12---vyAvahArikii-shikShikA/preranarthakanijantasthalekr-dhatohhr-dhatohkarakavyavastha: Difference between revisions
(Created page with "<please replace this with content from corresponding Google Sites page> ") |
No edit summary |
||
Line 1: | Line 1: | ||
<big>'''विषय: - प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था''' </big> |
|||
<please replace this with content from corresponding Google Sites page> |
|||
'''<big>प्रश्नः</big>''' |
|||
<big>"राजा सेवकेन कार्यं कारयति" उत "राजा सेवकं कार्यं कारयति" ? कः प्रयोगः साधुः ?</big> |
|||
<big>"राजा सेवकेन भारं हारयति" उत "राजा सेवकं भारं हारयति" ? कः प्रयोगः साधुः ?</big> |
|||
'''<big>उत्तरम्</big>''' |
|||
<big>उपरि दत्ताः चत्वारः अपि प्रयोगाः साधवः | कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा वैकल्पिकः |</big> |
|||
<big>- “राजा '''सेवकेन''' कार्यं कारयति” इत्यस्मिन् कारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |</big> |
|||
<big>- “राजा '''सेवकेन''' भारं हारयति” इत्यस्मिन् हारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |</big> |
|||
<big>- उभयोः वाक्ययोः यथासामान्यं प्रयोज्यकर्तुः तृतीयाविभक्तिः '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इत्यनेन सूत्रेण |</big> |
|||
<big>- किन्तु कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः वैकल्पिककर्मत्वे जाते द्वितीयाविभक्त्यन्तप्रयोगः अपि न दोषाय |</big> |
|||
<big>- यथा “राजा '''सेवकं''' कार्यं कारयति” च “राजा '''सेवकं''' भारं हारयति” इत्यनयोः प्रयोज्यकर्तुः द्वितीयाविभक्तिकत्वम् |</big> |
|||
<big>- हृ-धातोः च कृ-धातोः णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा विधीयते '''हृक्रोरन्यतरस्याम्''' (१.४.५३) इत्यनेन सूत्रेण |</big> |
|||
<big>- अनेन सूत्रेण विहिता कर्मसंज्ञा वैकल्पिकी | कर्मसंज्ञायां विहितायां प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तप्रयोगः भवति |</big> |
|||
<big>- कर्मसंज्ञा वैकल्पिकी इत्यतः यदा प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तप्रयोगः न भवति तदा तस्य तृतीयाविभक्त्यन्तप्रयोगः |</big> |
|||
<big>- अतः उपरि दत्तानि चत्वारि वाक्यानि अपि साधूनि भवन्ति | प्रयोज्यकर्तुः द्वितीयान्तः वा तृतीयान्तः प्रयोगः उपयुज्यते |</big> |
|||
<big>- हृञ् हरणे इति धातुः भ्वादिगणीयः, लटि हरति | अस्य च हरणं चतुर्विधम् | प्रापणं, स्वीकारः, स्तेयं, नाशनं च |</big> |
|||
<big>भारं हरति | अंशं हरति | परस्वं हरति | पापं हरति (नाशयति इत्यर्थः) | अस्मिन् पत्रे च 'भारं हारयति' इति प्रापणार्थे |</big> |
|||
<big>- हृ-धातुः चतुर्षु अपि अर्थेषु अनेन सूत्रेण विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | चोरः सुवर्णं हरति, हारयति मित्रं मित्रेण वा |</big> |
|||
<big>- किन्तु 'अभि + अव' उपसर्गपूर्वकः हृ-धातुः प्रत्यवसानार्थे (खादनार्थे) अतः '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | माता शिशुम् ओदनम् अभ्यवहारयति |</big> |
|||
<big>- एवमेव कृ-धातोः सकर्मकप्रयोगे '''हृक्रोरन्यतरस्याम्''' (१.४.५३) इत्यनेन विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | किन्तु कृ-धातोः अकर्मकप्रयोगः यदा भवति, तदा '''गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ''' (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | ओदनस्य पूर्णाः छात्राः विकुर्वते |</big> |
