विश्वसति/विश्वसिति
विषयः - विश्वसति/विश्वसिति
प्रश्नः
“सः मयि विश्वसति” उत “सः मयि विश्वसिति” -- अनयोः कः साधुः ?
उत्तरम्
“सः मयि विश्वसिति” इत्येव साधुः प्रयोगः |
- प्रथमपुरुषैकवचने विश्वसिति, परञ्च बहुवचने विश्वसन्ति—कथमिति अग्रे द्रष्टव्यम् |
- श्वस प्राणने इति अदादिगणीयः अकर्मकः सेट् धातुः | अनुबन्धलोपे सति श्वस् इति लौकिकधातुः |
- श्वस्-धातुतः लट्-लकारे कर्त्रर्थे प्रथमपुरुषस्य एकवचनविवक्षायां तिप् इति तिङ्प्रत्ययः विहितः भवति |
- तिप्-प्रत्ययः कर्त्रर्थकः सार्वधातुकं च इति कारणतः कर्तरि शप् (३.१.६८) इत्यनेन श्वस्-धातुतः शप् विहितः |
- तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन अदादिगणीयेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) |
- शपः लुकि जाते अदादिगणीयेभ्यः धातुभ्यः विकरणप्रत्ययः न दृश्यते, श्वस् इति एव अङ्गं तिङन्तनिर्माणार्थम् |
- श्वस् + तिप् → (कर्तरि शप्) श्वस् + शप् + तिप् → (अदिप्रभृतिभ्यः शपः) श्वस् + तिप् इति स्थितिः |
- अस्यां स्थित्याम् अङ्गतिङ्प्रत्यययोः मध्ये शप् इति विकरणप्रत्ययाभावे श्वसति इति तिङन्तरूपं न सम्भवति एव |
- अदादिगणे रुदादिगणः इति एकः अन्तर्गणः वर्तते यस्मिन् अन्तर्गतधातूनां तिङन्तनिर्माणप्रक्रिया किञ्चित् भिन्ना |
- रुदाद्यन्तर्गणे पञ्च धातवः अन्तर्भूताः -- रुद्, अन्, श्वस्, स्वप्, जक्ष् इत्यिमे धातवः | श्वस्-धातुः एषु अन्यतमः |
- रुदादिभ्यः सार्वधातुके (७.२.७६) इत्यनेन इडागमः विधीयते रुदादिगणे पठितधातूत्तरस्य वलादि-सार्वधातुक-प्रत्ययस्य |
- श्वस् + तिप् इत्यस्यां दशायां तिप्-प्रत्ययः सार्वधातुकप्रत्ययः च वलादिः, नाम वल्-प्रत्याहारस्थः तकारः तिपः आदौ विद्यते |
- अतः रुदादिभ्यः सार्वधातुके इत्यनेन सूत्रेण तिपः इडागमो भूत्वा श्वस् + इ + तिप् → श्वसिति इति रूपं सिध्यति |
- तथा एव वि-उपसर्गपूर्वकस्य श्वस्-धातोः विश्वसिति इति रूपं सिध्यति प्रथमपुरुषस्य एकवचने | द्विवचने विश्वसितः |
- बहुवचने अन्ति इति प्रत्ययः वलादिः नास्ति इत्यस्मात् इडागमाभावे, वि + श्वस् + अन्ति → विश्वसन्ति इति रूपम् |
- एवमेव रोदिति, अनिति, स्वपिति, जक्षिति इत्यादीनि रूपाणि भवन्ति अपरेषां रुदाद्यन्तर्गणीयानां धातूनाम् अपि |
सूत्रपरिचयः
----------
रुदादिभ्यः सार्वधातुके (७.२.७६)
- निमित्तम् - अदादिगणे स्थितस्य रुदाद्यन्तर्गणीयः कश्चन धातुः, तस्मात् धातोः वलादिः सार्वधातुकप्रत्ययः |
- कार्यम् - रुदाद्यन्तर्गणे पठितधातूत्तरस्य वलादि-सार्वधातुक-प्रत्ययस्य इडागमः विधीयते |
- वल् आदिः यस्य सः वलादिः, यथा ति, तः, सि, थः, थ, मि, वः, मः इत्यादयः | तिङ्-प्रत्ययाः सर्वे सार्वधातुकाः |
- इट् इति आगमः टित् इत्यस्मात् आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य प्रत्ययस्य इडागमः तस्य प्रत्ययस्य आदौ अयम् आगमः आयाति |
कर्तरि शप् (३.१.६८)
- निमित्तं - धातुः, धातुतः कर्त्रर्थकः, सार्वधातुकप्रत्ययः | यथा कर्तरिप्रयोगे विहिताः तिङ्-प्रत्ययाः, शतृ-प्रत्ययः च |
- कार्यम् - कर्त्रर्थे सार्वधातुके प्रत्यये परे धातुतः शप्-प्रत्ययस्य विधानम् | यथा, भू + तिप् → भू + शप् + तिप् |
अदिप्रभृतिभ्यः शपः (२.४.७२)
- निमित्तम् - अदादिगणीयः कश्चन धातुः, तस्माच्च शप् प्रत्ययः |
- कार्यम् - अदादिगणीयेभ्यः विहितस्य शपः लुक् इत्यनेन लोपः | फलम् अस्ति यत् अदादिगणे विकरणप्रत्ययो नास्ति |