>

'''<big>विषयः— <u>प्रत्यहः/प्रत्यहम्</u></big>'''



<big>'''<u>प्रश्नः</u>'''</big>

<big>"प्रत्यहम् अध्ययनं करणीयम्" उत "प्रत्यहः अध्ययनं करणीयम्"?</big>



'''<big><u>उत्तरम्</u></big>'''

<big>"प्रत्यहम् अध्ययनं करणीयम्" इत्येव साधुः |</big>



<big>- अहः अहः प्रति इति वीप्सायाम् अव्ययीभावः समासः । प्रत्यहन् इति नान्तः अव्ययीभावः |</big>

<big>'''- अनश्च''' इत्यनेन सूत्रेण अन्-अन्तस्य समासस्य अन्ते टच्-प्रत्यये विहिते प्रत्यहन् + टच् इति |</big>

<big>- टच्-प्रत्ययस्य इत्संज्ञालोपानन्तरं प्रत्यहन् + अ | '''चुटू , हलन्त्यम् , तस्य लोपः''' इत्येभिः सूत्रैः इत्संज्ञालोपः|</big>

<big>- ततः '''नस्तद्धिते''' इत्यनेन सूत्रेण टेर्लोपे प्रत्यह इति अकारान्तप्रातिपदिकम् |</big>

<big>'''- नाव्ययीभावादतोम्त्वपञ्चम्याः''' इति सूत्रेण अमादेशे प्रत्यहम् इति सिध्यति । अतः प्रत्यहम् इति प्रयोग एव साधुः न तु प्रत्यहः इति।</big>

<big>अहनि अहनि इत्यपि विग्रहः वक्तुं शक्यः | क्वचित् प्रत्यहः इति प्रयोगोपि दृष्टत्वात् तदपि अङ्गीकरणीयम् | तत्र '''नपुंसकादन्यतरस्याम्''' इति सूत्रेण विकल्पेन टच् प्रत्ययः, प्रत्यहन् + टच् -> प्रत्यहम् | टच् न कृते प्रत्यहन् इति जाते रोसुपि इति नस्य र आदेशः, प्रत्यहः इति भवेत् |</big>

Latest revision as of 23:49, 18 July 2021


विषयः— प्रत्यहः/प्रत्यहम्


प्रश्नः

"प्रत्यहम् अध्ययनं करणीयम्" उत "प्रत्यहः अध्ययनं करणीयम्"?


उत्तरम्

"प्रत्यहम् अध्ययनं करणीयम्" इत्येव साधुः |


- अहः अहः प्रति इति वीप्सायाम् अव्ययीभावः समासः । प्रत्यहन् इति नान्तः अव्ययीभावः |

- अनश्च इत्यनेन सूत्रेण अन्-अन्तस्य समासस्य अन्ते टच्-प्रत्यये विहिते प्रत्यहन् + टच् इति |

- टच्-प्रत्ययस्य इत्संज्ञालोपानन्तरं प्रत्यहन् + अ | चुटू , हलन्त्यम् , तस्य लोपः इत्येभिः सूत्रैः इत्संज्ञालोपः|

- ततः नस्तद्धिते इत्यनेन सूत्रेण टेर्लोपे प्रत्यह इति अकारान्तप्रातिपदिकम् |

- नाव्ययीभावादतोम्त्वपञ्चम्याः इति सूत्रेण अमादेशे प्रत्यहम् इति सिध्यति । अतः प्रत्यहम् इति प्रयोग एव साधुः न तु प्रत्यहः इति।

अहनि अहनि इत्यपि विग्रहः वक्तुं शक्यः | क्वचित् प्रत्यहः इति प्रयोगोपि दृष्टत्वात् तदपि अङ्गीकरणीयम् | तत्र नपुंसकादन्यतरस्याम् इति सूत्रेण विकल्पेन टच् प्रत्ययः, प्रत्यहन् + टच् -> प्रत्यहम् | टच् न कृते प्रत्यहन् इति जाते रोसुपि इति नस्य र आदेशः, प्रत्यहः इति भवेत् |