12---vyAvahArikii-shikShikA/visayah-jagratijagranti: Difference between revisions

From Samskrita Vyakaranam
12---vyAvahArikii-shikShikA/visayah-jagratijagranti
Jump to navigation Jump to search
Content added Content deleted
m (Aurobind Padiyath moved page जाग्रति / जाग्रन्ति to जाग्रति / जाग्रन्ति over a redirect without leaving a redirect)
m (Protected "जाग्रति / जाग्रन्ति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
{{DISPLAYTITLE:जाग्रति / जाग्रन्ति}}
{{DISPLAYTITLE:जाग्रति / जाग्रन्ति}}
'''<big>विषयः - जाग्रति / जाग्रन्ति</big>'''
'''<big>विषयः - <u>जाग्रति / जाग्रन्ति</u></big>'''



<big>'''प्रश्नः'''</big>

<big>'''<u>प्रश्नः</u>'''</big>


<big>"प्रातःकाले सर्वे जाग्रति" उत "प्रातःकाले सर्वे जाग्रन्ति" -- अनयोः कः प्रयोगः साधुः?</big>
<big>"प्रातःकाले सर्वे जाग्रति" उत "प्रातःकाले सर्वे जाग्रन्ति" -- अनयोः कः प्रयोगः साधुः?</big>



<big>'''उत्तरम्'''</big>

<big>'''<u>उत्तरम्</u>'''</big>


<big>"प्रातःकाले सर्वे जाग्रति" इति साधुः प्रयोगः |</big>
<big>"प्रातःकाले सर्वे जाग्रति" इति साधुः प्रयोगः |</big>




<big>- जागृ निद्राक्षये इति अदादिगणीयः परस्मैपदी धातुः | अस्य लटि प्रथमपुरुषस्य बहुवचने जाग्रति इति रूपम् |</big>
<big>- जागृ निद्राक्षये इति अदादिगणीयः परस्मैपदी धातुः | अस्य लटि प्रथमपुरुषस्य बहुवचने जाग्रति इति रूपम् |</big>

Latest revision as of 23:46, 18 July 2021

विषयः - जाग्रति / जाग्रन्ति


प्रश्नः

"प्रातःकाले सर्वे जाग्रति" उत "प्रातःकाले सर्वे जाग्रन्ति" -- अनयोः कः प्रयोगः साधुः?


उत्तरम्

"प्रातःकाले सर्वे जाग्रति" इति साधुः प्रयोगः |


- जागृ निद्राक्षये इति अदादिगणीयः परस्मैपदी धातुः | अस्य लटि प्रथमपुरुषस्य बहुवचने जाग्रति इति रूपम् |

- अदादिगणे एकः अन्तर्गणः वर्तते, जक्षित्यादिगणः | अस्मिन् गणे जागृ-धातुः अपि अन्तर्भूतः |

- जक्षित्यादयः षट्‌ (६.१.६) इत्यनेन सूत्रेण जक्षित्यादीनां धातूनाम्‌ अभ्यस्त-संज्ञा भवति |

- अतः जक्षित्यादिगणीयस्य जगृ-धातोः जक्षित्यादयः षट्‌ इत्यनेन अभ्यस्तसंज्ञा विधीयते |

- प्रथमपुरुषस्य बहुवचने झि इति मूलतिङ्प्रत्ययः | अभ्यस्तसंज्ञकधातूनां कृते तिङ्प्रत्ययः किञ्चित् विशिष्टरीत्या निर्मीयते |

- अदभ्यस्तात् (७.१.४) इत्यनेन सूत्रेण अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति |

- जागृ-धातोः अभ्यस्तसंज्ञा इत्यस्मात् प्रथमपुरुषस्य बहुवचने अदभ्यस्तात् इत्यनेन झि झ् + इ अत् + इ अति इति तिङ्प्रत्ययः सिध्यति |

- जागृ-धातुः अदादिगणीयः इत्यतः अस्मात् सार्वधातुकप्रत्यये परे विहितस्य शपः लुक् अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन |

- अतः जागृ + शप् + अति जागृ + अति | अस्यां दशायाम्‌ इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः जागृ + अति जाग्रति |

- लट्-लकारस्य प्रथमापुरुषे जागृ-धातोः एकवचने जागर्ति, द्विवचने जागृतः, बहुवचने जाग्रति इति रूपाणि |

- एकवचने जागृ + तिप् , गुणकार्यं कृत्वा जागर् + ति जागर्ति | द्विवचने जागृ +तः, गुणाभावे वर्णमेलनमेव जागृतः इति रूपम् |