|||
'''<big>सूत्रपरिचयः </big>''' |
|||
'''<big>----------</big>''' |
|||
'''<big>हृक्रोरन्यतरस्याम् (१.४.५३)</big>''' |
|||
<big>- निमित्तं - हृ-धातुः, कृ-धातुः, ताभ्यां परः प्रेरणार्थे णिच्-प्रत्ययः |</big> |
|||
<big>- कार्यम् - आभ्यां धातुभ्यां णिच्-प्रत्यये परे प्रयोज्यकर्तुः विकल्पेन कर्मत्वम् | कर्मत्वम् आरोपितं चेत् तस्य द्वितीयाविभक्तिः |</big> |
|||
<big>- हृ-धातोः, कृ-धातोः च अणिकर्ता यः तस्य कर्मसंज्ञा ण्यन्तावस्थायाम् अन्यतरस्याम् | अन्यतरस्याम् इत्यस्य विकल्पेन इत्यर्थः |</big> |
|||
<big>- णिः इति णिच्-प्रत्ययस्य सूचकः | न णिः, अणिः | अणि-अवस्थायां, नाम यदा धातुतः णिच्-प्रत्ययः न विहितः तदा धातुः अण्यन्तः | अण्यन्त-धातोः तिङन्तपदे (क्रियापदे) जाते तस्य कर्ता ‘अण्यन्तकर्ता’ वा ‘अणिकर्ता’ |</big> |
|||
<big>- “सेवकः भारं हरति” इत्यस्मिन् हरति इति अण्यन्तरूपं, सेवकः च अणिकर्ता | “राजा सेवकेन भारं हारयति” इत्यत्र हारि-धातोः प्रेरणार्थकणिजन्तरूपं हारयति | सेवकः इति यः अणिकर्ता आसीत् तस्य ण्यन्तस्थले विकल्पेन कर्मसंज्ञा भवति इति इदं सूत्रं वक्ति |</big> |
|||
<big>- एवमेव कृ-धातोः अणिकर्तुः अपि ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा | वैकलिपककर्मत्वेन वैकल्पिक-द्वितीयाविभक्त्यन्तप्रयोगः |</big> |
|||
'''<big>परिशिष्टम् - कारयति, हारयति इत्यनयोः पदयोः व्युत्पत्तिः</big>''' |
|||
'''<big>-------------------------------------------------</big>''' |
|||
<big>- कृ + णिच् → कृ + इ | तदा '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अङ्गान्तस्य इकः वृद्धिः, कृ + इ → का + इ |</big> |
|||
<big>- का + इ इत्यस्याम् अवस्थायाम् '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने आदिष्टस्य आकारस्य रपरत्वं, कार् + इ |</big> |
|||
<big>- कार् + इ → कारि इति आतिदेशिकधातुः निष्पद्यते | लटि प्रथमपुरुषैकवचनविवक्षायां तिप्-प्रत्यये विहिते '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, कारि + शप् + तिप् → कारि + अ + ति |</big> |
|||
<big>- '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यं, कारे + अ + ति | '''एचोऽयवायावः''' (६.१.७७) इत्यनेन ए-स्थाने अयादेशः, कार् + अय् + अ + ति → कारयति इति णिजन्तरूपं निष्पन्नम् |</big> |
|||
<big>- अनया एव रीत्या हृ-धातोः अपि णिजन्तरूपं निष्पन्नं भवति, हारयति इति |</big> |
Revision as of 13:30, 21 May 2021
विषय: - प्रेरणार्थकणिजन्तस्थले कृ-धातोः, हृ-धातोः कारकव्यवस्था
प्रश्नः
"राजा सेवकेन कार्यं कारयति" उत "राजा सेवकं कार्यं कारयति" ? कः प्रयोगः साधुः ?
"राजा सेवकेन भारं हारयति" उत "राजा सेवकं भारं हारयति" ? कः प्रयोगः साधुः ?
उत्तरम्
उपरि दत्ताः चत्वारः अपि प्रयोगाः साधवः | कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा वैकल्पिकः |
- “राजा सेवकेन कार्यं कारयति” इत्यस्मिन् कारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |
- “राजा सेवकेन भारं हारयति” इत्यस्मिन् हारयति इति णिजन्तप्रयोगः | राजा प्रयोजककर्ता, सेवकः प्रयोज्यकर्ता च |
- उभयोः वाक्ययोः यथासामान्यं प्रयोज्यकर्तुः तृतीयाविभक्तिः कर्तृकरणयोस्तृतीया (२.३.१८) इत्यनेन सूत्रेण |
- किन्तु कृ-धातोः, हृ-धातोः च णिजन्तप्रयोगे प्रयोज्यकर्तुः वैकल्पिककर्मत्वे जाते द्वितीयाविभक्त्यन्तप्रयोगः अपि न दोषाय |
- यथा “राजा सेवकं कार्यं कारयति” च “राजा सेवकं भारं हारयति” इत्यनयोः प्रयोज्यकर्तुः द्वितीयाविभक्तिकत्वम् |
