शुश्रूषति/शुश्रूषते
विषयः— शुश्रूषति/शुश्रूषते
प्रश्नः
"सः पाठं शुश्रूषति |" उत "सः पाठं शुश्रूषते |" ? कः प्रयोगः साधुः ?
उत्तरम्
"सः पाठं शुश्रूषते |" इत्येव साधुः प्रयोगः |
- वस्तुतः श्रुधातुः परस्मैपदिधातुः | लट्लकरे प्रथमपुरुषैकवचने श्रुणोति इति रूपम् |
- श्रोतुम् इच्छति इत्यस्मिन् अर्थे श्रु-धातोः कर्मणः समानकर्तृकादिच्छायां वा (३.१.७) इत्यनेन सूत्रेण सन् प्रत्यये विहिते श्रु + सन् → श्रु + स |
- इष्-धातोः कर्ता, कर्मणः कर्ता च समानौ यदा भवतः तदा तस्मात् इष्-धातोः इच्छार्थे सन्-प्रत्ययः विकल्पेन भवति |*
- सन्-प्रत्ययस्य योजनेन धातोः द्वित्वे अभ्यासकार्ये च कृते शुश्रू + स |
- तदा आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वे कृते सकारस्य षकारः | शुश्रू + ष → शुश्रूष इति आतिदेशिकधातुः सिद्धः |
- तस्य लटि प्रथमपुरुषैकवचने कृते ज्ञाश्रुस्मृदृशां सनः (१.३.५७) इत्यनेन सूत्रेण आत्मनेपदं भवति । तस्मात् शुश्रूषते इति प्रयोगः भवति |
*अवधेयम्
"सः दुग्धं पातुम् इच्छति |" इत्यस्मिन् वाक्ये प्रश्नद्वयम् अर्हम् |
कः इच्छति? सः | इच्छायाः कर्ता 'सः' |
कः पिबति? सः | इच्छायाः कर्मणः कर्ता 'सः' |
अर्थात्, इच्छायाः कर्मणः कर्ता, इच्छायाः कर्ता च समानौ स्तः | तदा सन्-प्रत्ययः भवति कर्मणः समानकर्तृकादिच्छायां वा (३.१.७) सूत्रेण |