प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/preraNArthakaNijantasthale-kArakavyavasthA
Jump to navigation Jump to search

विषय: - प्रेरणार्थकणिजन्तस्थले कारकव्यवस्था


प्रश्नः

"शिक्षकः छात्रां व्याकरणं बोधयति" उत "शिक्षकः छात्रायै व्याकरणं बोधयति" ? कः प्रयोगः साधुः ?


उत्तरम्

"शिक्षकः छात्रां व्याकरणं बोधयति" इत्येव साधुः प्रयोगः |


- प्रेरणार्थकणिजन्तस्थले वाक्ये प्रयोजककर्ता च प्रयोज्यकर्ता इति द्वौ कर्तारौ भवतः |

- "शिक्षकः छात्रां व्याकरणं बोधयति" इत्यस्मिन् वाक्ये बोधयति इति प्रेरणार्थकणिजन्त-बोधि-धातोः तिङन्तरूपं, शिक्षकः प्रयोजककर्ता, छात्रा च प्रयोज्यकर्त्री |

- प्रेरणार्थकणिजन्तानां प्रयोगे सामान्यतया प्रयोज्यकर्तुः तृतीयाविभक्तिः दृश्यते | यथा, "माता पुत्र्या कार्यं कारयति" | अस्मिन् पुत्री प्रयोज्यकर्त्री |

- प्रयोज्यकर्तुः कर्मसंज्ञा भवति केषुचित् प्रसङ्गेषु | तदा द्वितीयाविभक्तिः भवति प्रयोज्यकर्तुः | यत्र इदृशी स्थितिः तत्र प्रेरणार्थकणिजन्तधातोः द्विकर्मकता | यथा "शिक्षकः छात्रां व्याकरणं बोधयति" इति वाक्ये, ‘छात्राम्’ इत्यपि कर्मपदं, 'व्याकरणम्' इत्यपि कर्मपदम् अतः अस्मिन् वाक्ये धातोः द्विकर्मकता |

- सामान्यद्विकर्मकधातूनां प्रयोगे बहुधा* गौणकर्मपदस्य अन्यकारकविवक्षायां द्वितीयाविभक्त्यन्त-भिन्नरूपं दृश्यते |

- यथा, "माता पुत्रीं विषयं वदति" अथवा "माता पुत्र्यै विषयं वदति" | पुत्री इति गौणकर्मपदं यस्य चतुर्थीविभक्तिः अपि भवितुम् अर्हति |

- प्रेरणार्थकणिजन्तस्थलेऽपि द्विकर्मकतायां जातायां प्रयोज्यकर्तुः अन्यकारकविवक्षायां द्वितीयाविभक्ति-भिन्नविभक्तिः विकल्पेन युज्यते वा इति प्रश्नः उदेति |

- प्रेरणार्थकणिजन्तस्थले केषाञ्चन धातूनां प्रयोज्यकर्तुः कर्मसंज्ञा भवति | कितु अत्र अन्यकारकविवक्षायां प्रयोगः नार्हः |

- तादृशस्य प्रयोज्यकर्तुः द्वितीयाविभक्ति-भिन्नविभक्तिः न भवति यथा सामान्यद्विकर्मकधातूनां प्रयोगे भवति; प्रेरणार्थकणिजन्तस्थले यत्र प्रयोज्यकर्तुः कर्मसंज्ञा भवति, तत्र कर्मकारकमेव भवति अतः द्वितीयाविभक्त्यन्तरूपमेव भवति |

- पुनः कुत्र का विभक्तिः प्रयोक्तव्या इति प्रश्ने कृते उत्तरमस्ति परिगणितानां धातूनाम् एव प्रयोज्यकर्तुः कर्मसंज्ञा, द्वितीयाविभक्त्यन्तप्रयोगः च भवतः | नो चेत् प्रयोज्यकर्तुः यथोक्तं सामान्यतया तृतीयाविभक्तिः |

- गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२) इति सूत्रमस्ति प्रयोज्यकर्तुः कर्मत्वस्य विधायकं सूत्रम् | कर्मत्वेन द्वितीयाविभक्तिः |

- अनेन सूत्रेण गत्यर्थकानां, बुध्यर्थकानां, प्रत्यवसानार्थकानां, शब्दकर्मकाणाम्, अकर्मकाणां धातूनाम् एव प्रेरणार्थकणिजन्ते प्रयोज्यकर्तुः कर्मत्वं च द्वितीयाविभक्तिः |

- बुध्-धातुः बुध्यर्थकः, नाम ज्ञानार्थकः | तस्य प्रेरणार्थकणिजन्तप्रयोगे प्रयोज्यकर्तुः द्वितीयाविभक्तिः | अतः "शिक्षकः छात्रां व्याकरणं बोधयति" इत्येव साधुः |