- हृ-धातोः च कृ-धातोः णिजन्तप्रयोगे प्रयोज्यकर्तुः कर्मसंज्ञा विधीयते हृक्रोरन्यतरस्याम् (१.४.५३) इत्यनेन सूत्रेण |
- अनेन सूत्रेण विहिता कर्मसंज्ञा वैकल्पिकी | कर्मसंज्ञायां विहितायां प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तप्रयोगः भवति |
- कर्मसंज्ञा वैकल्पिकी इत्यतः यदा प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तप्रयोगः न भवति तदा तस्य तृतीयाविभक्त्यन्तप्रयोगः |
- अतः उपरि दत्तानि चत्वारि वाक्यानि अपि साधूनि भवन्ति | प्रयोज्यकर्तुः द्वितीयान्तः वा तृतीयान्तः प्रयोगः उपयुज्यते |
- हृञ् हरणे इति धातुः भ्वादिगणीयः, लटि हरति | अस्य च हरणं चतुर्विधम् | प्रापणं, स्वीकारः, स्तेयं, नाशनं च |
भारं हरति | अंशं हरति | परस्वं हरति | पापं हरति (नाशयति इत्यर्थः) | अस्मिन् पत्रे च 'भारं हारयति' इति प्रापणार्थे |
- हृ-धातुः चतुर्षु अपि अर्थेषु अनेन सूत्रेण विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | चोरः सुवर्णं हरति, हारयति मित्रं मित्रेण वा |
- किन्तु 'अभि + अव' उपसर्गपूर्वकः हृ-धातुः प्रत्यवसानार्थे (खादनार्थे) अतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | माता शिशुम् ओदनम् अभ्यवहारयति |
- एवमेव कृ-धातोः सकर्मकप्रयोगे हृक्रोरन्यतरस्याम् (१.४.५३) इत्यनेन विकल्पेन प्रयोज्यकर्तुः कर्मसंज्ञा | किन्तु कृ-धातोः अकर्मकप्रयोगः यदा भवति, तदा गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ (१.४.५२) इत्यनेन प्रयोज्यकर्तुः कर्मसंज्ञा नित्या | ओदनस्य पूर्णाः छात्राः विकुर्वते |
सूत्रपरिचयः
----------
हृक्रोरन्यतरस्याम् (१.४.५३)
- निमित्तं - हृ-धातुः, कृ-धातुः, ताभ्यां परः प्रेरणार्थे णिच्-प्रत्ययः |
- कार्यम् - आभ्यां धातुभ्यां णिच्-प्रत्यये परे प्रयोज्यकर्तुः विकल्पेन कर्मत्वम् | कर्मत्वम् आरोपितं चेत् तस्य द्वितीयाविभक्तिः |
- हृ-धातोः, कृ-धातोः च अणिकर्ता यः तस्य कर्मसंज्ञा ण्यन्तावस्थायाम् अन्यतरस्याम् | अन्यतरस्याम् इत्यस्य विकल्पेन इत्यर्थः |
- णिः इति णिच्-प्रत्ययस्य सूचकः | न णिः, अणिः | अणि-अवस्थायां, नाम यदा धातुतः णिच्-प्रत्ययः न विहितः तदा धातुः अण्यन्तः | अण्यन्त-धातोः तिङन्तपदे (क्रियापदे) जाते तस्य कर्ता ‘अण्यन्तकर्ता’ वा ‘अणिकर्ता’ |
- “सेवकः भारं हरति” इत्यस्मिन् हरति इति अण्यन्तरूपं, सेवकः च अणिकर्ता | “राजा सेवकेन भारं हारयति” इत्यत्र हारि-धातोः प्रेरणार्थकणिजन्तरूपं हारयति | सेवकः इति यः अणिकर्ता आसीत् तस्य ण्यन्तस्थले विकल्पेन कर्मसंज्ञा भवति इति इदं सूत्रं वक्ति |
- एवमेव कृ-धातोः अणिकर्तुः अपि ण्यन्तावस्थायां विकल्पेन कर्मसंज्ञा | वैकलिपककर्मत्वेन वैकल्पिक-द्वितीयाविभक्त्यन्तप्रयोगः |
परिशिष्टम् - कारयति, हारयति इत्यनयोः पदयोः व्युत्पत्तिः
-------------------------------------------------
- कृ + णिच् → कृ + इ | तदा अचो ञ्णिति (७.२.११५) इत्यनेन अङ्गान्तस्य इकः वृद्धिः, कृ + इ → का + इ |
- का + इ इत्यस्याम् अवस्थायाम् उरण् रपरः (१.१.५१) इत्यनेन ऋकारस्य स्थाने आदिष्टस्य आकारस्य रपरत्वं, कार् + इ |
- कार् + इ → कारि इति आतिदेशिकधातुः निष्पद्यते | लटि प्रथमपुरुषैकवचनविवक्षायां तिप्-प्रत्यये विहिते कर्तरि शप् (३.१.६८) इत्यनेन शप्-प्रत्ययः विधीयते, कारि + शप् + तिप् → कारि + अ + ति |
- सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यं, कारे + अ + ति | एचोऽयवायावः (६.१.७७) इत्यनेन ए-स्थाने अयादेशः, कार् + अय् + अ + ति → कारयति इति णिजन्तरूपं निष्पन्नम् |
- अनया एव रीत्या हृ-धातोः अपि णिजन्तरूपं निष्पन्नं भवति, हारयति इति |