प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/preranarthakanijantasthalekr-dhatohhr-dhatohkarakavyavastha
Jump to navigation Jump to search

विषय: - प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था  


प्रश्नः

"राजा सेवकेन कार्यं कारयति" उत "राजा सेवकं कार्यं कारयति" ? कः प्रयोगः साधुः ?

"राजा सेवकेन भारं हारयति" उत "राजा सेवकं भारं हारयति" ? कः प्रयोगः साधुः ?


उत्तरम्

उपरि दत्ताः चत्वारः अपि प्रयोगाः साधवः | कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा वैकल्पिकः |


- “राजा सेवकेन कार्यं कारयति” इत्यस्मिन् कारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |

- “राजा सेवकेन भारं हारयति” इत्यस्मिन् हारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |

- उभयोः वाक्ययोः यथासामान्यं प्रयोज्यकर्तुः तृतीयाविभक्तिः कर्तृकरणयोस्तृतीया (२.३.१८) इत्यनेन सूत्रेण |

- किन्तु कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः वैकल्पिककर्मत्वे जाते द्वितीयाविभक्त्यन्तप्रयोगः अपि न दोषाय |

- यथा “राजा सेवकं कार्यं कारयति” च “राजा सेवकं भारं हारयति” इत्यनयोः प्रयोज्यकर्तुः द्वितीयाविभक्तिकत्वम् |

- हृ-धातोः च कृ-धातोः णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा विधीयते हृक्रोरन्यतरस्याम् (१.४.५३) इत्यनेन सूत्रेण |

- अनेन सूत्रेण विहिता कर्मसंज्ञा वैकल्पिकी | कर्मसंज्ञायां विहितायां प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तप्रयोगः भवति |

- कर्मसंज्ञा वैकल्पिकी इत्यतः यदा प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तप्रयोगः न भवति तदा तस्य तृतीयाविभक्त्यन्तप्रयोगः |

- अतः उपरि दत्तानि चत्वारि वाक्यानि अपि साधूनि भवन्ति | प्रयोज्यकर्तुः द्वितीयान्तः वा तृतीयान्तः प्रयोगः उपयुज्यते |

- हृञ्‌ हरणे इति धातुः भ्वादिगणीयः, लटि हरति | अस्य च हरणं चतुर्विधम्‌ | प्रापणं, स्वीकारः, स्तेयं, नाशनं च |

भारं हरति | अंशं हरति | परस्वं हरति | पापं हरति (नाशयति इत्यर्थः) | अस्मिन्‌ पत्रे च 'भारं हारयति' इति प्रापणार्थे |

- हृ-धातुः चतुर्षु अपि अर्थेषु अनेन सूत्रेण विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | चोरः सुवर्णं हरति, हारयति मित्रं मित्रेण वा |

- किन्तु 'अभि + अव' उपसर्गपूर्वकः हृ-धातुः प्रत्यवसानार्थे (खादनार्थे) अतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | माता शिशुम्‌ ओदनम्‌ अभ्यवहारयति |

- एवमेव कृ-धातोः सकर्मकप्रयोगे हृक्रोरन्यतरस्याम् (१.४.५३) इत्यनेन विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | किन्तु कृ-धातोः अकर्मकप्रयोगः यदा भवति, तदा गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | ओदनस्य पूर्णाः छात्राः विकुर्वते |


सूत्रपरिचयः  

----------

हृक्रोरन्यतरस्याम् (१.४.५३)

- निमित्तं - हृ-धातुः, कृ-धातुः, ताभ्यां परः प्रेरणार्थे णिच्-प्रत्ययः |

- कार्यम् - आभ्यां धातुभ्यां णिच्-प्रत्यये परे प्रयोज्यकर्तुः विकल्पेन कर्मत्वम् | कर्मत्वम् आरोपितं चेत् तस्य द्वितीयाविभक्तिः |

- हृ-धातोः, कृ-धातोः च अणिकर्ता यः तस्य कर्मसंज्ञा ण्यन्तावस्थायाम् अन्यतरस्याम् | अन्यतरस्याम् इत्यस्य विकल्पेन इत्यर्थः |

- णिः इति णिच्-प्रत्ययस्य सूचकः | न णिः, अणिः | अणि-अवस्थायां, नाम यदा धातुतः णिच्-प्रत्ययः न विहितः तदा धातुः अण्यन्तः | अण्यन्त-धातोः तिङन्तपदे (क्रियापदे) जाते तस्य कर्ता ‘अण्यन्तकर्ता’ वा ‘अणिकर्ता’ |

- “सेवकः भारं हरति” इत्यस्मिन् हरति इति अण्यन्तरूपं, सेवकः च अणिकर्ता | “राजा सेवकेन भारं हारयति” इत्यत्र हारि-धातोः प्रेरणार्थकणिजन्तरूपं हारयति | सेवकः इति यः अणिकर्ता आसीत् तस्य ण्यन्तस्थले विकल्पेन कर्मसंज्ञा भवति इति इदं सूत्रं वक्ति |

- एवमेव कृ-धातोः अणिकर्तुः अपि ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा | वैकलिपककर्मत्वेन वैकल्पिक-द्वितीयाविभक्त्यन्तप्रयोगः |


परिशिष्टम् - कारयति, हारयति इत्यनयोः पदयोः व्युत्पत्तिः

-------------------------------------------------

- कृ + णिच् → कृ + इ | तदा अचो ञ्णिति (७.२.११५) इत्यनेन अङ्गान्तस्य इकः वृद्धिः, कृ + इ → का + इ |

- का + इ इत्यस्याम् अवस्थायाम् उरण्‌ रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने आदिष्टस्य आकारस्य रपरत्वं, कार् + इ |

- कार् + इ → कारि इति आतिदेशिकधातुः निष्पद्यते | लटि प्रथमपुरुषैकवचनविवक्षायां तिप्-प्रत्यये विहिते कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, कारि + शप् + तिप् → कारि + अ + ति |

- सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यं, कारे + अ + ति | एचोऽयवायावः (६.१.७७) इत्यनेन ए-स्थाने अयादेशः, कार् + अय् + अ + ति → कारयति इति णिजन्तरूपं निष्पन्नम् |

- अनया एव रीत्या हृ-धातोः अपि णिजन्तरूपं निष्पन्नं भवति, हारयति इति |