श्रुत्वा/शृत्वा
विषयः'—श्रुत्वा/शृत्वा
प्रश्नः
"जनाः गीतं श्रुत्वा मोदन्ते" उत "जनाः गीतं शृत्वा मोदन्ते" -- अनयोः कः प्रयोगः साधुः ?
उत्तरम्
"जनाः गीतं श्रुत्वा मोदन्ते" इत्येव साधुः प्रयोगः |
- श्रु श्रवणे इति भ्वादिगणीयः, अनिट् धातुः | अस्य धातोः श्रुत्वा इति क्त्वान्तरुपम् | क्त्वा-प्रत्ययः आर्धधातुकः, कित् प्रत्ययः |
- श्रु-धातोः लटि शृणोति, शृणुतः, शृण्वन्ति इत्यादीनि रूपाणि | एतेषु श्रु-स्थाने 'शृ' दृश्यते इत्यतः श्रु-धातुः सम्प्रसारणी धातुः स्यात् इति शङ्का उदेति |
- सम्प्रसारणं नाम यणः स्थाने इक्-आदेशः | सम्प्रसारणं यस्य सः सम्प्रसारणी | वस्तुतः श्रु-धातुः सम्प्रसारणी नास्ति |
- श्रुवः शृ च (३.१.७४) इत्यनेन सूत्रेण श्रु-धातोः श्नु-विकरणप्रत्ययः, शृ-आदेशः च भवतः कर्त्रर्थे सार्वधातुके प्रत्यये परे |
- अनेन सूत्रेण लट्-लकारादिषु सार्वधातुकलकारेषु शपः स्थाने श्नु-प्रत्ययः विहितः, श्रु इत्यस्य शृ इति आदेशः च |
- लट्-लकारे प्रथमपुरुषैकवचने श्रु + शप् + तिप् इत्यस्यां दशायां श्रुवः शृ च इत्यनेन शृ + श्नु + तिप् | तदा शृ + नु + ति → शृनु + ति → शृणु + ति → शृणो + ति → शृणोति |
- धातुभ्यः क्त्वा-प्रत्यये विहिते केषुचित् धातुषु सम्प्रसारणं भवति, क्त्वा-प्रत्ययस्य कित्त्वात् | यथा, ग्रह् + क्त्वा → गृह् + त्वा, वस् + क्त्वा → उष् + त्वा | गृहीत्वा, उषित्वा इति रूपाणि |
- ग्रह्, वस् इत्यनयोः धात्वोः सम्प्रसारणं विधीयते विशेषसम्प्रसारणविधायकाभ्यां सूत्राभ्याम् |
- ग्रह्-धातोः सम्प्रसारणं भवति अनेन सूत्रेण ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (३.१.१३) किति ङिति प्रत्यये परे |
- वस्-धातोः सम्प्रसारणं भवति अनेन सूत्रेण वचिस्वपियजादीनां किति (६.१.१५) किति प्रत्यये परे |
- किञ्च श्रु-धातोः सम्प्रसारणस्य विधानार्थं कुत्रापि किमपि सूत्रं नास्ति | अपि च क्त्वा-प्रत्ययस्य आर्धधातुकत्वात् श्रुवः शृ च (३.१.७४) अत्र न प्रसक्तम् |
- अतः श्रु-धातुतः क्त्वा-प्रत्यये परे 'श्रु' यथावत् तिष्ठति | श्रु + क्त्वा → श्रुत्वा इति रूपम् |
- तथैव अन्येषु कित्सु प्रत्ययेषु परेष्वपि श्रु-धातौ किमपि परिवर्तनं न भवति | यथा, श्रु + क्तवतु → श्रुतवान्/श्रुतवती, श्रु + क्त → श्रुत/श्रुता |
- कित्ङित्-भिन्ने प्रत्यये परे सम्प्रसारणं न भवति केष्वपि धातुषु, इति सामान्यनियमः | यथा, ग्रह् + तुमुन् → ग्रहीतुम्, वस् + तुमुन् → वस्तुम् |
- श्रु तु सम्प्रसारणी धातुरेव नास्ति, पुनः तुमुन् इति सार्वधातुकः नास्ति, अतः श्रु + तुमुन् → श्रु तिष्ठति, गुणश्च विधीयते → श्रोतुम्
- १. आहत्य श्रु → शृ, अस्य निमित्तं तदुत्तरस्थितः कर्त्रर्थक-सार्वधातुक-प्रत्ययः |
- यत्र यत्र प्रत्ययः कर्त्रर्थक-सार्वधातुकश्च, तत्र तत्र भवति श्रु → शृ-आदेशः | कर्त्रर्थके लटि, लोटि, लङि, विधिलिङि च-- शृणोति, शृणोतु, अशृणोत्, शृणुयात् | शतरि-- शृण्वन्, शृण्वन्तौ, शृण्वन्तः |
- किन्तु तदुत्तरस्थितप्रत्ययः कर्त्रर्थे नास्ति चेत्, शृ-आदेशो न भवति— कर्मणि श्रु + यक् + ते → श्रूयते |
- पुनः प्रत्ययः सार्वधातुकसज्ञकः नास्ति चेत्, शृ-आदेशो न भवति— लृटि श्रोष्यति, लुटि श्रोता, आशीर्लिङि श्रूयात् |
- २. आहत्य सम्प्रसारणिनां धातूनां सम्प्रसारणस्य निमित्तं तदुत्तरप्रत्ययस्य कित्त्वम् अथवा ङित्त्वम् |
- तदर्थं प्रत्ययः कर्त्रर्थक-सार्वधातुकः नास्ति चेदपि, तस्य कित्त्वात् ग्रह्यादीनां वच्यादीनां च सम्प्रसारणं भवति |
- यथा कर्मणि ग्रह् + यक् + ते → यक्-प्रत्ययः न कर्त्रर्थकः न वा सार्वधातुकः, किन्तु कित्त्वात् सम्प्रसारणम् → गृह्यते | तथैव भावे वस् + यक् + ते → उष्यते |
- प्रत्ययस्य ङिद्वादपि ग्रह्यादीनां तथा— लट्-लकारे ग्रह्-धातोः विकरणप्रत्ययः श्ना, स च अपित्त्वात् ङिद्वत् | अतः ग्रह् + श्ना + ति → गृह्णाति इति सम्प्रसारणम् |
- श्रु-धातोः शृ-आदेशस्य निमित्तं तदुत्तर-कर्त्रर्थक-सार्वधातुकप्रत्ययः; सम्प्रसारणिनां धातूनां सम्प्रसारणस्य निमित्तं तदुत्तरप्रत्ययस्य कित्त्वं ङित्त्वञ्च |