- दृशेश्‍च इत्यनेन वार्तिकेन दृश्-धातोः प्रेरणार्थकणिजन्तप्रयोगेऽपि प्रयोज्यकर्ता कर्मत्वं प्राप्नोति | यथा, "गुरुः शिष्यं सन्मार्गं दर्शयति" | शिष्यः प्रयोज्यकर्ता |


*षोडश द्विकर्मकधातवः सन्ति; तेषु द्वादशसु गौणकर्मणः विकल्पेन अन्यकारकत्वेन अन्यविभक्तिकत्वं वर्तते | अपरेषु चतुर्षु प्रधानकर्मणः विकल्पेन अन्यकारकत्वेन अन्यविभक्तिकत्वम्‌ | एषां षोडशानां च समानार्थकधातवोऽपि अनेन ग्राह्याः |


सूत्रपरिचयः  

----------

गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२)

- निमित्तं - गत्यर्थकाः (गम्,अट्), बुध्यर्थकाः (ज्ञा,बुध्), प्रत्यवसानार्थकाः (पिब्,भुञ्ज्), शब्दकर्मकाः (पठ्,श्रू), अकर्मकाः (जागृ,स्था) धातवः, तेभ्यः णिच्-प्रत्ययः |

- कार्यम् - एभ्यः धातुभ्यः णिच्-प्रत्यये परे प्रयोज्यकर्तुः कर्मत्वम् | कर्मत्वम् आरोपितं चेत् तस्य द्वितीयाविभक्तिः |

- गतिश्च बुद्धिश्च प्रत्यवसानञ्च गतिबुद्धिप्रत्यवसानानि, तानि अर्थः येषां ते गतिबुद्धिप्रत्यवसानार्थाः धातवः | शब्दः कर्म येषां ते शब्दकर्माणः | अविद्यमानं कर्म येषां ते अकर्मकाः |

- गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाः | अणौ कर्ता यः, सः अणिकर्ता |

- गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिणिकर्ता गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता |

- णिः इति णिच्-प्रत्ययस्य सूचकः | न णिः, अणिः | अणि-अवस्थायां, नाम यदा धातुतः णिच्-प्रत्ययः न विहितः तदा धातुः अण्यन्तः |

- अण्यन्त-धातुतः क्रियापदे जाते तस्य कर्ता ‘अण्यन्तकर्ता’ वा ‘अणिकर्ता’ इति उच्यते | अण्यन्तधातुतः णिचः विधानेन सः धातुः ण्यन्तधातुः भवति |

- "छात्रः व्याकरणं बुध्यति" इत्यस्मिन् बुध्यति इति अण्यन्तरूपं, छात्रा च अणिकर्ता | "शिक्षकः छात्रं व्याकरणं बोधयति" इत्यत्र  बोधयति इति ण्यन्तरूपम् |

- ण्यन्तधातोः अण्यन्त-स्थित्यां यः अणिकर्ता आसीत् तस्य अणिकर्तुः प्रेरणार्थके ण्यन्तस्थले कर्मसंज्ञा भवति यदा धातुः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकः |

* नी-धातुः, वह्-धातुः च गत्यर्थकौ | तथापि नीवह्योर्न इत्यनेन वार्तिकेन अनयोः प्रेरणार्थकणिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं नास्ति |

* अद्-धातुः, खाद्-धातुः च प्रत्यवसानार्थकौ | तथापि अदिखाद्योर्न इत्यनेन वार्तिकेन अनयोः प्रेरणार्थणिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं नास्ति |


परिशिष्टम् - बोधयति इत्यस्य पदस्य व्युत्पत्तिः

-------------------------------------

- "शिक्षकः छात्रां व्याकरणं बोधयति" इत्यस्मिन् बोधयति इति बुध्-धातोः प्रेरणार्थकणिजन्तरूपम् | णिच्-प्रत्ययस्य अनुबन्धलोपानन्तरम् 'इ' इति अवशिष्यते |

- बुध् + णिच् → बुध् + इ | तदा पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधाभूतस्य इकः गुणः, बोध् + इ → बोधि इति औपदेशिकधातुः सिध्यति |

- प्रथमपुरुषैकवचनविवक्षायां तिप्-प्रत्यये विहिते कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, बोधि + शप् + तिप् → बोधि + अ + ति |

- सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यं, बोधे + अ + ति | एचोऽयवायावः (६.१.७७) इत्यनेन अयादेशः, बोध् + अय् + अ + ति → बोधयति |